मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
इस ग्रन्थ के बारे में
मुद्गल पुराण गणपति-उपासना (गाणपत्य सम्प्रदाय) का प्रमुख उपपुराण है, जिसकी कथा परम्परा महर्षि मुद्गल से जोड़ती है। गणेश पुराण के साथ यह भगवान् गणेश के स्वरूप और लीलाओं का सबसे विस्तृत स्रोत माना जाता है। इसकी विशेषता गणेश के आठ अवतारों (वक्रतुण्ड, एकदन्त, महोदर, गजानन, लम्बोदर, विकट, विघ्नराज और धूम्रवर्ण) की कथाएँ हैं, जिनमें प्रत्येक अवतार मत्सर, मद, मोह, लोभ, क्रोध, काम, ममता और अभिमान जैसे विकारों के प्रतीक असुरों को जीतता है। इसीलिए इसे 'अष्टावतार चरित' भी कहा जाता है।
यह संस्कृत मूल पाठ का पोथी-शैली में छपा संस्करण है, जिसके हर पृष्ठ पर खण्ड और अध्याय की संख्या अंकित है। ग्रन्थ गणेश-वन्दना से आरम्भ होता है और नैमिषारण्य में शौनक आदि ऋषियों के पास सूत लोमहर्षण के आगमन से कथा का सूत्रपात होता है। पुराण नौ खण्डों में बँटा है और प्रत्येक खण्ड के अन्त में उसका माहात्म्य दिया गया है।
लगभग 1023 पृष्ठों का यह ग्रन्थ गाणपत्य दर्शन, स्वानन्देश गणेश की उपासना और महाराष्ट्र की गणेश-भक्ति परम्परा के अध्ययन में उपयोगी है।
यहाँ प्रस्तुत पृष्ठ का यथारूप (अक्षरशः) देवनागरी लिप्यंतरण दिया गया है:
[शीर्षक / Header]
खं. ६ अ. १८ | पान ४५
समाश्रित्य गर्भागारनिवासिनः। भवंति विघ्नराजाश्च सर्वे तस्य कलात्मकाः ॥४१॥ गर्भांगारं गणेशस्य मूर्तिरूपं महत्परम् ।
ज्ञातव्यं सर्वभावेन सेवनीयं विशेषतः ॥४२॥ शतकोटिगणेशानाः संस्थिता देवसत्तमाः । गर्भांगारं समाश्रित्य निश्चितं
गणपेन च ॥४३॥ नरैश्च मुनिभिर्देवैः स्थापिता गणनायकाः । गर्भागारे च ते सर्वे बुधैस्तभ्योऽधिका मताः ॥४४॥
गर्भागारे
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंखं. ६ अ. १९ पान ४६
निश्चितम् ॥६५॥ एवं सर्वं मया प्रोक्तं यथाशास्त्रं विधानतः । गर्भागारस्य विस्तारमाहात्म्यं देवसत्तमाः ॥६६॥ अन्ये
नाना गणेशाना गाणेशाः संस्थिताः परे । सेवार्थं गणनाथस्य गर्भागारे जगद्धिताः ॥६७॥ इदं शृणोति पठति यश्चित्रं
भक्तिसंयुतः । स सर्वपापहीनश्च भवेद्वै देवसत्तमाः ॥६८॥
॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंखं. ६ अ. १९ पान ४७
स्थिताः संस्थाप्य हेरंबं सेवायां तत्परा जनैः ॥१७॥ चैत्रशुक्लनवम्यां तु यात्रां तत्र प्रकुर्वते । क्षेत्रवासिन आनंदाद्वार्षिकीं
दुरितापहाम् ॥१८॥ द्वारकायाः पुरोभागे व्यासः सत्यवतीसुतः । संस्थितः सर्वधर्मज्ञो दशधनुःप्रमाणतः ॥१९॥ तत्पुरो
नृहरिश्चैव वामनस्तत्पुरोऽभवत् । मत्स्यस्तत्पुरतो विष्णुस्ततो बुद्धः प्रकीर्तितः ॥२०॥ नरनारायणौ देवौ तत्पुरः संस्थितौ
किल । हयग्रीवस्ततः प्रोक्तः समानमानतः स्थितः ॥२१॥ तथा वामांगभागे ये धनुषां
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंयहाँ पृष्ठ का मूल पाठ पंक्ति-दर-पंक्ति (Line-by-Line) दिया गया है:
खं. ६ अ. १९ | पान ४८
भवं कुंडं वर्तते तत्र पापहृत् । महाकालस्य कुंडं तु स्नानेन पापनाशनम् ॥४३॥ सोमवारे प्रदोषे तमर्चयंति विशेषतः । ते
