सामग्री पर जाएँ
सर्वकोश
नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary

त्रिविक्रम भट्ट द्वारा

DevanagariHindipublished258 पृष्ठ

पृष्ठ 162, कुल 258 में से

संदर्भ में पढ़ें
पृष्ठ 162

१४२ नलचम्पूः ।
मुहुरधिवसतां सतां मुनीना-
मपविपदां विपदाङ्कपङ्कभाञ्जि ।
तटनिकटवनानि नर्मदायाः
कथमिवभ्वन्ति भवन्ति कल्मषाणि ॥ ४२ ॥
इतश्च ।
क्वचित्प्रवरगैरिकासमसमुल्लसत्पल्लवं
लवङ्गलवलीलतातरलचलच्चकोरं क्वचित् ।
क्वचिद्गिरिसरित्तटीतरुणविस्फुरत्कन्दलं
दलन्निचुलमञ्जरीमधुनिरुद्धभृङ्गं क्वचित् ॥ ४३ ॥
क्वचिच्चुलकोकिलाकुलितनूतचूताङ्कुरं
कुरङ्गकुलसेवितप्रवलसालमूलं क्वचित् ।
क्वचित्प्रवरसंचरत्सुरवधूपदैः पावनं
वनं नयति विक्रियामिह मनो मुनीनामपि ॥४४॥ युग्मम् ॥
तदिद्धर्मद्यतनं दिवसमस्य सैन्यस्याध्वश्रमापन्नखेदोपनुत्तिनिमित्त-
मधिवसतु देवः ॥ क ॥
यत्र
वायुस्कन्धमवष्टभ्य स्फारितैः पुष्पलोचनैः ।
वियद्विस्तारमेते हि वीक्षन्त इव पादपाः ॥ ४५ ॥
अपिच येषाम्
स्कन्धशाखान्तरालेषु पश्य जीमूतपङ्क्तयः ।
लम्बमाना विलोक्यन्ते चैलडङ्गुलिका इव ॥ ४६ ॥
मुहुरिति ॥ इभवन्ति गजवन्ति तथा वीनां पक्षिणां पदमङ्को यत्र तथोक्तं
पङ्कं भजन्ते तानि नर्मदायास्तटसमीपवनानि कर्मभूतानि अधिवसतां सतां विदु-
षाम् । अपगता विपद्येभ्यस्तादृशां मुनीनां कथं कल्मषाणि पापानि भवन्ति । न
भवन्त्येवेत्यर्थः ॥ ४२ ॥
क्वचिदिति ॥ प्रवरं गैरिकं यत्र । तथा असममप्रतिमम् । सर्वोत्कृष्टमिति
यावत् । तथा समुल्लसन्तः पल्लवा यत्र । पश्चाद्यथायुक्ति कर्मधारयः । गैरिकशब्दो
नपुंसकः । 'प्रवरगैरिकोपम' इति वा पाठः ॥ ४३ ॥ ४४ ॥
तदिति ॥ खेदापनुत्तिः खेदापनोदः ॥ क ॥
वायुस्कन्धमिति ॥ स्कन्धः संहत्यर्थोऽसार्थश्च । कुतोऽत्रावासः । हि य-
स्मात् तुङ्गाः पुष्पिताश्चात्र पादपाः सन्ति ॥ ४५ ॥
१ 'अबतन'. २ 'वलगङ्गुलिः', 'वटवङ्गुलि'.