परशुराम कल्पसूत्र (महर्षि परशुराम - आचार्य विद्यानिवास मिश्र सविस्तार हिन्दी व्याख्या)
Parasurama Kalpasutra with Vidya Niwas Mishra Commentary
भगवान् परशुराम (टीकाकार: प्रो. विद्यानिवास मिश्र) द्वारा
पृष्ठ 208, कुल 320 में से
संदर्भ में पढ़ेंवाराहीक्रमः
[ सप्तमः खण्डः ]
अथ वाराह्युपासनां वक्तुं प्रक्रमते
इत्थं साङ्गां सङ्गीतमातृकामिष्ट्वा संवित्साम्राज्ञी सिंहासना-
धिरूढाया ललिताया महाराज्ञा दण्डनायिकास्थानीयां दुष्टनिग्रह-
शिष्टानुग्रहनिर्गलाज्ञाचक्रां समयसङ्केतां कोलमुखीं विधि-
वद्वरिवस्येत् ।। १ ।।
इत्थं पूर्वोक्तप्रकारेण साङ्गां सावरणां सङ्गीतमातृकां मातङ्गीमिष्ट्वा
सम्पूज्य समुपास्य। अनेन सङ्गीतमातृकायागोत्तरकालस्य श्रीवाराह्युपासनाङ्गत्त्व-
मात्रं विधीयते। संविदः परशिवस्य वा साम्राज्ञी पट्टमहिषी तद्रूपायाः सिंहासनं
राज्ञः सदसि सर्वोत्तमत्वेनावस्थितमासनं तदधिरूढाया ललिताया महाराज्ञा
दण्डनायिकाया यत् स्थानं, तदीया स्वामिनी दुष्टनिग्रहाधिकारवती या ताम्।
दुष्टनिग्रहादौ निरर्गलम् अन्यानपेक्षं यदाज्ञाचक्रं तद्वतीम्। समयो गुप्तः सङ्केतः
शास्त्रपद्धतिर्यस्यास्तां 'समयो रहसि प्रोक्तः काले कार्यक्षमेऽपि वा' इति
त्र्यक्षरकोशः (विश्वकोषः)। कोलो वराहस्तस्य मुखमिव मुखं यस्यास्तां विधिवद्
वरिवस्येत् पूजयेत् ।।१।।
छठें खण्ड में सङ्गीतमातृका माता मातङ्गी की पूजा की चर्चा है। उस
विधान को पूरा करने के बाद ही वाराही उपासना की विधि अपनायी जानी
चाहिये। यहाँ इष्ट्वा में पूर्वकालिकक्रिया का प्रयोग है। अतः पूर्वकाल में
सङ्गीतमातृका मातङ्गी की उपासना प्रधान उपासना के रूप में पूरी कर लेने के
बाद ही अङ्गपूजा के रूप में वाराही माँ की पूजा करनी चाहिये। संवित् साम्राज्ञी