सर्वे धनधान्यैश्च संयुक्ता निवसंति हि ॥४४॥ काश्या दक्षिभागे तु तावन्मानेन संयुता । मायापुरी महेशाना दक्षयज्ञच्छि-
दीश्वरः ॥४५॥ प्रदोषे च त्रयोदश्यां शनियुक्ते महेश्वरम् । पूजयेत्तं नरश्चैव क्षेत्रस्थः सर्वमाप्नुयात् ॥४६॥ तत्र द्वारं च गंगायाः
संस्थितं कुंडरूपकम् ।
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंखं. ६ अ. १९ पान ४९
तीर्थं संस्थितं तत्र पापहृत् । स्नानमात्रेण सद्यो दरिद्रतानाशकारकम् ॥६९॥ तस्या वामांगके शक्तिर्महाकाली समास्थिता ।
कालीसरश्च तत्रैव संस्थितं पापनाशनम् ॥७०॥ महासरस्वती शक्तिर्दक्षिणांगे स्थिता तथा । सारस्वतं महत् कुंडं तत्र जाड्य-
विनाशनम् ॥७१॥ स्वानंदवासमास्थाप्य भजते गणनायकम् । महालक्ष्मीर्महेशाना अष्टम्यां पूज्यते नरैः ॥७२॥ सिद्धीशं
तु महाकाल्यास्थाप्य भक्तिपरायणा । भजते नित्यमानंदाद्भूतायां पूज्यते तथा ॥७३॥ बुद्धीशं तु तृतीयायां
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंखं. ६ अ. १९ पान ५०
नित्यदा ॥९४॥ तत्र स्नानेन पापानि प्रणश्यंति महांति चेत् । जाड्यभावो नश्यति च नराणां देवसत्तमाः ॥९५॥
सिद्धिबुद्धिपतिं स्थाप्य सेवते चतुराननः । सदा गणेशपूजायां तत्परो भक्तिसंयुतः ॥९६॥ तथाऽग्निश्च महात्मानं
विनायकं निरंतरम् । आस्थाप्य भक्तिसंयुक्तो भजते नित्यमादरात् ॥९७॥ आग्नेयं तत्र कुंडं तु सर्वाघशमनं स्थितम् ।
स्नानमात्रेण जंतूनामग्निलोकप्रदं भवेत् ॥९८॥ कर्मनाशकरं कुंडं समीपं कर्मणः स्थितम् । स्नानेन त्रिविधं तत्र कृतं कर्म
विनश्यति ॥९९॥
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंखं. ६ अ. १९ | पान ५१
स्वस्वांकितेषु वारेषु पूजनीया इमे नरैः । पूर्णिमायां तमश्चैवामावास्यायां च केतुकः ॥२१॥ अन्ये सूर्यावताराश्च स्वस्वक्षेत्रैः
स्थिताः किल । तेषां नामादि कथितुं देवाः शक्यते न वै ॥२२॥ देवालयादष्टदिक्षु भैरवा अष्टमुख्यकाः । नाना भैरवसंयुक्ताः
संस्थिता देवतत्पराः ॥२३॥ तत इंद्रो हव्यवाहः पूर्वभागे समाश्रितौ । यमपो निर्ऋतिस्तद्वद्दक्षिणांगे च तिष्ठतः ॥२४॥
पश्चिमे वरुणो वायुः तिष्ठतः क्षेत्रसेवकौ । धनपो निर्ऋतिस्तद्वदुत्तरांगे समास्थितौ ॥२५॥
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंतस्य वामांगगः साक्षात्तावन्मानेन संस्थितः। पुलहस्तं प्रपूज्यैव कर्मयुक्तो भवेन्नरः ॥४७॥ कुंडं पुलहतीर्थाख्यं दोषहंतृ स्थितं
परम्। भजत्यास्थाप्य गाणेशो गणेशं नान्यभावतः ॥४८॥ यात्रा मृगशिरसि च तस्य प्रोक्ता मयूरके। कर्तव्या क्षेत्रवासि-
भिर्महापुण्यप्रवर्द्धिनी ॥४९॥ दक्षिणांगे क्रतुश्चैव कुंडं कृत्वा स्वतीर्थजम्। गणेश्वरं स्थाप्य योगी भजतेऽनन्यचेतसा ॥५०॥
आर्द्रायां स जनैः सर्वैः पूजनीयः प्रयत्नतः। यज्ञस्य फलदाता च भवेद्यात्राविधानतः ॥५१॥ भृगोः
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंखं. ६ अ. १९ | पान ५३
पुरोभागे वासिष्ठा मुनयोऽपरे । द्वे शते धनुषां क्षेत्रं तेषां तत्र स्थिता द्विजाः ॥७३॥ अत्रेः पुरस्थात्रेयास्तावन्मानेन संस्थिताः ।
पुलस्त्याग्रे च पौलस्त्या भवंति मुनयः स्थिताः ॥७४॥ स्वस्वतीर्थसमासक्ताः स्थाप्य विघ्नेश्वरांस्तथा । पूजयंति स्वनामस्थान्
