Skip to content
SarvaKosh
मुद्राराक्षसम् (सटीक संस्कृत नाटक)

मुद्राराक्षसम् (सटीक संस्कृत नाटक)

Mudrarakshasam Natakam with Hindi Commentary

by महाकवि विशाखदत्त

DevanagariSanskritpublished488 pages

Page 294 of 488

Read in context
Page 294

तृतीयोऽङ्कः २०७

निपातः । उह्यते—धारण की जाती है । √ वह् + लट्—ते कर्मणि । इस श्लोक में उपमा अलंकार है, ओज गुण है, गौडी रीति है और स्रग्धरा छन्द है । इसका लक्षण १, १ में देखिए ॥२४॥

राजा—अथापरमपि प्रयोजनं यत्तच्छ्रोतुमिच्छामि ।

चाणक्यः—तदपि कथयामि ।

राजा—कथ्यताम् ।

चाणक्यः—शोणोत्तरे ! मद्वचनात् कायस्थमचलदत्तं ब्रूहि, यत् भद्रभट-प्रभृतीनां लेख्यपत्रं तत्तावत् दीयतामिति ।

प्रतीहारी—जं अज्जो आणवेदि त्ति ( यदार्य आज्ञापयतीति । )

[ निष्क्रम्य पुनः प्रविश्य ] अज्ज ! इदं पत्तं । (आर्य ! इदं पत्रम् । )

चाणक्यः—वृषल ! श्रूयताम् ।

राजा—दत्तावधानोऽस्मि ।

चाणक्यः—[ वाचयति ] स्वस्ति सुगृहीतनामधेयस्य देवस्य चन्द्रगुप्तस्य सहोत्थायिनां प्रधानपुरुषाणामितोऽपक्रम्य मलयकेतुमाश्रितानां प्रमाणलेख्यपत्रम् । तत्र प्रथमं तावत् गजाध्यक्षो भद्रभटः, अश्वाध्यक्षः पुरुषदत्तः, महाप्रतीहारस्य चन्द्रभानोर्भागिनेयो हिङ्गुरातः, देवस्य स्वजनगन्धी महाराजो बलगुप्तः, देवस्यैव कुमारसेवको राजसेनः सेनापतेः सिंहबलस्य कनीयान् भ्राता भागुरायणः मालवराजपुत्रो रोहिताक्षः क्षत्रगणमुख्यतमो विजयवर्मा इति ।

[ आत्मगतम् ] एते वयं देवस्य कार्येऽवहिताः स्म इति ।

[ प्रकाशम् ] एतावदेतत् पत्रम् ।

हिन्दी अनुवाद—राजा—अच्छा, दूसरा जो प्रयोजन है, उसे भी सुनना चाहता हूँ ।

चाणक्य—उसे भी कह देता हूँ ।

राजा—कह डालिए ।

चाणक्य—शोणोत्तरे ! मेरी ओर से कायस्थ अचलदत्त से कहो कि भद्रभट आदि का लिखा हुआ जो पत्र है, वह दे दो ।

Mudrarakshasam Natakam with Hindi Commentary · Page 294 of 488 · SarvaKosh