मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
इस ग्रन्थ के बारे में
मुद्गल पुराण गणपति-उपासना (गाणपत्य सम्प्रदाय) का प्रमुख उपपुराण है, जिसकी कथा परम्परा महर्षि मुद्गल से जोड़ती है। गणेश पुराण के साथ यह भगवान् गणेश के स्वरूप और लीलाओं का सबसे विस्तृत स्रोत माना जाता है। इसकी विशेषता गणेश के आठ अवतारों (वक्रतुण्ड, एकदन्त, महोदर, गजानन, लम्बोदर, विकट, विघ्नराज और धूम्रवर्ण) की कथाएँ हैं, जिनमें प्रत्येक अवतार मत्सर, मद, मोह, लोभ, क्रोध, काम, ममता और अभिमान जैसे विकारों के प्रतीक असुरों को जीतता है। इसीलिए इसे 'अष्टावतार चरित' भी कहा जाता है।
यह संस्कृत मूल पाठ का पोथी-शैली में छपा संस्करण है, जिसके हर पृष्ठ पर खण्ड और अध्याय की संख्या अंकित है। ग्रन्थ गणेश-वन्दना से आरम्भ होता है और नैमिषारण्य में शौनक आदि ऋषियों के पास सूत लोमहर्षण के आगमन से कथा का सूत्रपात होता है। पुराण नौ खण्डों में बँटा है और प्रत्येक खण्ड के अन्त में उसका माहात्म्य दिया गया है।
लगभग 1023 पृष्ठों का यह ग्रन्थ गाणपत्य दर्शन, स्वानन्देश गणेश की उपासना और महाराष्ट्र की गणेश-भक्ति परम्परा के अध्ययन में उपयोगी है।
खं. ४ अ. ४ । पान ८
॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । अधुना शृणु दक्ष त्वं संवादं तं पुरातनम् । दशरथस्य राजर्षेर्वसिष्ठस्य महात्मनः ॥१॥
येन त्वं तिथिमुख्यायाश्चतुर्थ्या व्रतजे परे । महिम्नि निपुणोऽत्यंतं संभवेर्ब्रह्मपुत्रक ॥२॥ महायशा दशरथो
वंध्यदोषभयार्दितः । वसिष्ठं शरणं गत्वा नत्वा पप्रच्छ तं मुनिम् ॥३॥ दशरथ उवाच । पुत्रप्राप्त्यर्थमेवं भो वदोपायं महामुने ।
शिष्यं मां शाधि भावज्ञ तारयस्व भवार्णवात् ॥४॥ ततस्तं मुनिशार्दूल उवाच नृपमुत्तमम् । कुलदेवं गणेशं ते
भजस्व व्रतसंयुतः ॥५॥ वसिष्ठस्य वचः श्रुत्वा पुनस्तं प्रणनाम ह । पप्रच्छ विनयेनैव संयुतः स नृपोत्तमः ॥६॥
कीदृशं तद्व्रतं विप्र गणेशस्य महात्मनः । कृतं केन व्रतं तत्र भवेत् सिद्धिश्च कीदृशी ॥७॥ कस्मिन् काले व्रतं कार्यं
पूजनं कीदृशं मुने । वद सर्वं विशेषेण करिष्यामि त्वदाज्ञया ॥८॥ वसिष्ठ उवाच । चतुर्थी गणनाथस्य प्रियाऽत्यंतं नृपोत्तम ।
शुक्ला कृष्णा समाख्याता सर्वसिद्धिप्रदा भवेत् ॥९॥ चंद्रोदये यदा प्राप्ता कृष्णा सैव चतुर्थिका । सा संकष्टहरा प्रोक्ता
चतुर्विधफलप्रदा ॥१०॥ चतुर्विधं जगत् सर्वं जानीहि त्वं नृपात्मज । संकष्टं तत् समाख्यातं बंधनेन विशेषतः ॥११॥ इह
भुक्त्वाऽखिलान् भोगान् संकष्टीकरणात्नृप । सर्वसंकटहीनः स स्वानंदे प्रगमिष्यति ॥१२॥ यदा चन्द्रोदये भूप चतुर्थी नैव
