Skip to content
SarvaKosh
मुद्राराक्षसम् (सटीक संस्कृत नाटक)

मुद्राराक्षसम् (सटीक संस्कृत नाटक)

Mudrarakshasam Natakam with Hindi Commentary

by महाकवि विशाखदत्त

DevanagariSanskritpublished488 pages

Page 384 of 488

Read in context
Page 384

पञ्चमोऽङ्कः ३०१

मलयकेतुः—[ गृहीत्वा वाचयति । ] 'स्वस्ति, यथास्थानं कुतोपि, कोपि, कमपि, पुरुषविशेषमवगमयति । अस्मद्विपक्षं निराकृत्य दर्शिता कापि सत्यता सत्यवादिना । साम्प्रतमेषामपि प्रथममुपन्यस्तसन्धीनामस्मत्सुहृदां, पूर्वप्रतिज्ञातसन्धिपरिपणवस्तुप्रतिपादनप्रोत्साहनेन सत्यसन्धः, प्रीतिमुत्पादयितुमर्हति । एते ह्येवमनुगृहीताः सन्तः स्वाश्रयविनाशेनैवोपकारिणमाराधयिष्यन्ति । अविस्मृतमप्येतत्—सत्यवतः स्मारयामः । एतेषां मध्ये केचिदरेः कोषदन्तिभ्यामर्थिनः, केचिद् विषयेणेति अस्मान् प्रत्यलङ्कारत्रयञ्च, यत् सत्यवताऽनुप्रेषितं तदुपगतम् । अस्माभिरपि लेखस्याशून्यार्थं किञ्चिदनुप्रेषितं तदुपगमनीयं, वाचिकञ्चाप्ततमात् सिद्धार्थकाच्छ्रोतव्यम्' इति ।

व्याख्या—स्वस्ति—मङ्गलार्थकमव्ययमेतत्, यथास्थानं—स्थानमनतिक्रम्य कुतोऽपि—कस्मादपि स्थानादिति शेषः, कमपि, पुरुषविशेषम्—जनम्, अवगमयति—विज्ञापयति । अस्मद्विपक्षं—मम शत्रुं, निराकृत्य—निष्काश्य अमात्यपदात् पृथक्कृत्येत्यर्थः, सत्यवादिना—तथ्यभाषिणा, (भवता) कापि—लोकोत्तरा, सत्यता—सत्यपालनकर्तृता, दर्शिता—प्रकटिता । साम्प्रतम्—इदानीम्, प्रथमम्—प्राक्, उपन्यस्तसन्धीनाम्—उपन्यस्तः कृतः सन्धिः भवता सह सम्मेलनं यैः तथाविधानाम्, एषाम्, अस्मत्सुहृदाम्—अस्मन्मित्राणां, पूर्वप्रतिज्ञातसन्धिपरिपणवस्तुप्रतिपादनप्रोत्साहनेन—पूर्वं प्राक् प्रतिज्ञातस्य प्रतिश्रुतस्य सन्धेः सम्मेलनस्य परिपणः मूल्यभूतं यद् वस्तु तस्य प्रतिपादनं समर्पणं तेन प्रोत्साहनम् आश्वासनम् तेन, सत्यसन्धः—सत्यप्रतिज्ञः, प्रीतिम्—मुदम्, उत्पादयितुम् जनयितुम्, अर्हति—योग्यो भवति । एते—कौलूतप्रभृतयः, एवम्—इत्थम्, अनुगृहीताः—अनुकम्पिताः, सन्तः—भवन्तः, स्वाश्रयविनाशेनैव—स्वकीयावलम्बविघातेनैव हेतुना, उपकारिणम्—हितकारकं भवन्तमिति शेषः, आराधयिष्यन्ति । एतत्—पूर्वोक्तम्, अविस्मृतमपि—स्मृतमपीत्यर्थः, सत्यवतः—सत्यवादिनः भवत इत्यर्थः, स्मारयामः—स्मृतिपथं प्रापयामः । एतेषां—कौलूतप्रभृतीनां मध्ये, केचित्—कियन्तो जना इति शेषः, अरेः—रिपोः, कोषदन्तिभ्याम्—अर्थराशिगजाभ्याम्, अर्थिनः—धनवन्तः, केचित्—कियन्तो जनाः, विषयेण—राज्येन इति । अस्मान् प्रति अस्माकं पार्श्वे, अलङ्कारत्रयम्—त्रीणि भूषणानि, यत्, सत्यवता—सत्यभाषिणा भवतेति शेषः, अनुप्रेषितम्—प्रहितम्, तत्, उपगतम्—प्राप्तम्