भक्तियुक्ता महर्षयः ॥७५॥ मघायां चैव वासिष्ठाश्चित्रायामत्रिसंभवाः । हस्ते पौलस्त्यकाः पूज्याः क्षेत्रवासिभिरादरात्
॥७६॥ अन्ये मुनिगणा नाना सदा तत्रैव संस्थिताः । तेषु मुख्यान्
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंपान ५४
पूजयंति विशेषेण भक्तिभावसमन्विताः ॥९८॥ आश्लेषायां महायात्रा तेषां कार्या नरैः परा । पुत्रपौत्रप्रवृद्ध्यर्थ क्षेत्रवासि-
भिरादरात् ॥९९॥ अन्ये मुनिवरास्तत्र संस्थिता गणपे रताः । तेषु श्रेष्ठान् प्रवक्ष्यामि महायोगींद्रकांस्तथा ॥२००॥
दुर्वासा गालवश्चैव त्रिशिरा नै वो मुनिः । अगस्त्यश्च मृकंडस्तु मार्कंडेयो दधीचिकः ॥१॥ कथितेषु दिनेष्वेते पूजनीया
महात्मभिः । सर्वसौख्यप्रदातारो भवंते योगिसत्तमाः ॥२॥ तीर्थयुक्तां
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंखं. ६ अ. २० पान ५५
शृंगः प्रतापवान् । लोमशश्च विभांडोऽन्यो बह्लवाद्या महर्षयः ॥२३॥ स्वस्वतीर्थयुतास्ते संस्थाप्य विघ्नेश्वरान् सदा ।
पूजयंति महाभागाः स्वस्वनामसमन्वितान् ॥२४॥ उत्तराषाढनक्षत्रे पूजनीया नरैः सदा। सर्वपापहरास्ते वै भवंते
योगिसत्तमाः ॥२५॥ तत्पुरो गुह्यकाश्चैव हनूमान् पवनात्मजः । यक्षा रक्षोगणाः सर्वे भजंते गणनायकम् ॥२६॥
स्थाप्य ढुंढिं खतीर्थैस्तु युता ध्यानपरायणाः ।
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें[Header]
पान ५६
[Main Text]
साक्षाद्गणेश्वरस्यैव देहो योगमयोऽमराः। न तस्य बाधते किंचित् मृत्यरूपमिदं कदा॥१०॥ लोकानामुपकाराय जलपृथ्व्यादिकं
तथा। रचितं सर्वसामान्यं तत्र वासेन लभ्यते॥११॥ गणेशः सर्वयोगानामधिपो नात्र संशयः। न गणेशस्वरूपस्य विक्रिया
जायते ततः॥१२॥ योगरूपे नरास्तत्र निश्चये न मृताः किल। गाणेशे संभविष्यंति तदाकारा न संशयः॥१३॥ तथा
नरादयश्चान्ये वसंति क्षेत्रवासिनः। कुर्वंति मलमूत्रादि देवादीनां न बाधते ॥१४॥ देवविप्रादयस्तत्र
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंखं. ६ अ. २० | पान ५७
अत्यसाध्यशरीरेण गमनं यत्त्वया कृतम् । भुंक्ष्व पापं महादुष्ट मलत्यागभवं परम् ॥३६॥ साक्षाद्गणपतेः स्थाने गर्भागारे
गतो भवान् । तस्य मस्तकमध्ये तु पपात किल ते मलः ॥३७॥ अस्माभिश्च सुवासेन जलेन क्षालितं तदा । मस्तकं तस्य
देवस्य विष्ठायुक्तं तया कृतम् ॥३८॥ इत्युक्त्वा क्रूररूपं स दर्शयामास भैरवः । देवानीकाय तं सोऽपि दृष्ट्वा मूर्च्छामवाप ह
॥३९॥ ततस्तं सावधानं स पुनः कृत्वाऽग्निचक्रगम्। चकार
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंख ६ अ. २१ | पान ५८
॥ श्रीगणेशाय नमः॥ भुशुंड्युवाच। विकर्मकारिणां क्षेत्रे कथयिष्यामि चाधुना। यथा दंडः स्वहस्तैश्च क्रियते भैरवैर्महान् ॥१॥
मयूरे क्षत्रियः कश्चिद्वासं कृत्वा स्थितोऽभवत्। गत्वा वनांतरे लोकान् हत्वा द्रव्यं समग्रहीत् ॥२॥ कुटुंबपोषणे सक्तः
शिश्नोदरपरायणः। चकार विविधं पापं क्षेत्रे मायूरसंज्ञिते ॥३॥ परस्त्रियं बलाद् गृह्यायभक्तां निरपत्रपः। जातिभेदादिकं
सोऽपि मान्यं नैव चकार ह ॥४॥ भगिनीमेकलां दृष्ट्वा कदा मदेन विह्वलः। हठात् गृह्य
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंखं. ६ अ. २१ पान ५९