लभ्यते । प्रदोषव्यापिनी ग्राह्या सर्वसंकटमुक्तये ॥१३॥ उभये चन्द्रसंयुक्ता प्राप्ता सा व्रतधारिणी । तदा स्वेच्छाविहारेण
कर्तव्या चन्द्रव्यापिनी ॥१४॥ तृतीयायां प्रदोषाच्च चंद्रस्योदयगा भवेत् । तदा सैव सदा ग्राह्या परां त्यक्त्वा विशेषतः ॥१५॥
शुक्ला सा वरदा प्रोक्ता चतुर्णां नात्र संशयः । संचिताऽसंचितानां वै व्रतकारिजनाय च ॥१६॥ धर्मार्थकाममोक्षाद्या-
श्चत्वारो ये पदार्थकाः । तान् ददाति गणेशस्य प्रीतिदा सा चतुर्थिका ॥१७॥ मध्याह्नव्यापिनी ग्राह्या सदा शुक्लचतुर्थिका ।
उभयत्र यदा नाप्ता पूर्वविद्धा मता तिथिः ॥१८॥ उभयत्र यदा प्राप्ता भवेत् प्रहरभानुगा । तृतीया चेत्तदा साऽपि
पूर्वविद्धा मता तिथिः ॥१९॥ प्रहरादूर्ध्वगा भूप तृतीया सूर्यसंयुता । तदा पूर्वा परा वाऽपि कार्या सैव चतुर्थिका ॥२०॥
चतुर्थीव्रतहीनस्य फलहीनानि भूमिप । व्रतानि सर्वकालेष्वाद्या कार्या सा ततः प्रभो ॥२१॥ एतद्व्रतं महाभाग ब्रह्मणा-
ऽऽचरितं पुरा । व्रतस्यैव प्रभावेण निर्ममे सकलं जगत् ॥२२॥ विष्णुना शंकरेणैव कृतं व्रतमनुत्तमम् । पालने हरणे देवौ
समर्थौ तौ बभूवतुः ॥२३॥ योगिभिः शुकमुख्यैश्च कश्यपादिमुनीश्वरैः । मुनिभिश्च कृतं पूर्वं स्वस्वकार्यार्थसिद्धये ॥२४॥
इह भुक्त्वाऽखिलान् भोगानंते स्वानंदगा बभुः । नानेन सदृशं विद्धि चतुर्णां साधकं नृप ॥२५॥ अन्यैर्नानाविधैरतत् कृतं
खं. ४ अ. ५ पान ९
वर्णाश्रमस्थितैः । ते सर्वे ब्रह्मभूता वै ययुः स्वानंदके पुरे ॥२६॥ एतद् व्रतं महीपाल कुरु त्वं भावसंयुतः । भविताऽसि
सपुत्रश्च तथा स्वानंदगो भवेः ॥२७॥
॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खंडे गजाननचरिते दशरथव्रतोपदेशो नाम चतुर्थोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । ब्रह्मादिभिः कथं विप्र चतुर्थीगं व्रतं कृतम् । गणनाथप्रियं पूर्णं वद सर्वं प्रविस्तरात्
॥१॥ दक्ष उवाच । वद मुद्गल माहात्म्यं चतुर्थ्यास्त्वं प्रविस्तरात् । श्रुत्वा कथां महारम्यां न तृप्यामि मुनीश्वर ॥२॥ दक्षस्य
भक्तिसंयुक्तं वाक्यं श्रुत्वा महामुनिः । जगाद तं विशेषज्ञो मुद्गलः शृणु शौनक ॥३॥ वचनं नृपवर्यस्य श्रुत्वा दशरथस्य
च । जगाद तं मुनिश्रेष्ठो वसिष्ठः सर्ववित् प्रभुः ॥४॥ वसिष्ठ उवाच । कदाचित् प्रलये वृत्ते नष्टं स्थावरजंगमम् । पंचभूतमयं
सर्वं व्यवस्थासंयुतं पुरा ॥५॥ शून्यवत् सर्वभावैस्तद्धीनं ब्रह्ममयं बभौ । योगनिद्रा गणेशस्य सैव वेदे प्रकथ्यते ॥६॥ पुनः
स कस्मिंश्चित्काले वेदवाग्भिः प्रबोधितः । गणेशो निर्ममे सर्वं तत्त्वैस्तत्त्वप्रधारकः ॥७॥ त्रिगुणेभ्यः समुत्पन्ना देवाः पंच
नृपेश्वर । ब्रह्मा विष्णुः शिवः शक्तिः सूर्यः सर्वधरा बभुः ॥८॥ तैस्तपश्चरितं घोरमेकाक्षरविधानतः । तपसा गणनाथस्तु
