Skip to content
SarvaKosh
मुद्राराक्षसम् (सटीक संस्कृत नाटक)

मुद्राराक्षसम् (सटीक संस्कृत नाटक)

Mudrarakshasam Natakam with Hindi Commentary

by महाकवि विशाखदत्त

DevanagariSanskritpublished488 pages

Page 283 of 488

Read in context
Page 283

'१६६ मुद्राराक्षसम्

की किरणें जिनके बीच में पड़ती हैं । चूडारत्नानाम् अंशवः गर्भे येषां तादृशा व्यधिकरणबहुव्रीहि स०, गङ्ग्वादीनामाकृतिगणत्वात् सप्तम्यन्तस्य गर्भशब्दस्य परनिपातः । क्रियन्ताम्—अत्र 'आशिषि लिङ्लोटौ' इत्यनेन आशीर्र्थे लोट् । श्लोक का तात्पर्य यह है कि (उत्तर) हिमालय और दक्षिण सागर की सीमा के मध्यवर्ती राजा लोग वशीभूत होकर तुम्हें सदव प्रणाम किया करें । इसमे स्रग्धरा छन्द है । इसका लक्षण १, १ में देखिए ॥ १६ ॥

राजा—आर्यप्रसादादनुभूयत एवैतत्, नाऽऽशास्यते । उपविशत्वार्यः ।
[इत्युभौ यथासनमुपविष्टौ ।]

चाणक्य—वृषल ! किमर्थं वयमाहूताः ?

राजा—आर्यस्य दर्शनेनात्मानमनुग्राहयितुम् ।

चाणक्य—[स्मितं कृत्वा] वृषल ! अलमनेन प्रश्रयेण, न निष्प्रयोजनमधिकारवन्तः प्रभुभिराहूयन्ते, तत् प्रयोजनमभिधीयताम् ।

राजा—आर्य ! कौमुदीमहोत्सवप्रतिषेधस्य किं फलमार्यः पश्यति ?

चाणक्य—[स्मितं कृत्वा] वृषल ! उपालब्धुं तर्हि वयमाहूताः ।

राजा—आर्य ! नोपालब्धुम् ।

चाणक्य—किं तर्हि ?

राजा—विज्ञापयितुम् ।

चाणक्य—वृषल ! यद्येवं तर्हि विज्ञापनीयानामवश्यं शिष्येण रुचयोऽनुरोद्धव्याः ।

राजा—आर्य ! कः संदेहः ? किन्तु न कदाचिदप्यार्यस्य निष्प्रयोजना प्रवृत्तिरिति न प्रश्नावकाशः ।

चाणक्य—[...] ! सम्यग्गृहीतवानसि मदाशयम् । न हि प्रयोजन[...] चाणक्यश्चेष्टते ।

राजा—[...] भीतिर्मां प्रयोजनशुश्रूषा मुखरयति ।

चाणक्य—वृषल ! [...]स्तिव चेत्ताम् । इह खल्वर्थशास्त्रकारा [...] तद्यथा—राजायत्ता, सचिवायत्ताम्,