Skip to content
SarvaKosh
मुद्राराक्षसम् (सटीक संस्कृत नाटक)

मुद्राराक्षसम् (सटीक संस्कृत नाटक)

Mudrarakshasam Natakam with Hindi Commentary

by महाकवि विशाखदत्त

DevanagariSanskritpublished488 pages

Page 397 of 488

Read in context
Page 397

३१८ मुद्राराक्षसम्

राक्षस —[ विलोक्य ] अये ! सिद्धार्थक ! भद्र ! किमिदम् ?

सिद्धार्थक —[ सबाष्पं लज्जां नाटयन् ] प्पसीददु प्पसीददु अमच्चो । अमच्च ! अतिताडीअन्तेण मए ण पारिदं अमच्चस्स रहस्स धारिदुं । ( प्रसीदतु प्रसीदत्वमात्य । अमात्य ! अतिताड्यमानेन मया न पारितममात्यस्य रहस्यं धारयितुम् । )

राक्षस —भद्र ! कीदृशं तत् रहस्यम् ? न खल्ववगच्छामि ।

सिद्धार्थक —ननु विष्णवेमि, ताडीअन्तेण मए—' । ( ननु विज्ञापयामि ताड्यमानेन मया—') [ इत्यधोक्तं सभयमधोमुखस्तिष्ठति ]

मलयकेतु — भागुरायण ! स्वामिनः पुरस्ताद् भीतो लज्जितश्च नैष कथयिष्यति, अतः स्वयमेवार्याय कथय ।

भागुरायण — यदाज्ञापयति कुमारः । अमात्य ! एष कथयति, यथा—'अहममात्यराक्षसेन लेखं दत्त्वा वाचिकञ्च सन्दिश्य चन्द्रगुप्तसकाशं प्रेषित' इति ।

राक्षस —भद्र सिद्धार्थक ! अपि सत्यम् ?

सिद्धार्थक —[ लज्जां नाटयन् ] एव्वं अतिताडीअन्तेण मए णिवेदितं । ( एवमतिताड्यमानेन मया निवेदितम् ।) ।

राक्षस — कुमार ! अनृतमेतत् ताड्यमानः किं न ब्रूयात् ?

मलयकेतु —भागुरायण ! दर्शय लेखं, वाचिकञ्चायमस्मै स्वभृत्यः कथयिष्यति ।

हिन्दी अनुवाद—राक्षस—[देखकर] अरे ! सिद्धार्थक ! भद्र ! यह क्या ?

सिद्धार्थक—[आंसू के साथ लज्जा का अभिनय करते हुए] अमात्य प्रसन्न हों, प्रसन्न हों। अमात्य ! बहुत पीटा जाता हुआ मैं अमात्य का रहस्य नहीं धारण कर पाया।

राक्षस—भद्र ! कैसा वह रहस्य है ? मैं नहीं समझ पा रहा हूँ।

सिद्धार्थक—निवेदन तो कर रहा हूँ कि पीटा जाता हुआ मैं—'। [ ऐसा आधा कहने पर भयपूर्वक मुंह नीचे किये खड़ा हो जाता है । ]