प्रसन्नः प्रबभूव ह ॥९॥ हृदये दर्शयामास स्वात्मानं सर्वदं परम् । तेन ज्ञानयुता जाता देवाः पंच नरेश्वर ॥१०॥
तैश्च संप्रार्थितो योगी भृशुंडी सर्वपारगः । तेन संप्रेषिता देवा आययुर्नगरे निजे ॥११॥ कर्मभूमौ गणेशस्य क्षेत्रं
स्वानंदवाचकम् । वेदैः संदर्शितं स्थापयामासुस्तत्र विघ्नपम् ॥१२॥ यस्मिन् काले च देवेशैः स्थापिता मूर्तिरादरात् । तस्मिन्
काले चतुर्थी सा भाद्री शुक्ला बभूव ह ॥१३॥ मध्याह्नसमये संस्था सा मुख्या प्रबभूव ह । तत आराधितस्तैः स
गणराजो विशेषतः ॥१४॥ माघमासे सिते पक्षे चतुर्थ्यां राजसत्तम । प्रकटोऽभूत् पुरस्तेषां वरदाता गजाननः ॥१५॥
वरप्रसादेन तस्य निर्मितं सकलं जगत् । देवेशैः सा तिथिर्मुख्या बभूव वरदायिनी ॥१६॥ ब्रह्मादिभिश्च सर्वेभ्य उपदिष्टा
चतुर्थिका॑ । आदौ काले तथा तत्र ज्येष्ठी मुख्या बभूव सा ॥१७॥ ज्येष्ठशुद्धचतुर्थ्यां तद्व्रतदानं कृतं पुरा । तस्मिन् काले
धृता सर्वैः सद्यः सा वरदायिनी ॥१८॥ अतो मुख्यत्वमापन्ना ज्येष्ठी माघी च भाद्रिका । चतुर्थी नृपशार्दूल शुक्लपक्षेषु
सर्वदा ॥१९॥ तत्र भाद्रपदे मासे चतुर्थी या महामते । शुक्ला साऽत्यंतभावेन मुख्या जाताऽद्य भावतः ॥२०॥
चतुर्थी समभावेन न किंचिद्वर्तते व्रतम् । अतः किं वर्णनीयं वै तदौपम्यं तदेव च ॥२१॥ भाद्रे चतुर्थी या शुक्ला साधिता
सा नरेण चेत् । स द्वादशचतुर्थीसंभवं पुण्यं समाप्नुयात् ॥२२॥ अंगारकयुता भूप सा नरेण कृता भवेत् । चतुर्थी षोडशभवं
पुण्यं प्राप्तं न संशयः ॥२३॥ नरेण धीमता सा चेद्यदि चंद्रयुता कृता । चतुर्थी विंशतिभवं फलं प्राप्तं महामते ॥२४॥ यदि
स्वातियुता भूप चंद्रवारेण चेत्कृता । प्राप्तं चतुर्विंशतिचतुर्थीजं किल पुण्यकम् ॥२५॥ माघे शुक्लचतुर्थी सा कृता चेन्नात्र
संशयः । अष्टानां च चतुर्थीनां फलं प्राप्तं नरेण तत् ॥२६॥ अंगारकयुता चेद्वै साधिता सा नरेण च । द्वादशानां चतुर्थीनां
पुण्यं प्राप्तं व्रतोद्भवम् ॥२७॥ ज्येष्ठे शुक्लचतुर्थीं यः करोति व्रतधारकः । चतुश्चतुर्थीजं पुण्यं लभते स नराधिप ॥२८॥
अंगारकयुता चेद् द्वादशभिः समतां व्रजेत् । नरेण सा प्रयत्नेन कर्तव्या सर्वदायिका ॥२९॥ अन्येषु श्रावणाद्येषु चतुर्थी वरदा
कृता । धर्मार्थकाममोक्षाणां दात्री शास्त्रेषु संमतम् ॥३०॥ तत्र श्रावणमासे या चतुर्थी वरदा मता । द्विचतुर्थीभवं पुण्यं
ददाति व्रतकारिणे ॥३१॥ चतुर्थ्या महिमाऽनंतोऽशक्यौ वर्णयितुं भवेत् । चतुःपदप्रदा प्रोक्ता सा कथं वर्ण्यते मया ॥३२॥
अधुना शृणु राजेंद्र कृष्णपक्षे समागताम् । चतुर्थीं सर्वदां पुण्यां संकष्टहरिणीं शुभाम् ॥३३॥ चतुर्विधं च संकष्टं प्राप्तं