न वै ॥२६॥ अन्यं पापकृतः कर्म दाहकं विधिमुत्तमम् । कथयामि समासेन शृणुध्वं शिवमुख्यकाः ॥२७॥ ब्राह्मणः
काश्यपः कश्चित् मयूरे संस्थितोऽभवत् । चौर्यमद्यादिकं सोऽपि चकार नित्यमादरात् ॥२८॥ परस्त्रीलंपटः सोऽपि शिश्नो-
दरपरोऽभवत् । ब्रह्महत्यां द्रव्यलोभाच्चकार काश्यपोऽधमः ॥२९॥ ज्ञात्वा राज्ञा द्विजस्यैवाहृत्य सर्वं पुनर्द्विजम् । बद्ध्वा
क्षेत्राद्बहिश्चक्रे नरैर्धर्मपरायणैः ॥३०॥ ततो द्विजो विलप्यैव कृत्वा शपथमागतः । मयूरं तत्र लोकैः स द्वारयात्रा परो-
ऽभवत् ॥३१॥ द्वारयात्रारतं दृष्ट्वा लोकास्तं मेनिरे पुनः । ब्राह्मणं श्रद्धया युक्ता वस्त्रान्नं च ददुः परम् ॥३२॥ चतुर्द्वारमयीं
यात्रां चकार ब्राह्मणाधमः । पंचम्यां पारणं चक्रे षष्ठ्यां सर्पेण दंशितः ॥३३॥ मृतं मयूरक्षेत्रे तं विषोग्रेण प्रपीडितम् ।
संगृह्य भैरवाः सर्वे नग्नभैरवमाययुः ॥३४॥ यातनागारकं देवो दर्शयामास भीतिदम् । तस्मै पुनश्च विघ्नेशं दर्शयामास
देवपाः ॥३५॥ दृष्ट्वा गणपतिं सोऽपि ब्रह्मभूतो बभूव ह । क्षेत्रे कृतं महत्पापं द्वाराणां यात्रया गतम् ॥३६॥ अन्यच्च
शृणुत प्राज्ञा मयूरे चरितं भवम् । पुरा कल्पे समासेन कथयामि महेश्वराः ॥३७॥ दंडकारण्यदेशे तु ब्राह्मणोऽत्रिकुलो-
द्भवः । बाल्यात् प्रारभ्य दुर्बुद्धिः पापकर्मपरोऽभवत् ॥३८॥ नाम्ना देवाः सुप्रतीको द्रव्यलोभी बभूव ह । चौर्यद्रव्यं
जनानां संगृह्य भोगान् बुभोज च ॥३९॥ कदा सप्तपुरीणां च यात्रार्थं जग्मुरादरात् । चतुर्वर्णजनाः सोऽपि तेषां मध्ये
जगाम ह ॥४०॥ द्रव्यलोभी जनानां च चौर्यद्रव्यं समग्रहीत् । एवं बहुधनस्तत्र जातोऽसौ ब्राह्मणाधमः ॥४१॥ कृत्वा
सप्तपुरीणां ते यात्रां पुनः समाययुः । स्वदेशं तैः समायुक्तः सोऽपि स्वगृहमाययौ ॥४२॥ ततः स्त्रीपुत्रकान् स्वस्य मंडया-
मास भूषणैः । चचार तीर्थगो भूत्वा कदाचिच्चौर्यकारणात् ॥४३॥ द्विजः पौराणिकं दृष्ट्वा पुराणकथने रतम् । चौर्यार्थं
तत्र पापात्मा जनमध्ये समास्थितः ॥४४॥ ततो मयूरक्षेत्रस्य माहात्म्यं स्कांदसंभवम् । शुश्राव सुप्रतीकश्च जनैः
सर्वैर्महेश्वराः ॥४५॥ मयूरक्षेत्रमाहात्म्यश्रवणेन दुरात्मनः । द्विजस्य बुद्धिभेदो वै बभूवे दैवयोगतः ॥४६॥ स तु तत्र
चकारापि विचारं मानसे परम् । अहो मया द्विजेनैव किं कृतं पापमुल्बणम् ॥४७॥ विषादिना हता लोका ब्राह्मणाद्या
मया बहु । तीर्थेषु चौर्यहत्यादि पापं तु प्रकृतं मया ॥४८॥ काश्यां प्रदक्षिणायां तु पंचक्रोश्यां मया परम् । पापं कृतम-
पारं वै का गतिर्मे भविष्यति ॥४९॥ मद्धिना ब्राह्मणः कश्चिदीदृशो न भवेत् कदा । यो ब्रह्मणि रतः सर्वो ब्राह्मणस्तेन
कथ्यते ॥५०॥ एकांतगं ततः पौराणिकं गत्वा द्विजाधमः । उवाच तं प्रणम्यादौ कृत्वा करपुटं वचः ॥५१॥ सुप्रतीक उवाच ।
सर्वतीर्थेषु क्षेत्रेषु पापं दुष्टः समाचरेत् । वज्रलेपं तदेवाऽपि कुत्र नाशं गमिष्यति ॥५२॥ पौराणिक उवाच ।
सप्तपुर्यादिक्षेत्रेषु नरः पापं समाचरेत् । तन् मयूरक्षेत्र एव प्रवेशेन लयं व्रजेत् ॥५३॥ चतुर्विधानि क्षेत्राणि
सर्वत्र ब्रह्मगोलके । धर्मार्थकाममोक्षाणां प्रदानि सेवतां द्विज ॥५४॥ पंचमं ब्रह्मभूताख्यं मयूरं नात्र संशयः । तत्र पापं
