सामग्री पर जाएँ
सर्वकोश
कौषीतकि ब्राह्मण (शाङ्खायन ब्राह्मण - उदय प्रणीत व्याख्या सहित सटीक)

कौषीतकि ब्राह्मण (शाङ्खायन ब्राह्मण - उदय प्रणीत व्याख्या सहित सटीक)

Kaushitaki Shankhayana Brahmana with Udaya Commentary

महर्षि कौषीतकि (टीकाकार: उदयसूरि) द्वारा

DevanagariSanskritpublished119 पृष्ठ

पृष्ठ 73, कुल 119 में से

संदर्भ में पढ़ें
पृष्ठ 73

[पृष्ठम् १२८]

XXV, 12, १२–13, २७ | कौषीतकिब्राह्मणे | 128

⁶-चेद् म्रियेत⁷-⁸ ।१२। सर्वास्वेव⁷ न्यूङ्खयेत् ।१३। अन्नं वै न्यूङ्खः ।१४। अन्नं प्राणः⁹ ।१५।
प्राणाः शिल्पानि ।१६। प्राण⁹ एव तत् प्राणान्¹⁰ दधाति ।१७। अथो विश्वजिता वै
प्रजापतिः सर्वाः प्रजा असृजयत् सर्वमृद्धयत्¹¹ ।१८। एतद् वा एष जायते विश्वजिता
यो यजते ।१९। तस्माद्यूङ्खयति ।२०। न्यूङ्खमानक इव वै प्रथमं चिचर्षंश्चरति¹² ।२१।
तदेनममृताच्छन्दसोऽमृतत्वाय प्रजनयन्ति¹³ ।२२। तेऽमृतत्वमाप्नुवन्ति ये विश्वजितमुप-
यन्ति¹⁴ ।२३। सोऽग्निष्टोमः¹⁵ संतिष्ठते ।२४ ॥१२॥


¹ L. P. add तस्मात् सर्वपृष्ठानि (P. सर्वाणि पृष्ठानि) क्रियन्ते सर्वाणि शिल्पानि सर्वं वै
प्रजापतिर्विश्वजित् ² L. P. Here ends Khaṇḍa 12 ³ L. P. ॰मन्तर्यामिति; L. wrongly
reports that IO. reads ॰मन्तर्यामेति ⁴ L. P. तदेनं ⁵-⁵ L. P. तिसृष्वेवस्य न्यूह्वयेत्
⁶-⁶ L. (var.) चेद्रियेत, चेंद्रियेत (P.) ⁷ P. सर्वाश्चैव ⁸ P. प्राणाः ⁹ L. P. प्राणेषु
¹⁰ L. P. प्राणं ¹¹ L. P. add तस्माद् विश्वजित् ¹² L. चिचरिषुश्च॰; P. चिचरिषश्च॰;
BM¹. BM³. चिचर्षींश्च॰ ¹³ L. P. ॰नयति ¹⁴ L. P. Here ends Khaṇḍa 13 ¹⁵ L. P.
स सर्वस्तोमः सर्वपृष्ठोऽग्निष्टोमः


