सामग्री पर जाएँ
सर्वकोश
प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

Prabodhachandrodaya of Krishnamishra with Commentary

कृष्णमिश्र यति द्वारा

कॉपीराइट समस्या बताएँ

DevanagariHindipublished274 पृष्ठ

पृष्ठ 106, कुल 274 में से

संदर्भ में पढ़ें
पृष्ठ 106
पृष्ठ 106 स्कैन

८८ प्रबोधचन्द्रोदयम्
मुहूर्तमपि न तुष्यन्ति । (सहि, इसेत्ति कहं भणीयदि । ता अवि मए विणा
मुहुत्तंवि ण तुस्संति )
विश्रमावती—सखि, अत एव भणामि त्वत्सदृशी सुभागास्यां पृथिव्यां
नास्ति, यस्याः सौभाग्यमाहात्म्यविधुरितहृदयाः सपत्न्यः प्रसादं प्रती-
च्छन्ति । सखि, अन्यद्भणामि । एवं निद्राकुलनयनविसंस्थुलस्खलच्चरण-
नूपुरझङ्कारमुखरया गत्या महाराजं संभावयन्ती शङ्कितहृदयं करिष्यति
प्रियसखीति तर्कयामि । (सहि, अदो जेव्व भणामि तुहसरिसी सुहआ इत्थिआ
पुहिवीए णत्थि । जाए सोअग्गमहद्धिविहुरिअहिश्रआ सावत्तिओ प्पसादं पडिच्छन्ति ।
सहि, अण्णञ्च भणामि । एवं णिद्दाउलणअणविसंठुलक्खलन्तचरणनेउलंझंका-
रमुहलाए गदीए महाराअं संभावयदी संकिदहिअअं करिस्सदि पिअसहीति तक्केमि )
मिथ्यादृष्टिः—किमत्र शङ्कितव्यम् । न चास्माकं महाराजनियुक्ताना-
सन्तोषं प्रकटयन्तीति हि वस्तुस्थितिरतस्तद्दीर्घ्याप्रश्नोऽनवकाश इति भावः ।
सुभगा-भाग्यशालिनी । यस्याः-तव । सौभाग्यमाहात्म्यविधुरितहृदयाः-
भाग्यवत्ताऽतिशयपराजितमनसः । प्रसादम्-प्रसन्नताम् । प्रतीच्छन्ति-कामयन्ते ।
सपत्न्यो हि सपत्न्याः सौभाग्यं दृष्ट्वा दुःखमनुभवन्त्यस्ततो विरक्तास्तिष्ठन्ति, सार्व-
त्रिकोऽयं नियमः, परमिदं तव सौभाग्यस्यैव महत्त्वं यत्त्वत्सौभाग्यमहत्तया पराजि-
तास्त्व सपत्न्यस्तव प्रसादमेव प्रतीक्षन्त इति धन्यासीति भावः । निद्रेति० निद्रया
स्वापप्रवृत्त्या आकुले पूर्णे ये नयने नेत्रे ताभ्याम् विसंस्थुलौ अयथास्थानन्यस्तावत्
एव च स्खलन्तौ निम्नोन्नतभूमिस्थापितत्वेन चलौ यौ चरणौ पादौ तयोः नूपुरयोः
झङ्कारः शब्दस्तेन मुखरया स शब्दया गत्या-गमनेन । महाराजम्-मोहम् । संभाव-
यन्ती-सत्कुर्वती । शङ्कितहृदयम्-परपुरुषरत्योश्चिह्नच्छापह्नपञ्चकृतोऽस्या नयनविकार
इति मनसि भावयन्तम् । अहं तर्कयामि त्वां निद्राकुलनयनतया स्खलद्गमनां दृष्ट्वा
तव परपुरुषोपभोगविषयां शङ्कां महाराजः करिष्यतीति भावः ।
महाराजनियुक्तानाम्-महाराजेन पुमन्तररमणार्थमाज्ञातानाम् । एषोऽविनयः-
रहती है ।
विश्रमा०-इसी लिये तो कहती हूं कि तुम्हारी जैसी सुभगा इस विश्वमें नहीं है जिसके
सौभाग्यसे पराजित सपत्नियां भी प्रसादकी कामना करतो हैं । सखि, और कहती हूँ,
इस तरह निद्रासे अलस आंखे। से स्खलित चरण चलती हुई तुम महाराजके हृदयमें
आशङ्का उत्पन्न कर दोगी ।
मिथ्यादृष्टि—इसमे शङ्काकी क्या बात है? हमलोग तो महाराजकी आज्ञासे ही ऐसा