सर्वैर्नराधिप । जन्ममृत्युत्य्रव्यवस्थारूयं चतुर्थं कर्मजं फलम् ॥३४॥ इत्यादिबहवो भेदाः कथनं नैव शक्यते । चतुर्विधं जगत्
सर्वं पंचमं ब्रह्म उच्यते ॥३५॥ चतुर्विधं सुसंकष्टं व्रतमात्रेण हंति या । संकष्टहरिणी प्रोक्ता चतुर्थी कृष्णपक्षगा ॥३६॥
तस्यापि महिमानं कः क्षमो वर्णयितुं भवेत् । सर्वसिद्धिप्रदायास्तु व्रताचरणमात्रतः ॥३७॥ माघमासे कृताऽऽदौ च ब्रह्मणा
विश्वयोनिना । अतः सा मुख्यतां प्राप्ताऽष्टचतुर्थीव्रतैः समा ॥३८॥ अंगारकयुता तत्र विंशत्या समतां व्रजेत् । साधिता
व्रतभावेन चेन्नरेण नराधिप ॥३९॥ श्रावणे या समाख्याता चतुर्थी कृष्णपक्षगा । चतुश्चतुर्थीतुल्या सा भवत्यत्र न संशयः
॥४०॥ ब्रह्मणा चोपदिष्टा वै श्रावणे सा ततोऽधिका । आदौ देवमुनींद्रेभ्यः सर्वसंकष्टहारिणी ॥४१॥ भाद्रमासे नराधीश
चतुर्थी कृष्णपक्षगा । चतुश्चतुर्थीतुल्या सा शृणु कारणमत्र वै ॥४२॥ देवानां गणनांथश्च वरदः संबभूव ह । व्रतमात्रेण
तस्मात् सा मुख्या जाता न संशयः ॥४३॥ अंगारकयुता कुत्र संप्राप्ता चेत् सुसिद्धिदा । द्वादशव्रतजं पुण्यं ददाति
व्रतकारिणे ॥४४॥ शुक्ला कृष्णा सदा कार्या चतुःपदसुसिद्धये । अन्यथा सिद्धिहीनानि प्रभवंति व्रतानि च ॥४५॥
॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खंडे गजाननचरिते चतुर्थीविवेकवर्णनं नाम पंचमोऽध्यायः ॥
❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀
पान १२
नमः ॥२६॥ सर्वाद्ये महादात्रे सर्वपूज्याय वै नमः । सर्वभावस्थितायैव ढंढिराजाय ते नमः ॥२७॥ स्वानंदवासिने तुभ्यं
योगशांतिमयाय च । योगिभ्यो योगदात्रे वै योगानां पतये नमः ॥२८॥ सृष्टिकर्त्रे च पात्रे ते सृष्टिहर्त्रे नमो नमः । गणेशाय
गुणानां वै चालकाय नमो नमः ॥२९॥ आत्मनेऽनात्मने चैव कारणानां प्रकाशिने । ब्रह्मेशाय सदानाथ देवपालकरूपिणे
॥३०॥ निवारय महाविघ्नं सहसा समुपस्थितम् । ग्रसिष्यति न चेदंडमस्मान् वै नात्र संशयः ॥३१॥ त्वदीयपादपद्मस्य वयं
दासा
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंप्रणम्य गणनायकम् । गजवक्त्रयुतं रूपं किं धृतं विकटं प्रभो ॥५३॥ पुनः पुनरुवाचेदं वाक्यं हास्यपरायणः । ततस्तं कुपितो
देवः शशाप शशलाञ्छनम् ॥५४॥ ये त्वां विलोकयंते वै चन्द्र ते पापिनः सदा । भवंतु विघ्नसंयुक्ता मद्वाक्यान्नात्र संशयः
॥५५॥ एवमुक्त्वांतर्दधेऽसौ गणेशो ब्रह्मनायकः । भार्याभिः सहितो भूप चन्द्रश्च मलिनोऽभवत् ॥५६॥ अहंकारविहीनास्ते
जाताः शंम्वादयः सुराः । तदारभ्य महाभाग गाणपत्या विशेषतः ॥५७॥ वेदज्ञाऽहंकृतिः पूर्णा ब्रह्मणो
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंखं. ४ अ. ६ पान १४