कृतं चेद्वै वज्रलेपतमं भवेत् ॥५५॥ एवं तस्य वचः श्रुत्वा तं प्रणम्य समाययौ । गृहं दारादि संगृह्य मयूरेशं जगाम
ह ॥५६॥ यथाविधि चकाराऽसौ यात्रां क्षेत्रसमुद्भवाम् । द्वारादिचिह्नितां सोऽपि निवासमकरोत्ततः ॥५७॥ देवागारं
समाश्रित्याऽभजत्तं गणनायकम् । अंते पापविहीनः स ब्रह्मभूतो बभूव ह ॥५८॥ एवं नाना जनास्तत्र पतितानां महेश्वराः।
पतिताः पापहीनाः प्रवेशे जाता मयूरके ॥५९॥ अधुना कथयिष्यामि चरित्रं यत् पुरातनम् । श्रुत्वा संशयहीनास्तं मयूरेशं
भजंति वै ॥६०॥ वैश्यो धर्मध्वजो नाम द्रव्यलोभी बभूव ह । विषेण पितरं सोऽपि मारयामास लोभतः ॥६१॥ नाना-
द्विजादिकान् सोऽपि वंच पूज्यान् दुरात्मवान् । विषेण मारयामास नित्यं द्रव्यार्थमुल्बणः ॥६२॥ स कदाचिद्वणिग्भिश्च
क्रयविक्रयकारणात् । जगाम दंडकारण्ये जनैः सह महाखलः ॥६३॥ तत्र माघे महायात्रां जग्मुर्लोका विशेषतः । मयूरेशं
ततः सोऽपि तैर्जगाम सुहर्षितः ॥६४॥ द्रव्यलोभार्थमानंदात् पुरं मायूरमाययौ । तत्र प्रवेशमात्रेण तं च पापानि
तत्यजुः ॥६५॥ बहिः स्थितानि पश्यंति यदाऽसावागमिष्यति । तदा पुनः प्रवेशं वै करिष्यामो नराधमम् ॥६६॥ तत्र दैव-
प्रसंगेन न पापानि चकार ह । यथाविधि तथा यात्रां चक्रे हर्षसमन्वितः ॥६७॥ पुनर्मानवसंघैः स निर्जगाम महेश्वरः ।
मयूरेशं परित्यज्य मार्गसंस्थो बभूव ह ॥६८॥ तं दृष्ट्वा तस्य पापानि शुद्धं यात्राविधानतः । स्प्रष्टुं तान्यसमर्थानि बभूवु-
र्दैवसत्तमाः ॥६९॥ ततः पापानि सर्वाणि विचारं चक्रुरादरात् । अहो यः क्षेत्रगो भूत्वा पापानि कुरुते सदा ॥७०॥
तथाऽस्माभिर्मयूरेश्यं गत्वा पापं करिष्यति । ज्ञातं तेन महाविघ्नैः पीडितो नैव निश्चितम् ॥७१॥ अधुना शुद्धरूपोऽयं
बहिः सदा समागतः । अतः पुण्यानि नित्यं तु करिष्यति विशेषतः ॥७२॥ वयं कुत्र गमिष्यामो विघ्नं कुरुत सर्वतः ।
येनाऽयं पापकर्माऽपि कुरुते पापमल्पकम् ॥७३॥ किंचित् पापयुतं वैश्यं प्रविश्यामो विशेषतः । ततो महाघसंयुक्तं करि-
ष्यामो न संशयः ॥७४॥ एवं विचार्य पापानि पापिनां हृदयेषु च । प्रविश्य तान् समानाय्य वैश्यं तं समपीडयन् ॥७५॥
अकस्माच्चौरमुख्यैश्च द्रव्यं तस्य समाहृतम् । तेनातिदुःखयुक्तो हि धर्मध्वजो बभूव ह ॥७६॥ ततः पापेषु दुर्बुद्धिश्चकार
खं. ६ अ. २२ पान ६१
ह पुनर्मतिम् । एतस्मिन्नंतरे तत्र ब्राह्मणं स ददर्श ह ॥७७॥ तं प्रणम्य स्ववृत्तांतं कथयामास विस्तरात् । श्रुत्वा तं पुन-
र्प्याह ब्राह्मणः सर्वमार्गवित् ॥७८॥ त्वया कृतानि पापानि तानि त्वां पीडयंति वै । अतस्त्वं सत्वरो भूत्वा मयूरेशं
समाश्रय ॥७९॥ स्वजनैः पुत्रदारादि समानाय्य महामते । तत्रस्थो धर्मसंयुक्तो दुःखहीनो भविष्यसि ॥८०॥ तच्छ्रुत्वा स
प्रणम्यादौ तं मयूरेशकं द्विजम् । जगाम त्वरया युक्तस्ततः सर्वान् समानयत् ॥८१॥ मयूरे वैश्यवृत्त्या च धर्मयुक्तः
समास्थितः । धर्मध्वजश्चकाराऽसौ गणेशभजनं सदा ॥८२॥ पापानि भोगहीनानि बहिर्मग्नः स्थितान्यपि । धर्मध्वजश्च
देवेशा ब्रह्मैवांते बभूव ह ॥८३॥ क्षेत्रं नरेण मायूरं न त्याज्यं तु कदाचन । पीडितेन महादोषैर्मतं तदपि तद्दरम् ॥८४॥
अन्यत्र राज्यभोगस्थोऽथवा स्वर्गस्थ एव सः । मयूरे नीचजातिस्था किंच तेन समो न हि ॥८५॥ आयासेन विहीनत्वाद्व्रह्म-
