पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)
Panchatantra (with Commentary – All Five Tantras)
by पण्डित विष्णु शर्मा
Source: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (origin)
Page 341 of 536
Read in context( ३२६ ) पञ्चतन्त्रम् ।
कौशल है । उसको अंगीकार करके स्वयंही मै उसके विजयके निमित्त जाऊंगा
और शत्रुको वंचित कर वध करूंगा । कहा है कि-
बहुबुद्धिसमायुक्ताः सुविज्ञाना बलोत्कटान् ।
शक्ता वञ्चयितुं धूर्त्ता ब्राह्मणं छागलादिव ॥ ११७ ॥”
बहुत बुद्धिसे युक्त, अच्छे विज्ञानवाले बलसे उत्कट पुरुषोंको वंचन करनेमें
समर्थ होते हैं जैसे धूर्तोंने ब्राह्मणको ठग उससे बकरा हरण किया ॥११७॥”
मेघवर्ण आह,–“कथमेतत् ?” सोऽब्रवीत्–
मेघवर्ण बोला,–“यह कैसी कथा है ?” वह बोला-
कथा ३.
कस्मिंश्चित् अधिष्ठाने मित्रशर्मा नाम ब्राह्मणः कृताग्नि-
होत्रपरिग्रहः प्रतिवसति स्म । कदाचित् माघमासे सौम्या-
निले प्रवाति, मेघाच्छादिते गगने, मन्दं मन्दं प्रवर्षति पर्ज-
न्ये,पशुप्रार्थनाय किञ्चिद् ग्रामान्तरं गत्वा कश्चिद् यजमानो
याचितः । “भो यजमान ! आगामिन्याममावस्यायामहं
यक्ष्यामि यज्ञम् । तत् देहि मे पशुमेकम्” । अथ तेन तस्य
शास्त्रोक्तः पीवरतनुः पशुः प्रदत्तः । सोऽपि तं समर्थमितश्चे-
तश्च गच्छन्तं विज्ञाय स्कन्धे कृत्वा सत्वरं स्वपुराभिमुखः
प्रतस्थे । अथ तस्य गच्छतो मार्गे त्रयो धूर्त्ताः क्षुत्क्षामक-
ण्ठाः सम्मुखा बभूवुः । तैश्च तादृशं पीवरतनुं स्कन्धे आरू-
ढमवलोक्य मिथोऽभिहितम्,-“अहो ! अस्य पशोः भक्षणात
अद्यतनीयो हिमपातो व्यर्थतां नीयते तत् एनं वञ्चयित्वा
पशुम् आदाय शीतत्राणं कुर्मः” । अथ तेषामेकतमो वेशप-
रिवर्तनं विधाय सम्मुखो भूत्वा अपमार्गेण तं आहिताग्निम्
ऊचे–“भो ! भो ! बालाग्निहोत्रिन् ! किमेवं जनविरुद्धं
हास्यकार्यमनुष्ठीयते । यदेष सारमेयोऽपवित्रः स्कन्धा-
धिरूढो नीयते । उक्तञ्च यतः–
किसी स्थानमें मित्रशर्मा ब्राह्मण अग्निहोत्री रहताथा । वह एकबार माघके
महीनेमें मन्द पवनके बहन करते मेघाच्छादित आकाशसे मन्द मन्द वर्षाके