मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
by महर्षि जैमिनि / शाबर स्वामी
Source: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (origin)
Page 164 of 804
Read in context११२ मीमांसादर्शनम् [ सू०
लिए हाथ में हिरण्य का धारण कर्तव्य है । मन की स्तेन स्वरूपता एवं अनृतभाषण में
प्रायिकता रूप सादृश्य के अनुसार गौणभाव से मन को स्तेन एवं वाणी को अनृत-
वादिनी कहा है, किन्तु, मन का स्तेनत्व या वाक्य की अनृतवादिता विवक्षित नहीं है ।
जैसे ऋषि से क्या काम है, यदु ही इसका विधान करेगा इस प्रकार के वाक्य में ऋषि
की अपटुता प्रकटित नहीं होती है किन्तु यदु का ही सामर्थ्याधिक्य विवक्षित होता है—
इस स्थल में भी इसो प्रकार है । "रूपात्" = समान रूप होने से "प्रायात्" प्रायिकता
रूप से । गुणवाद के अनुसार मन को स्तेन एवं वाणी को अनृतवादिनी कहा है ।
ऋग्वेदभाष्यभूमिका में भी कहा है—ऋषि की क्या आवश्यकता है, देवदत्त की
ही पूजा करे । इसमें देवदत्त की पूजा को स्तुति के लिए ही ऋषि के प्रति औदासीन्य
का प्रदर्शन है, ऋषि के पूज्यत्व का निषेध नहीं है ॥ ११ ॥
दूरभूयस्त्वात् ॥ १.२.१२ ॥
शा० भा०—दृष्टविरोध उदाहरणं तस्माद्धूम एवाग्नेर्दिवा ददृशे नार्चिः ।
तस्मादर्चिरेवाग्नेर्नक्तं ददृशे, न धूम इति अग्निर्ज्योतिर्ज्योतिरग्निः स्वाहेति सायं
जुहोति; सूर्यो ज्योतिर्ज्योतिः सूर्यः स्वाहेति प्रातरिति मिश्रलिङ्गमन्त्रयोर्विधा-
नस्याऽऽकाङ्क्षितत्वाच्छेषः । उभयोर्देवतयोः संविधाने होम इति स्तुतेरुपपत्तिः ।
दूरभूयस्त्वाद् धूमस्याग्नेश्चादर्शने गौणः शब्दः ॥ १२ ॥
भा० वि०—उक्तगुणवादनिमित्तस्योदाहरणान्तरेऽव्याप्तिमाशङ्क्य परिहरति—
दूरेति । उदाहरणान्तरमेवाह—दृष्टेति । अस्मिन्नुदाहरणे निमित्तान्तरं वक्तुं
विधिशेषत्वं तावद्धूमार्थवादस्य दर्शयति—अग्निरिति । प्रातर्जुहोतीति प्रक्रमे
सत्यपीति शेषः, अस्य मिश्रालिङ्गमन्त्रविधेश्शेषमिदमुदाहरणमिति सम्बन्धः ।
इदमिहाकूतम्, यदग्नये च प्रजापतये च सायं जुहोति, यत्सूर्याय प्रजापतये
च प्रातर्जुहोतीत्यग्निसूर्ययोः केवलयोर्देवतात्वेन विहितत्वादेव केवलदैवत्य-
मन्त्रयोः लिङ्गतोऽपि प्राप्तिसंभवात् मिश्रलिङ्गमन्त्रविधिपर्युदस्तप्रतिप्रसवन-
मात्रार्थत्वेन च केवलदैवत्यमन्त्रविधानस्य स्तुत्यनपेक्षत्वान्मिश्रलिङ्गमन्त्रविधान-
स्याग्निज्योतिर्ज्योतिस्सूर्यः स्वाहेति सायं होतव्यम्, सूर्यो ज्योतिर्ज्योतिरग्निः
स्वाहेति प्रातरित्यस्यापूर्वत्वेन स्तुत्याकाङ्क्षत्वादस्य विधेश्शेषः । शेषत्वं च
तस्माद्धूम एवेत्यादेर्दिवाग्निरादित्यं गच्छतीत्यादिमिश्रताप्रतिपादनस्योपपत्ति-
त्वेनेति विधिशेषत्वमुक्त्वा गुणवादेन स्तुतित्वमाह—उभयोरिति । द्वयोरपि
सन्ध्ययोर्मिश्रदेवतासन्निधानाद्यथार्थाभ्यामेव मन्त्राभ्यां होम इति स्तुतेरपि
सम्भव इत्यर्थः ।
ननु तथापि धूम एवेत्याद्यवधारणा निरालम्बनेत्याशङ्क्य सूत्रं योजयति—
दूरेति । धूमस्य दूरभूयस्त्वादग्नेरदर्शने गौणः शब्दः अग्नेर्दूरभूयस्त्वादूमस्यादर्शने