भूतो भवेन्नरः । मयूरे तेन किं तुल्यं भवेद्ब्रह्मांडमंडले ॥८६॥ इदं यः शृणुयाद्देवा श्रावयेद्वा पठेन्नरः । पापहीनः स्वभावेन
धर्मयुक्तो भविष्यति ॥८७॥
॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खंडे विकटचरिते मयूरे यात्रार्थप्रवेशफलादिवर्णनं नामैकविंशतितमोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ भृशुंड्युवाच । अथ वक्ष्यामि देवेशा मयूरप्रापकं महत् । पुण्यं चित्तैकभावेन शृणुध्वं सुखदायकम्
॥१॥ कुत्र आंगिरसे जातो देवप्रिय इति श्रुतः । पुरा कल्पे स धर्मात्मा स्वधर्मनिरतोऽभवत् ॥२॥ गणेशे प्रीति-
संयुक्तो गाणपत्यप्रियोऽभवत् । मुक्तिमिच्छन् सदा कर्माणि चकार विधानतः ॥३॥ ततस्तस्य महेशाना बुद्धिः प्रादुर्बभूव
ह । तया संप्रेरितस्तीर्थानि क्षेत्राणि चकार ह ॥४॥ शास्त्रे विधिं समाश्रित्य पृथिव्यां मुख्यकानि सः । क्षेत्राणि
तीर्थमुख्यानि यात्रया चाकरोद् द्विजः ॥५॥ ततः स्वगृहमागत्य दारापत्यैः समन्वितः । गणेशमभजन्नित्यं भक्तियुक्तेन
चेतसा ॥६॥ ततश्च मानसे सोऽपि विचारमकरोत् परम् । अहो मयूरपक्षेत्रं सेवनीयं निरंतरम् ॥७॥ ज्ञात्वा द्विजं
समुद्युक्तं दारापत्यैः समन्वितम् । माया तं पीडयामास मयूरे वासभंजनात् ॥८॥ यात्रार्थं तेन यत्किंचित् गृहे द्रव्यादि
खं. ६ अ. २२ पान ६२
संचितम्। तदेव चौरमार्गेण नष्टं मायाप्रभावतः ॥९॥ ततोऽतिविस्मितो भूत्वा खेदयुक्तो बभूव ह। पापयुक्तोऽहमत्यंतं
तेन विघ्नयुतः कृतः ॥१०॥ शुक्लवृत्त्या गमिष्यामि मयूरेशं न संशयः। ततो ज्वरसमायुक्तो बभूव ब्राह्मणोत्तमः ॥११॥
निर्जगाम ततः सोऽपि स्वगृहे ज्वरसंयुतः। शुक्लवृत्तिधरो भूत्वा नियम्यात्मानमात्मना ॥१२॥ तृतीये दिवसे तत्र
विघ्नेशो विघ्नहारकः। बभूव स द्विजस्याऽपि परं शृणुत चेष्टितम् ॥१३॥ गणेशकृपया विप्रो ज्वरहीनो बभूव ह।
ब्राह्मणस्य स्वरूपेण गणेशस्तं समाययौ ॥१४॥ तस्य पुत्रं समाहूय द्रव्यं दत्वा सुपुष्कलम्। अंतर्धानं चकाराऽसौ पुत्र-
स्तातं जगाद तु ॥१५॥ ज्ञात्वा देवं विचार्यैव स्वस्थचित्तो बभूव ह। देवप्रियो मयूरेशमाजगाम द्विजोत्तमः ॥१६॥
यात्रादिकं चकाराऽसौ गर्भागारे समाश्रितः। अभजद्गणराजं तमंते तल्लीनतां ययौ ॥१७॥ यानि क्षेत्राणि तीर्थानि
ब्रह्मांडॆ सेवितानि चेत्। तदा नरेण मायूरक्षेत्रं लभ्यं महेश्वराः ॥१८॥ देवेशा ऊचुः। चोरादयः समाख्यातास्त्वया ब्रह्मर्षि-
सत्तम। किं चक्रुर्येन पुण्येन मयूरेशे लयं ययुः ॥१९॥ भृशुंड्युवाच। पूर्वजन्मनि माहात्म्यं संश्रुतं किंचिदप्यहो।
क्षेत्रस्य पापकर्मस्था अंते तत् सस्मरुर्यदि ॥२०॥ अंते स्मरणयोगेन पापिनोऽन्यभवे कदा। ययुः क्षेत्रे मरणतो लयं देवा
गणेश्वरे ॥२१॥ गाणेशस्य च मार्गस्य श्रवणं पापचेतसाम्। भवेन्नानाविधस्याऽपि किंचिद्देवेंद्रसत्तमाः ॥२२॥ यदि
मरणकाले तु तस्य संस्मरणं भवेत्। पुरो जन्मनि चाज्ञानात्तस्य संसेवनं भवेत् ॥२३॥ अथवा ज्ञानयुक्तः स नरस्तत् सकृदा-
चरेत्। यद्वा तद्वाऽऽचरेद्वापि ब्रह्मभूतः स जायते ॥२४॥ अथासंस्कारयुक्तस्य गाणेशेनाधिकारतः। प्रवेशो न भवेत्तस्य
चरित्रं शृणुत प्रियाः ॥२५॥ क्षत्रियः सुलभो नामा बभूव पृथिवीपतिः। अंगदेशस्य राज्यं स चकार धर्मसंयुक्तः ॥२६॥
