मुद्राराक्षसम् (सटीक संस्कृत नाटक)
Mudrarakshasam Natakam with Hindi Commentary
by महाकवि विशाखदत्त
Page 132 of 488
Read in contextप्रथमोऽङ्कः २६
दग्ध्वा सम्भ्रान्तपौरद्विजगणरहितान् नन्दवंशप्ररोहान्
दाह्याभावान्न खेदाज्ज्वलन इव वने शाम्यति क्रोधवह्निः ॥१९॥
अन्वय—(यस्य मम) क्रोधवह्निः अरियुवतिदिशाम् आननेन्दून् सन्ततैः शोकधूमैः श्यामीकृत्य मन्त्रिद्रुमेभ्यः नयपवनहृतं मोहभस्म कामं प्रकीर्य सम्भ्रान्तपौरद्विजगणरहितान् नन्दवंशप्ररोहान् दग्ध्वा वने ज्वलन इव दाह्याभावात् शाम्यति न खेदात् ॥१९॥
व्याख्या—( यस्य मम—चाणक्यस्य ) क्रोधवह्निः—कोपाग्निः, अरियुवतिदिशाम्—अरीणाम् रिपूणाम् नन्दानामिति यावत् युवतयः रमण्यः एव दिशः दिग्भागाः तासाम्, आननेन्दून्—आननानि मुखानि एव इन्दवः चन्द्राः तान्, सन्ततैः—अविच्छिन्नैः, शोकधूमैः—शोकः प्रियमरणादिरूपाः क्लेशभावाः त एव धूमाः तैः, श्यामीकृत्य—मलिनीकृत्य, मन्त्रिद्रुमेभ्यः—मन्त्रिरूपेभ्यो वृक्षेभ्यः नयपवनहृतं—नयः नीतिः तद्रूपेण पवनेन वायुना हृतम् आनीतं, मोहभस्म—कर्तव्यमूढतारूपं भस्म, कामं—यथेप्सितं, प्रकीर्य—विक्षिप्य, सम्भ्रान्तपौरद्विजगणरहितान्—सम्भ्रान्ताः सन्त्रस्ताः मान्याः वा ये पौराः नागरिकाः त एव द्विजगणाः पक्षिसंघाः तैः रहितान् परित्यक्तान्, नन्दवंशप्ररोहान्—नन्दरूपो वंशः वेणुः तस्य प्ररोहाः अङ्कुराः तान्, दग्ध्वा—भस्मसात् कृत्वा, वने—अरण्ये, ज्वलन इव—अग्निरिव दावाग्निरिवेत्यर्थः, दाह्याभावात्—दाह्यस्य भस्मीकरणीयस्य ( अपरस्य वस्तुनः ) अभावात् असत्त्वात्, शाम्यति—विरमति, न खेदात्—नहि श्रमात् ( शाम्यति ) ॥१९॥
हिन्दी अनुवाद—क्योकि, जिस मेरी—क्रोधाग्नि शत्रु-नारी रूपी दिशाओ के मुख रूपी चन्द्रों को घनीभूत शोकरूपी धुंओ से काले करके मन्त्री रूपी वृक्षो पर नीति रूपी वायु के द्वारा लाये हुए मोह रूपी भस्म को प्रचुरता से बिखेरकर भयभीत वा कुलीन नागरिक रूपी पक्षि-समूहों से शून्य नन्द रूपी बाँस के अंकुरों को जलाकर, जंगल मे दावाग्नि के समान, जलाने योग्य वस्तु के अभाव के कारण शान्त हो रही है न कि थकावट के कारण ( शान्त हो रही है ) । ( तात्पर्य यह है कि जैसे वन मे दावाग्नि चारो दिशाओं को धुँएं से मलिन करके सजीव वृक्षो पर राख फैलाकर और पक्षियों से परित्यक्त बाँसों या सूखे वृक्षों को जलाकर शान्त हो जाती है, उसी तरह चाणक्य की क्रोधाग्नि भी शोक से शत्र-स्त्रियों के