Skip to content
SarvaKosh
मुद्राराक्षसम् (सटीक संस्कृत नाटक)

मुद्राराक्षसम् (सटीक संस्कृत नाटक)

Mudrarakshasam Natakam with Hindi Commentary

by महाकवि विशाखदत्त

DevanagariSanskritpublished488 pages

Page 480 of 488

Read in context
Page 480

सप्तमोऽङ्कः ४०६

को (पा लेता है अर्थात् जैसे हाथी का बच्चा कालक्रम से गजसमूह के नेतृत्व को प्राप्त कर लेता है, उसी तरह इस चन्द्रगुप्त ने भी राज्य का सिंहासन पा लिया है) ॥ १२ ॥

टिप्पणी—सम्पन्नास्ते सर्वाशिषः—ते तव सम्बन्धे या या आशिषः मया दत्ताः ताः सर्वाः पूर्णाः जाता इत्यर्थः । आशास्यन्ते इति आशिषः आ√शास्+क्विप् कर्मणि, उपधायाः इत्वम् । सम्भावितमहोदयः—जिसके महान् अभ्युदय की संभावना की गई थी । इस श्लोक में श्रौती पूर्णोपमा अलंकार है और अनुष्टुप् छन्द है । अनुष्टुप् का लक्षण १, ३ में देखिए ॥ १२ ॥

[ प्रकाशम् ] राजन् विजयस्व ।

राजा—आर्य !—

जगतः किं न विजितं मयेति प्रविचिन्त्यताम् ।
गुरौ षाड्गुण्यचिन्तायामार्ये चार्ये च जाग्रति ॥ १३ ॥

अन्वयः—गुरौ—आर्ये च आर्ये च षाड्गुण्यचिन्तायाम् जाग्रति जगतः किं मया न विजितम् इति प्रविचिन्त्यताम् ॥ १३ ॥

व्याख्या—गुरौ आचार्ये, आर्ये च—पूज्ये चाणक्ये च, आर्ये च—माननीये राक्षसे च, षाड्गुण्यचिन्तायाम्—षाड्गुण्यस्य सन्धिविग्रहादीनां षण्णां गुणानां चिन्तायाम् अनुध्याने, जाग्रति—उद्यते सति, जगतः—संसारस्य, किं—वस्तु, मया—चन्द्रगुप्तेन, न विजितम्—न लब्धमित्यर्थः, इति प्रविचिन्त्यताम्—एतद्विचार्यताम् ॥ १३ ॥

हिन्द्यनुवाद—[ प्रकट ] राजन् ! विजयी रहो ।

राजा—आर्य ! गुरु आर्य (चाणक्य) के और आप के (संधि, विग्रह आदि) छह गुणों के चिन्तन में जागरूक रहने पर मैंने संसार का क्या नहीं जीता (अर्थात् सब कुछ जीत लिया)—यह सोचिये ॥ १३ ॥

टिप्पणी—विजयस्व—अत्र 'विपराभ्यां जेः' इत्यात्मनेपदम् । गुरौ—इसका सम्बन्ध 'आर्ये' और आर्ये' दोनों से अलग-अलग है, इसलिए यह एकवचन में प्रयुक्त हुआ है । षाड्गुण्यचिन्तायाम्—षडेव गुणाः इति