मयूरेशस्य स श्रुत्वा माहात्म्यं क्षेत्रसंभवम्। पुत्रे राज्यं परित्यज्य वासार्थं तु मनो दधे ॥२७॥ यथाशास्त्रं विधानेन
मयूरेशं समाययौ। चकार विधिना यात्रां स्वयं द्वारादिचिह्निताम् ॥२८॥ ततस्तत्र स्थितो राजा वार्षिकीं विविधां
पुनः। चकार यात्रां क्षत्रस्थो देवादीनां विधानतः ॥२९॥ ततो मनसि संधार्य क्षेत्रसंन्यासकारणात्। सर्वाना-
ज्ञापयामास सस्त्रीकः स उवास ह ॥३०॥ ततः स भैरवेणैव बुद्धिभेदयुतः कृतः। विचारमकरोचित्ते किमिदं क्षेत्रमुत्तमम्
॥३१॥ न काशीतुल्यतां याति क्षेत्रं ब्रह्मांडमंडले। अयं शिवसुतः प्रोक्तो मयूरेशो न संशयः ॥३२॥ ब्रह्म सर्वत्र
योगेन तिष्ठति तेन वर्ण्यते। वेदादिषु गणेशानो ब्रह्मरूपी न मुख्यतः ॥३३॥ अतोऽहं भ्रमितो नूनं वाण्या पुराणसंस्थया।
यहाँ प्रस्तुत पृष्ठ का देवनागरी लिप्यंतरण (Line-by-Line Transcription) दिया गया है:
खं. ६ अ. २२ पान ६३
गमिष्यामि न संदेहः क्षेत्रं काशीसमाश्रितम् ॥३४॥ एवं विचार्य भूपालो मयूरं त्यज्य देवपाः । काशीं जगाम मार्गे स
ममार रोगसंयुक्तः ॥३५॥ पूर्वसंस्कारयोगेन काश्यां स ब्राह्मणोऽभवत् । धर्मयुक्तश्चकाराऽपि काशीवासं हितार्थतः ॥३६॥
मरणोन्मुखकालाय तस्मै विश्वेश्वरः स्वयम् । गणेशैकाक्षरं मंत्रं ददौ तारकनामकम् ॥३७॥ शौनक उवाच । कथां विचित्रां
वदसि सूत त्वं हर्षदायिनीम् । तत्र संशयकं छिंधि वदिष्यामि त्वदग्रतः ॥३८॥ रामनामभवं मंत्रमवदत्तारकं परम् ।
पुराणं कुत्रचित् देवं शिवपंचाक्षरं पुनः ॥३९॥ कुत्राँकारं च कुत्रापि शक्तिसूर्यात्मकं परम् । गणेशैकाक्षरं कुत्र निश्चयो
नैव जायते ॥४०॥ अतः संशयनाशार्थं वद सर्वज्ञसत्तम । त्वदन्यः संशयच्छेत्ताऽस्माकं नैव भविष्यति ॥४१॥ सूत उवाच ।
बिंबरूपं महद्ब्रह्म स एव चतुराननः । गकाराक्षरगश्चात्र गणेशैकाक्षरे मतः ॥४२॥ तस्य पालकभावेन विष्णुः सर्व-
प्रवर्तकः । अकाराक्षरसंस्थश्च मंत्रराजे महामुने ॥४३॥ तयोः संहारकर्ता त्वनुस्वारः शंकरः स्मृतः । वरदानाद् गणेशस्य
मंत्रे जानीहि निश्चितम् ॥४४॥ तेषां मनोमयो भानुः स्वस्वकर्मधरो बभौ । सानुनासिकरूपेण मंत्रे सोऽपि प्रतिष्ठितः ॥४५॥
चतुर्णां देहरूपा सा शक्तिर्वाणीमयी मता । सर्वत्र संस्थिता विप्र मंत्रे दृश्यस्वभावतः ॥४६॥ एभिः सृष्टं जगत्सर्व-
मोंकाराकृतिलक्षणम् । तत्र क्रीडंति तेनैव मंत्र ओंकारसंयुतः ॥४७॥ एतेषामर्थभावेन गणेशश्च प्रकीर्तितः । स एव
देवता प्रोक्ता वेदेषु वेदवादिभिः ॥४८॥ गणेशमंत्रगाः सर्वे देवेशाः शंकरादयः । जगन्नानाविधं ब्रह्म तथा तत्र स्थितं
मतम् ॥४९॥ यथा देवाश्च विप्रेश कलया गणपस्य वै । गणेशाकाररूपास्ते तथा मंत्राः प्रकीर्तिताः ॥५०॥ अन्यच्च शृणु
भावेन काश्यां नानाविधा जनाः । तिष्ठंति विविधान् देवान् भजंते भक्तिसंयुताः ॥५१॥ तेषु स्वधर्मनिष्ठा ये काशीवासं
यथाविधि । कुर्वंति तारकं तेभ्यो ददाति शंकरः स्वयम् ॥५२॥ तेषु शाक्ताः स्थितास्तत्र तेभ्यः शक्तिमयं परम् । तारकं
कथयामास शंकरः करुणानिधिः ॥५३॥ सौरेभ्यः सौरभावाख्यं शैवेभ्यः शिवरूपकम् । वैष्णवं विष्णुभक्तेभ्यस्तारकं