साक्षाद्भूवात्र न संशयः ॥७८॥ वेदेषु कथितं ते यद्रूपं परमयोगदम् । तन्न ज्ञातं मया देव मोहेनैव गजानन ॥७९॥
अपराधं दयासिंधो क्षम त्वं चित्तगं प्रभो । एवं क्षमाप्य विघ्नेशं ध्यात्वा लीनो बभूव ह ॥८०॥ गंगातीरे समागम्य तताप
तप उत्तमम् । अष्टादशाक्षरेणैव तोषयामास विघ्नपम् ॥८१॥ चंद्रे लीने जगत् सर्वं दुःखयुक्तं बभूव ह । सूर्यस्य तेजसा
दग्धं रसहीनं चराचरम् ॥८२॥ ततो देवगणैः सर्वैर्भयभीतैः समंततः । शंभुविष्णुमुखास्तत्र तपस्तेपुः सहेश्वराः ॥८३॥
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंखं. ४ अ. ६ पान १५
योगिसंमतः ॥४॥ ततोऽतिभक्तिसंयुक्तं नृत्यंतं देवसंनिधौ । रोमांचाश्रुसमायुक्तं दृष्ट्वा ढुंढिर्जगाद तम् ॥५॥ श्रीगणेश उवाच ।
त्वया कृतमिदं स्तोत्रं मम प्रीतिविवर्धनम् । अपराधाननंतांश्च सहे तेऽनेन निश्चितम् ॥६॥ सर्वसिद्धिप्रदं पूर्णं भविष्यति
विशेषतः । पठतां शृण्वतां चैव नानासुखकारकं भवेत् ॥७॥ यथापूर्वं स्थितश्चंद्र तादृशो भव नित्यदा । यस्मिन्
दिने कृतं हास्यं तत्र दोषयुतो भवेः ॥८॥ ललाटे भूषणं मे त्वं भव सेवापरायणः । चतुर्थ्यां कृष्णपक्षस्य
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंखं. ४ अ. ६ | पान १६
त्वं तु नित्यदा। शोभार्थं कंठगं तात मणिं कुरु नृपस्य तम् ॥१३०॥ एवमुक्तः स सत्राजित्तमुवाच समन्युना।
प्रसेनाय मया दत्तः स मे नैव ददाति तम् ॥१३१॥ एवमुक्त्वा गृहं गत्वा स्वानुजाय ददौ मणिम् । प्रसेनाय स्ववृत्तांतं
कथयामास विस्तरात् ॥१३२॥ ततः कदाचित् कृष्णेन सहिता यदुनंदनाः । मृगयार्थं वने राजन् जग्मुर्हर्षसमन्विताः ॥१३३॥
तत्राशुचिस्वभावेन प्रसेनस्तं मणिं परम् । बबंध स्वगले सोऽपि तैः सह प्रययौ वनम् ॥१३४॥ अशुचित्वस्य दोषेण
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंखं. ४ अ. ६ | पान १७
किलास्माकं गता बहिः ॥५५॥ तथापि विवरात् कृष्णो न बहिश्च समागतः । मृतो वा जीवितो वा स ज्ञायते किं न
यादवः ॥५६॥ वसुदेवादयः श्रुत्वा सस्त्रीका नृप दुःखिताः । उग्रसेनादयः सर्वे रुरुदुर्दुःखकर्शिताः ॥५७॥ परेऽस्माकं
विशेषेण शत्रवः संस्थिता अहो । जरासंधादयश्चान्ये किं भविष्यति यादवाः ॥५८॥ हीनाः कृष्णेन संजाता अधुना नात्र
संशयः । द्विषद्भिः संहताः सर्वे मरिष्यामः सपक्षकः ॥५९॥ ततो रामेण ते सर्वे सांत्विता बहुलोक्तिभिः ।
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंखं. ४ अ. ६
पान १८
ज्ञात्वा रोषितं शतधन्वाऽक्रूरमाययौ ॥१८०॥ अक्रूरेण समात्यक्तः कृतवर्माणमाययौ । तेनापि न धृतः पक्षः पुनः
सोऽक्रूरमाययौ ॥८१॥ मणिं तत्रैव निक्षिप्य पपाल भयसंकुलः । शतयोजनगाऽश्विन्यां समारुह्य नृपात्मज ॥८२॥
