Skip to content
SarvaKosh
मुद्राराक्षसम् (सटीक संस्कृत नाटक)

मुद्राराक्षसम् (सटीक संस्कृत नाटक)

Mudrarakshasam Natakam with Hindi Commentary

by महाकवि विशाखदत्त

DevanagariSanskritpublished488 pages

Page 428 of 488

Read in context
Page 428

षष्ठोऽङ्कः । ३५१

पुरुषः—

छग्गुणसंजोअदिढ़ा उवाअपरिवाडिघडिदपाशमुही।
चाणक्कणीदिरज्जू रिउसंजमणउज्जुआ जयदि ॥४॥
( षड्गुणसंयोगदृढा उपायपरिपाटीघटितपाशमुखी।
चाणक्यनीतिरज्जू रिपुसंयमनऋजुका जयति ॥४॥)

[ परिक्रम्यावलोक्य च ] एसो सो अज्जचाणक्कस्स उन्दुरएण चरेण कधिदो प्पदेसो, जहिं मए अज्जचाणक्काणत्तीए अमच्चरक्खसो प्पेक्खिदब्बो। [ विलोक्य ] कहं एसो क्खु अमच्चरक्खसो किदसीसाबगुण्ठणो इदो ज्जेब आअच्छदि। ता जाव इमेहिं जिण्णु ज्जाणपादवेहिं अववारिदसरीरो प्पेक्खामि, कहिं आसणपरिग्गहं करेदि। (एष स आर्यचाणक्यस्योन्दुरकेण चरेण कथितः प्रदेशः, यत्र मयाऽऽर्यचाणक्याज्ञप्त्याऽमात्यराक्षसः प्रेक्षितव्यः। कथमेष खल्वमात्यराक्षसः, कृतशीर्षावगुण्ठन इत एवागच्छति। तद्यावदेभिर्जीर्णोद्यानपादपैरपवारितशरीरः प्रेक्षे, कुत्रासनपरिग्रहं करोतीति। [ इति परिक्रम्य तथा स्थितः। ]

अन्वयः— षड्गुणसंयोगदृढा उपायपरिपाटीघटितपाशमुखी रिपुसंयमनऋजुका चाणक्यनीतिरज्जुः जयति ॥४॥

व्याख्या— षड्गुणसंयोगदृढा— सन्धिविग्रहायानासनद्वैधाश्रयात्मकानां षण्णां गुणानां संयोगेन संघटनाया दृढा दुर्भेद्या ( रज्जुपक्षे—) षण्णां गुणानां षड्गुणितानां रज्जूनां संयोगेन सग्रथनेन दृढा अच्छेद्या, उपायपरिपाटीघटितपाशमुखी— उपायानां सामादिचतुष्टयानां परिपाट्या क्रमसमावेशेन घटितः रचितः यः पाशः जालं स मुखे प्रान्ते यस्याः तादृशी ( रज्जुपक्षे— ) उपायानां बहुविधनैपुण्यानां परिपाट्या घटितः यः पाशः स मुखे यस्याः तादृशी, रिपुसंयमनऋजुका— रिपोः शत्रोः यत् संयमनं बन्धनं तेन ऋजुका ऋज्वी सरला, चाणक्यनीतिरज्जुः— चाणक्यस्य कौटिल्यस्य नीतिः नयः एव रज्जुः दाम सा ( रज्जुपक्षे— ) चाणक्यनीतिः इव रज्जुः बन्धनदाम, जयति— जयेन युज्यते ॥४॥

हिन्दी अनुवाद— [तदनन्तर हाथ में रस्सी लिये एक पुरुष प्रवेश करता है।]

Mudrarakshasam Natakam with Hindi Commentary · Page 428 of 488 · SarvaKosh