मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 577, कुल 1023 में से
संदर्भ में पढ़ेंयहाँ दिए गए पृष्ठ का पंक्ति-दर-पंक्ति लिप्यन्तरण (Transliteration), श्लोक, अन्वय, हिन्दी अनुवाद एवं कथा-प्रसंग प्रस्तुत है:
मूल पाठ (पंक्ति-दर-पंक्ति लिप्यन्तरण)
ख. ५ अ. २३ पान ४८
वीक्ष्य तुतोष ह । अथर्वशिरसा देवी तुष्टवापूज्य साश्रुका ॥१२॥ तुष्टस्तां गणराजश्च जगाद वृणु वाञ्छितम् । दास्यामि
भक्तियुक्तायै पुत्रोऽहं पालयस्व माम् ॥१३॥ शक्तिरुवाच । अनेन वपुषा नाथ स्थिरो भव गजानन । भक्तिं देहि दृढां वत्स
तव पादाम्बुजे पराम् ॥१४॥ योगिनां ध्यानजं ब्रह्म पुत्रो वेदे प्रकीर्तितः । तत्र किं चित्रमेवेदं विनायक कृतं त्वया ॥१५॥
श्रुत्वा तां गणराजस्तु जगाद वचनं हितम् । मन्मूर्तिस्थापनं कृत्वा पूजयस्व निरंतरम् ॥१६॥ पुत्रवत्सलतां तत्र
कुलदेवत्वमादरात् । ब्रह्मभावं तथा देवि कुरु त्वं सर्वदा मयि ॥१७॥ तत्र पूजोपचाराद्यैः पूजयस्व निरंतरम् । तया
त्वं कृतकृत्या च भक्तियुक्ता भविष्यसि ॥१८॥ एवमुक्त्वाऽन्तर्दधेऽसौ लंबोदरः प्रजापते । शक्तिस्तथैव कृत्वा तं भजते
ब्रह्मनायकम् ॥१९॥ एवं नानाऽवताराश्च लंबोदरस्य मानद । भक्तानां सर्वसिद्ध्यर्थं भजतां परमाद्भुताः ॥२०॥ रक्त-
दंतादिभिश्चैव देवीभिस्तपसा प्रभुः । आराधितो वधार्थाय दैत्यानां गणनायकः ॥२१॥ देवीभिः संस्तुतो देवः प्रसन्नो
वरदोऽभवत् । वरस्यैव प्रभावेण हता दैत्या अनेकशः ॥२२॥ योगनिष्ठा महादेव्योऽभजंस्तं विघ्ननाशनम् । कुलदैवत-
भावेन शांत्यर्थं च प्रजापते ॥२३॥ ते सर्वे गणराजा वै स्मृता लंबोदरात्मकाः । ज्ञातव्याः सर्वभावेन ब्रह्मभूतपदप्रदाः ॥२४॥
इदं लंबोदरस्यैवावतारस्य कथामृतम् । शृणोति पठते वापि स सर्वफलभाग् भवेत् ॥२५॥
॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पंचमे खण्डे लंबोदरचरिते शक्तिपुत्रचरितं नाम द्वाविंशोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । अथो शृणु महाभाग गाणपत्यस्वरूपकम् । येन त्वं गाणपत्ये वै पदे सुनिपुणो
भवेः ॥१॥ नरो गणेशभक्तिं यो भवेत् कर्तुं समुद्यतः । गणेशप्रीतिकामार्थं दीक्षायुक्तो भवेदयम् ॥२॥ गाणपत्यं
सुशांतस्थं गुरुं वेदार्थपारगम् । नत्वा तं संवदेत् पूर्वं दीक्षां देहि
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें