पञ्चसायक (कविशेखर ज्योतिरीश्वर - कामकला एवं रति-शास्त्र संस्कृत मूल पाठ)
Panchasayaka of Kavishekhara Jyotirishvara with Commentary
by कविशेखर ज्योतिरीश्वर (सम्पादक: पं. श्रीधर शास्त्री)
Page 82 of 109
Read in contextचतुर्थ सायक ५३
अथ चतुर्थः सायकः
[१] "अथ कन्यालक्षणसमुद्देशः-
अथ विवाहोचितकन्यायाः स्वरूपं वर्णयति
"प्रख्याते महति प्रभूतविभवे चारित्रशीलान्विते
विद्या धैर्य-विवेक-शौर्य विभव-श्लाघ्ये कुलीने कुले ।
कन्या भ्रातृयुता सुशीलविनया रूपोज्ज्वला दक्षिणा
१त्रैवर्ग्याश्रितशुद्धवंशजनिता सद्भिर्विवाह्या नरैः ॥ १ ॥
प्रकारान्तरेण स्वरूपं निरूपयति-
अम्भोजास्या बहलनयना भृङ्गकेशप्रचारा
तुङ्गा स्निग्धा कुसुमदशना पद्मगन्धाधरोष्ठी ।
रम्यश्रोत्रा मधुरवचना कम्बुकण्ठी शुभाङ्गी
मध्ये क्षीणा सुललितकरु दक्षिणावर्तनाभि ॥ २ ॥
"पीनश्रोणी कनककदलीस्तम्भजङ्घाभिरामा
रक्ताशोकप्रसवचरणा स्निग्धशाखाङ्गुलीका ।
इत्थं युक्ता सुललिततनुर्लक्षणैरुत्तमार्था
कन्या सद्भिश्श्रुतकुलरता सा विवाह्या गुणज्ञैः ॥ ३ ॥
इति कन्यालक्षणसमुद्देशः ॥
[२] "अथ कन्यादूषणसमुद्देशः-
अविवाह्यानां कन्यकानां स्वरूपं वर्णयति-
खर्वा पिङ्गलकुन्तला कृशतनुर्दीर्घातिरोमावृता
रूक्षा काकलोचना पृथुगला कृष्णाधरा दन्तुरा ।
१) "धर्मार्थाश्रिता प्रशस्ता । भगनासार्था शस्तारूपा" इति पाठान्तरमुपलब्धम् ।