ह्यवदच्छिवः ॥५४॥ स्वधर्मनिरतास्तत्र कर्म चक्रुश्च नित्यशः । कर्मांगदेवप्रीत्यर्थमोंकारं तेभ्य आदिशत् ॥५५॥ गाणेशा ये
स्थितास्तेभ्यः पूर्णतारकरूपकम् । गणेशैकाक्षरं मंत्रं ददाति हर्षसंयुक्तः ॥५६॥ ते सर्वे तारकं प्राप्य कैलासे शिव-
सन्निभाः । अतिष्ठन् योगमास्थाय मंत्रध्यानपरायणाः ॥५७॥ साक्षात्कारं प्रचक्रुस्ते ब्रह्म यन् मंत्रगं परम् । तत्र तल्लीन-
भावेन योगिनो बभ्रुमुस्ततः ॥५८॥ महालये महेशस्य शरीरे लीनतां ययुः । पुनः सृष्टौ नरा भूत्वा तत्र योगरता बभुः ॥५९॥
पान ६४
मंत्रं मंत्रार्थभावं च त्यक्त्वा ब्रह्मणि संस्थिताः । खस्वेष्टब्रह्मगा अंते भवंस्ते मुनिसत्तम ॥६०॥ ये पापकारिणः काश्यां
वसंति यदि ते मृताः । तेभ्यस्तारकरूपं तु न ददाति सदाशिवः ॥६१॥ भैरवीं यातनां ते तु भुक्त्वा कैलासमास्थिताः ।
लये मरणसंयुक्ताः पुनर्जन्मधरा मताः ॥६२॥ शौनक उवाच । वदंति वै पुराणेषु मुनयो ब्रह्मवादिनः । क्षेत्रेषु नानाभावेषु
मृता मुक्तिमवाप्नुयुः ॥६३॥ तीर्थानि स्नानमात्रेण मुक्तिदानि वदंति च । व्रतादीनि महाप्राज्ञ नानामतविभेदतः ॥६४॥
सकामानि च कर्माणि कथितानि मुनीश्वरैः । नानाविधानि वै तेषु संस्मृतानि फलानि च ॥६५॥ तेषां कर्तार एवं ये
फलानि प्राप्नुवंति ते । इहैव किंचित् केचित्तु परत्र द्विजसत्तम ॥६६॥ केचित् स्वल्पफलं केचित् पुष्कलं नात्र संशयः ।
किमिदं कौतुकं विप्र वद कारणमुत्तमम् ॥६७॥ काश्यां मुक्तिं विशेषेण प्राप्नुवंति नरादयः । तत्रैव मरणे सूत कथं ते
जन्मिनोऽभवन् ॥६८॥ सूत उवाच । शब्दब्रह्मस्वरूपोऽयं गुरुरेकः प्रकीर्तितः । सर्वेषां विविधानां तु शिष्याणां नात्र
संशयः ॥६९॥ शिष्याश्चतुर्विधाः प्रोक्ता उत्तमा मध्यमास्तथा । अधमा अधमेषु चाधमा मुनींद्रसत्तम ॥७०॥ विषया-
सक्तचित्ता ये पापकर्मपरायणाः । दुःखयुक्ता यदाऽत्यंतं तदर्थं कर्मसेविनः ॥७१॥ अधमाधमरूपाश्च कथितास्ते महर्षिभिः ।
स्वल्पं फलं प्राप्नुवंतीह परत्र सुनिश्चितम् ॥७२॥ यदि कर्मफलं स्वल्पं ददाति कथितं सदा । तेषां तत्र रुचिर्नैवोत्पद्यते
मूर्खभावतः ॥७३॥ तेषां वचनभावार्थं प्रवृत्त्यर्थं च कर्मणि । फलमेकं समाख्यातं उत्तमाधममार्गिणाम् ॥७४॥ परेषां
लज्जया ये तु भयाद्वा कर्म कारिणः । अधमास्ते समाख्याताः प्राप्नुवंत्यधिकं फलम् ॥७५॥ सकामा ये स्वधर्मस्थाः कर्म
कुर्वंति नित्यशः । मध्यमास्ते फलं सर्वं भुंजंति कालमानतः ॥७६॥ निष्कामाः कर्मकर्तार उत्तमास्ते फलं मुने । अक्षयं
कल्पपर्यंतं भुंजंत्यत्र न संशयः ॥७७॥ तत्रैव युगमानं ते कथयामि समासतः । कृते कर्म कृतं सद्यः फलदं जायते
मुने ॥७८॥ त्रेतायां च कृतं कर्म्मान्यकर्माबाधभावतः । कालेन फलसंयुक्तं भवति प्राणिनां किल ॥७९॥ द्वापरे परलोके
वाऽन्यकर्माबाधभावतः । इह ते वापि भुंजंति धर्महीनप्रभावतः ॥८०॥ कलौ तु परलोके ते वाऽन्यजन्मनि मानवाः ।
संभोक्ष्यंति कृतं कर्म कालमानप्रभावतः ॥८१॥ आसुरेणैव भावेन नराः सत्तादिवर्जिताः । अतो जानीहि रुच्यर्थं फलं
चित्रं भवत्यहो ॥८२॥ यथाविधि कृतं कर्म तदा फलप्रदं भवेत् । अन्यथा कारकायैवासुरं दद्यात् फलं सदा ॥८३॥ कृते
कर्म कृतं येन सकृत्तस्य फलं लभेत् । त्रेतायां निष्फलं दृष्ट्वा तदा द्विगुणमाचरेत् ॥८४॥ फलं ददाति त्रिगुणं द्वापरे कर्म