यः सत्रियः¹ सांवत्सरिको विश्वजित् ।१। प्रतिष्ठा वा अग्निष्टोमः प्रतिष्ठित्यै एव ।२।
एकाह उ चेद् विश्वजिद् रात्रिसत्रस्य वा विषुवानतिरात्र एव स्यात् ।३। स कृत्स्नो विश्व-
जिद् योऽतिरात्रः ।४। अर्धं वै विश्वजितोऽह्ना क्रियते ।५। अर्धं राज्या ।६। सर्वपराजिदु
हैव स योऽन्यत्र सर्ववेदसाद् वा सत्राद् वा क्रियते ।७। सर्वज्यानिर्हैव सा ।८। योऽन्यत्र
विश्वजितः सर्वं ददाति ।९। विश्वजिच्चेत् सर्वमेव ।१०। सर्वमु चेद् विश्वजिदेव ।११।
यो ह वै न सर्वं ददाति सर्वं ददामीति² ब्रुवन् ।१२। कर्तनपत्यमेव³ तज्जीयते⁴ प्र वा मीयते
इति ह स्माह ।१३। सहस्रं वैनमवरुन्ध इति ह स्माह कौषीतकिः ।१४। सर्वं वै तद्
यत् सहस्रम् ।१५। सर्वं विश्वजित् ।१६। तत्⁵ सर्वेण ⁶-सर्वमाप्नोति य एवं वेद-⁶ ।१७।
वत्सच्छवीनं⁷ परिदधीत ।१८। रिचिचान इव वा एतस्यात्मा भवति यः सर्वं ददाति
।१९। वत्सं वै पशवो वाञ्छन्ति ।२०। पुनर्मा पशवो वाञ्छन्त्विति⁸ ।२१। उदुम्बरे वसेत्
।२२। ऊर्जा अन्नाद्यमुदुम्बरः ।२३। ऊर्जाऽन्नाद्यस्योपाप्त्यै ।२४। नैषादे वसेत् ।२५। एतद्
वा अवराध्य॑मन्नाद्यं यन्निषादः ।२६। अवराध्यस्यान्नाद्यस्योपाप्त्यै ।२७ ॥१३॥


¹ L. P. सात्रिकः ² L. P. ददानीति ³ L. P. गर्तं॰ ⁴ L. P. तद्दीयते ⁵ L. omits
⁶-⁶ L. P. सर्वमाप्नुवानीति; here ends Khaṇḍa 14 ⁷ L. P. वत्सच्छवीं ⁸ L. P.
वाञ्छदानिति; L. (var.) as here


[पृष्ठम् १२९]

129 | विश्वजित् | XXV, 14, १–२२

वैश्ये वसेत् ।१। वैश्यो वै पुष्यतीव ।२। यद् वैश्येऽन्नाद्यं तस्योपाप्त्यै ।३। क्षत्रिये वसेत्
।४। एतद् वै परार्ध्यमन्नाद्यं यत् क्षत्रियः ।५। परार्ध्यस्यान्नाद्यस्योपाप्त्यै ।६। ब्राह्मणे
समानगोत्रे वसेत् ।७। यत् समाने¹ गोत्रेऽन्नाद्यं तस्योपाप्त्यै ।८। संवत्सरं चरेदधःसंवेश्य-
फालकृष्टाह्यप्रतिगृह्णन्नान्नं याचन्निदं तत्तदनुवसानः ।९। तत्तेनानुवस्ते ।१०। द्वादशरात्रं
चरित्वाथन्त्यस्यै बुभूषायै स्यादिति ह स्माह कौषीतकिः ।११। द्वादश वै मासाः संवत्सरः
।१२। सा संवत्सरस्य प्रतिमेति ।१३। प्राजापत्यान्यनिरुक्तानि होत्राणामाज्यानि भवन्ति
।१४। तस्य ता नः शक्तं पार्थिवस्य युञ्जन्ति ब्रघ्नमरुषं ता हि शश्वन्त ईळते तमीळिष्व
यो अर्चिषेति वा स्तोत्रियाः ।१५। ये षष्ठस्याह्नः स्तोत्रियास्ते विश्वजितोऽनुरूपाः ।१६।
प्राजापत्यं वै षष्ठमहः ।१७। प्रजापतिर्विश्वजित् ।१८। इतरे पञ्च तदुक्थम् ।१९। पर्यासैः
परिदधति ।२०। प्रतिष्ठा वै पर्यासः ।२१। प्रतिष्ठित्या एव प्रतिष्ठित्या एव² ।२२ ॥१४॥


¹ BM¹. BM². समान ² L. P. Here ends Khaṇḍa 15


इति तृतीयदशके पञ्चमोऽध्यायः
10