सामग्री पर जाएँ
सर्वकोश
नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary

त्रिविक्रम भट्ट द्वारा

DevanagariHindipublished258 पृष्ठ

पृष्ठ 163, कुल 258 में से

संदर्भ में पढ़ें
पृष्ठ 163

पञ्चम उच्छ्वासः । १४३
येषां च
उच्चैः शाखाग्रसंलग्ना मन्ये नूनं वेनौकसाम् ।
कुर्वन्ति पुष्पसंदेहं निशि नक्षत्रपङ्क्तयः ॥ ४७ ॥
इतश्च ।
एतेषु प्रचण्डपवनाहततरुतलगलितसुगन्धिविविधविकचकुसुमप्रक-
रमकरन्दैमापीय पुनः शिखरशाखाभिमुखमुत्पतन्त्यो विभान्ति दुरा-
रोहतया कृताः केनापि निश्रेणय इव श्रेणयो मधुलिहाम् ॥ क ॥
इतश्च ।
निश्चलानां सैन्यभयेन तुङ्गतरुशिखरपञ्जरपुञ्जितगोलाङ्गूलमण्ड-
लानां निर्यन्नवप्ररोहाङ्कुराकाराः कुर्वन्ति वनदेवतानां क्रीडान्दोलनदो-
लारज्जुशङ्कामधोविलम्बिलाङ्गूललतिकाः ॥ ख ॥
इतश्च
चकासत्युड्डीयमानास्तरुशिरःशिखरशाखाग्रस्खलनविलग्नग्रहगण-
विमानपङ्क्तिपताका इव विहँगावलयो निश्चलम् ॥ ग ॥
इतश्च ।
विजृम्भमाणमञ्जरीजालेषु सर्वर्तुविकासिसहकारवनेषु वनदेवता-
भिरुद्दामदवदहनप्रतीकारार्थमनागतमेव संगृहीतवारिगर्भाब्मोदपटल-
मिवालोक्यते कोकिलाकुलकदम्बकम् ॥ घ ॥
इतश्च ।
विकसितसितपुष्पपिण्डपाण्डुरंशिखराः सुधाधवलितोर्ध्वभूमयो वि-
लासप्रासादा इव कुसुमसायकस्य जराधवलमौल्यः कञ्चुकिन इव व-
नदेवतानाम्, उन्मादयन्ति मनोऽमन्दमुचुकुन्दपादपाः ॥ ङ ॥
तदेवंविधेपून्मिषन्मुकुलविगलितवहलमरन्दसीकरासारसुरभित-
भूतलेषु मुग्धमृगपरिहृतदावानलज्वालायमानोन्मदशबरसीमन्तिनी-
चरणप्रहारविकसिताशोककाननेषु नवजलधरनिकुरम्बकान्तितमाल-
इतश्चेति ॥ गोलाङ्गूलानां कृष्णमुखमर्कटानां । लाङ्गूललतिकाः पुच्छवल्ल्यः ।
अतिलोमशत्वान्निर्यन्नवप्ररोहाङ्कुर आकारो यासाम् ॥ ख ॥
तदेवमिति ॥ मुग्धमृगेत्यादि वनविशेषणम् । लौहित्यान्मुग्धमृगैर्दावानल-
१ 'नगौकसाम्'. २ 'पवनाहततितल'; 'पवनाहतलतागलित'. ३ 'मकरन्दामोदम्'.
४ 'तुङ्गतरा'. ५ 'अधोलम्बित'. ६ 'विहङ्ग'. ७ 'जृम्भमाण'. ८ 'संगृहीतमिब'.
९ 'अवलोक्यते'. १० 'पाण्डुशिख'.