पलायमानं विज्ञाय कृष्णः संकर्षणान्वितः । रथमारुह्य वेगेन तमनु प्रययौ तदा ॥८३॥ योजनानां शतं गत्वा ममार ह
पुरोऽश्विनी । शतधन्वा भयैर्युक्तः पलायत पदा ततः ॥८४॥ पदातिनं च तं ज्ञात्वा कृष्णोऽधावत् सुसत्वरः । पदातिर्बलभद्रे
स
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंखं. ४ अ. ६ पान १९
संदुःखितो भवान् ॥५॥ देहत्यागं महाबुद्धे मा कुरुष्व विशेषतः । गणेशं भज भावेन संकष्टीव्रतसंयुक्तम् ॥६॥
मिथ्याऽपवादशून्यस्त्वं भविष्यसि न चान्यथा । सज्ञानश्च समर्थेखास्तस्मात् तं शरणं व्रज ॥७॥ एवमुक्त्वा महायोगी
नारदः प्रययौ ततः । गणेशगानसंयुक्तो वीणावादनलालसः ॥८॥ ततः कृष्णः प्रहर्षेण युक्तो विघ्नेशमादरात् ।
अभजद् ध्यानमार्गज्ञो ध्यानेनोग्रेण भूमिप ॥९॥ एकाक्षरेण मंत्रेणापूजयन्नित्यमेव तम् । व्रतं चकार स ततः
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंपान २७
सर्वेषां हृदि संस्थोऽयं गणेशो बुद्धिनायकः । तस्यैव कृपया राजन् भवेत् किं किं सुदुर्लभम् ॥३१॥ अतो भाद्रचतुर्थ्यां वै न
द्रष्टव्यः कदाचन । चन्द्रः कदाचित् दृष्टश्चेदिदं श्रोतव्यमादरात् ॥३२॥ तेन दोषविहीनश्च जायते नात्र संशयः । अन्यथा
भ्रष्टभावेन नारकी स नरो भवेत् ॥३३॥ स्यमंतकमणेश्चित्रं चरितं कथितं परम् । चन्द्रदर्शनजं दोषं हरति श्रवणेन च ॥३४॥
॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंखं ४ अ. ७ पान २१
नित्यं स्वधर्मयुक्तेन मया संपालिता मही । देवव्रतातिथिप्राज्ञप्रीत्यर्थं योगिसत्तम ॥१८॥ वर्णाश्रमाचारयुता जनाः सर्वे
भवंति च । तथापि पापजं दुःखं संप्राप्तं तन्न वेद्यहम् ॥१९॥ अनावृष्टिश्च संभूता प्रभो सर्वत्र दुःखदा । चराचरं
भयोद्विग्नं बभूव रसहीनतः ॥२०॥ तदर्थं त्वां महायोगिन्नागतोऽहं विशेषतः । त्वद्दर्शनजपुण्येन सफलो मे भवोऽभवत्
॥२१॥ अधुना ब्रूहि पापस्य स्वरूपं तन्निहन्म्यहम् । येन वृष्टिर्भवेत् पूर्णा तथा कुरुष्व मानद ॥२२॥
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंखं. ४ अ. ७ | पान २२
मया ॥४२॥ तपस्त्यक्त्वा पुरा तात योगमार्गपरायणः । न शांतिं प्रलभे तत्र योगभूमिं प्रसाधयन् ॥४३॥ ततोऽहं पितरं
गत्वा ब्रह्माणं सर्ववेदिनम् । वंद्यं तं योगशांत्यर्थमपृच्छं विनयान्वितः ॥४४॥ स्वामिन् शांतिप्रदं ब्रह्म कीदृशं वद मे प्रभो ।
केन योगेन लभ्यं तत् प्रभवेत् कृपयान्वितः ॥४५॥ ब्रह्मोवाच । योगशांतिप्रदं ब्रह्म गाणेशं विद्धि पुत्रक । मनोवाणीमयं सर्वं
त्यज योगस्य सेवया ॥४६॥ मनोवाणीविहीनं यदेव तत्तादृशं मतम् । गणेशोऽहं न
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंखं. ४ अ. ७ पान २३
अंते स्वानंदगो भूत्वा ब्रह्मभूतो बभूव ह ॥६८॥ क्रमेण भूमिसंस्था येऽभवन् स्वानंदगा जनाः । चतुर्थी पुण्ययोगेन यथा
