मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
by महर्षि मुद्गल
Source: निर्णय सागर प्रेस · निर्णय सागर प्रेस (origin)
DevanagariSanskritpublished1,023 pages
Page 551 of 1023
Read in contextPage 551
खं ५ अ. ११
पान २२
॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । नैध्रुवो योगमार्गेण शमदमपरायणः । शांतिं प्राप्तः क्रमेणैव योगिवंद्यो बभूव ह ॥१॥
ततः सोऽपि गणाधीशं न सुमोच तताप सः । तपः सेवापरो भूत्वा गाणपत्यप्रियार्थतः ॥२॥ एवं तस्य तपो ज्ञात्वा तं
ययौ स गजाननः । तं दृष्ट्वा सहसोत्थाय प्रणनाम कृतांजलिः ॥३॥ पुपूज भक्तिसंयुक्तः साश्रुनेत्रो महायशाः । सरोमांचः
प्रतुष्टाव सूक्तैर्गाणेशकैः प्रभुम् ॥४॥ ततस्तुष्टो गणाधीशस्तस्मै भक्तिं ददौ दृढाम् ।
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in