योगपरायणाः ॥६९॥ स्पर्शेन भरतस्यैव जनाः कीटादिका नृप । पुण्यररूपा बभूवुस्तेऽथॉते स्वानंदगामिनः ॥७०॥ एतादृशेन
भूपेन पुण्यशालिजनाः कृताः । यज्ञैः सर्वा धरा येन चित्रिता पुण्यकारिणा ॥७१॥ भरतेन समो राजन् न कश्चित् प्रबभूव
ह । ज्ञानेन स्वबलेनाऽपि यशसा धर्मशालिना ॥७२॥ भाद्रशुक्लचतुर्थ्यास्तु महिमा कथितो मया ।
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंखं. ४ अ. ८ पान २४
मतम् । यथाविधि कृतं येन तत्र चित्रं किमप्यहो ॥९४॥ चतुर्थ्या महिमाऽयं कथितुं न प्रशक्यते । पुरुषार्थाश्च चत्वारः
प्राप्यंते व्रतमात्रतः ॥९५॥ मुद्गल उवाच । वसिष्ठवचनं श्रुत्वा दशरथस्तमब्रवीत् । शृणु दक्ष महाभाग तां कथां पावनीं
प्रभो ॥९६॥ दशरथ उवाच । चांडालो गणनांथस्य पुपूज स न मृन्मयीम् । मूर्तिं दोषी कथं स्वामिन्
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें[हेडर]
खं. ४ अ. ८ पान २५
स नृपंसमुखः ॥१३॥ ततः सौभरिणा सोऽपि सत्कृतो वचनेन च । निषसादासने तत्र मुनिना दर्शिते नृपः ॥१४॥
तमुवाच महाभागं राजानं मुनिसत्तमः । कोऽसि त्वं वन उग्र मेऽत्र किमर्थ समागतः ॥१५॥ इति पृष्टो महीपालस्तमुवाच
सुहर्षितः । कीर्तिमान् सर्वधर्मज्ञः कृत्वा करपुटं वचः ॥१६॥ कीर्तिमानुवाच । द्राविडे वसतिर्मेऽस्ति नगरे सुरसत्तमे । राज्यं
करोमि तत्राऽहं सार्वभौमो महामुने ॥१७॥ अपुत्रो दैवयोगेन जातोऽहं मुनिसत्तम । पुत्रार्थे
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंपान २६
कीदृशोऽयं गणाधीशो व्रतं यस्य चतुःपदम् । ब्रह्मभूयकरं प्रोक्तं भजिष्यामि विशेषतः ॥३९॥ ततस्तं मुनिशार्दूलः सौभरिः
पुनरब्रवीत् । माहात्म्यं गणनाधस्य शांतियोगपदप्रदम् ॥४०॥ सौभरिरुवाच । पुराऽहं तपसा युक्तो नानाछंदपरायणः । अभवं
तत्र देवा वै भयभीता बभूविरे ॥४१॥ अहो तपःप्रभावेण जित्वा सर्वं द्विजोत्तमः । किमिच्छति पदं श्रेष्ठं ज्ञायतेऽस्मा-
भिरेव न ॥४२॥ प्रेषयामास सस्त्रीकं ततः कामं सुराधिपः । तपोभंगार्थमेवं मे कामस्तत्र समागतः ॥४३॥
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें॥६३॥ घोषेण घोषयामास ततः सर्वे तथाऽभवन् । व्रतं ततो वै बभूव प्रशस्तं भूमिखंडले ॥६४॥ एवं भूमंडले राज्यं
कृत्वा पुत्रे निवेद्य सः । वने गत्वा गणेशानं सस्त्रीको नृप आभजन् ॥६५॥ अंते स्वानंदगो भूत्वा ब्रह्मभूतो बभूव ह ।
तस्य राज्ये स्थिता लोकाः सर्वे स्वानंदगा बभुः ॥६६॥ एवमन्यं दशरथ शृणुष्व त्वं व्रतोद्भवम् । इतिहासं प्रवक्ष्यामि
चाश्विन्यां परमाद्भुतम् ॥६७॥ भीमो नाम महाव्याधः पापकर्मपरायणः ।
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें