कौषीतकि ब्राह्मण (शाङ्खायन ब्राह्मण - उदय प्रणीत व्याख्या सहित सटीक)
Kaushitaki Shankhayana Brahmana with Udaya Commentary
महर्षि कौषीतकि (टीकाकार: उदयसूरि) द्वारा
पृष्ठ 72, कुल 119 में से
संदर्भ में पढ़ेंLeft Page (p. 126)
वाकः ।८। न तमसं¹ एतं² यथायथमेव तमुपाकुर्युः³ ।९। तत् तस्य समृद्धम् ।१०। तथा
यथायथमुपांश्वन्तर्यामौ हूयेते ।११। तदु तयोः समृद्धमिति ।१२। वासिष्ठमाप्रीसूक्तं सं
रश्मिभिस्ततनः सूर्यस्येति सूर्यवत् ।१३। तदेतस्याह्नो रूपम् ।१४। शुक्लं⁴ एतस्याह्नः
पिङ्गाक्षो होता स्यादिति हैक आहुः ।१५। अमुं वा एतेनाह्नेप्सन्ति योऽसौ तपति ।१६।
तद् यथा श्रेयांसमाहरन्नुपयादेवं तत् ।१७। यथोपपादमिति त्वेव स्थितम् ।१८। शस्त्रे-
णैवैतस्याह्नो रूपं संपादयेयुः⁷ ।१९। सौर्यः पशुरुपालम्भ्यः सवनीयस्य ।२०। स उपांशु
भवति ।२१। स यस्तं निर्ब्रूयात् ।२२। यस्तं तत्र ब्रूयात् ।२३। दुश्चर्मा किलासी⁸ भविष्य-
तीति⁹ तथा ह स्यात् ।२४। ते वा एते चत्वार एव पशव उपांशु भवन्ति ।२५। सौर्यः
सावित्रः प्राजापत्यो वाग्देवत्य इति ।२६। अथान्ये निरूक्ताः ।२७। अथ त्रीन्त्स्वर-
साम्न आवृत्तानुपयन्ति तेषामुक्तं ब्राह्मणम्¹⁰ ।२८ ॥९॥
¹ L. P. शमीष्येयुः ²⁻² L. P. तदहह्र्षीता ³ P. तमसा ⁴ L. एव तद्; P. एतद्
⁵ L. P. ॰पाकुर्यात्; L. (var.) ॰पकुर्युः (wrongly attributes to IO.) ⁶ L. P. शुक्लं
⁷ L. P. उपेप्सेत्; L. wrongly reports that IO. reads संपादयियेयुः ⁸ L. किलासीति;
(var.) P. किलासीद्; ⁹ L. तद्भविष्यतीति; L. (var.), C. भविष्यसीति; ¹⁰ L. P. Here
ends Khaṇḍa 10
त्रयोदशमधिचरं¹ मासमाप्नुवन्ति यद् विश्वजितमुपयन्ति ।१। एतावान् वै संवत्सरो
यदेष त्रयोदशो मासः ।२। तदत्रैव सर्वः संवत्सर आप्तो भवति ।३। तमाहुरेकाहः षळह
इति ।४। यद्यन्वहं² षळहे क्रियते ।५। एकाहे तद् विश्वजिति क्रियते ।६। तद् वा इदं
बहुविश्वरूपं विश्वजिति क्रियते ।७। यत् सर्वाणि पृष्ठानि सर्वे स्तोमा उच्चावचाः
समवधीयन्ते ।८। वैराजमेवास्य प्रत्यक्षं पृष्ठं भवति ।९। माध्यंदिने पवमाने रथन्तरम्
।१०। बृहत् तृतीये³ पवमाने क्रियते ।११। शाकरं मैत्रावरुणस्य ।१२। वैरूपं ब्राह्म-
णाच्छंसिनः ।१३। रैवतमच्छावाकस्य ।१४। त एतं त्रयोदशमधिचरं मासमाप्नुवन्ति ।१५।
एतद्धि त्रयोदशम् ।१६। पृष्ठान्यनुपयन्ति⁴ ।१७। तस्याग्निं नरो दीधितिभिररण्योरिति
वैराजमाज्यम् ।१८। वैराजं पृष्ठं⁵ तस्योक्तं ब्राह्मणम् ।१९। वासिष्ठमाज्यम् ।२०।
वासिष्ठं पृष्ठं तस्योक्तं ब्राह्मणम्⁶ ।२१। माधुच्छन्दसः प्रउगस्तस्योक्तं ब्राह्मणम्⁷ ।२२।
कया शुभा सवयसः सनीळा इति मरुत्वतीयम् ।२३। कद्वत् कयाशुभीयम् ।२४।
को वै प्रजापतिर्विश्वजित् ।२५। यावेवामू वैराजस्य स्तोत्रियानुरूपौ तौ स्तोत्रिया-
Right Page (p. 127)
नुरूपौ ।२६। तयोस्तथैव न्यूङ्खयति यथाद्यश्वतुर्थेऽहन् ।२७। न हि वैराजं तत् स्थानम-
न्यूङ्खनाय⁷ ।२८ ॥१०॥
¹ L. P. त्रयोदशं वा एतं; L. (var.) as here ² C. यद्यच्च ³ L. तृतीय ⁴ L. पृष्ठान्य्॰
⁵⁻⁵ L. P. omit ⁶ L. P. add आ त्वा रथं यथोतय इति मरुत्वतीयस्य प्रतिपदिदं वसो
सुतमन्ध इत्यनुचर एष एव नित्य एकाहातानस्तस्योक्तं ब्राह्मणं ⁷ L. P. add एषा धाय्येषोहेन्द्रः
(P. repeats एषा धाय्या) प्रगाथोऽथ बृहद्रथन्तरयोर्योनिं शंसति
तदिदास भुवनेषु ज्येष्ठमिति निष्केवल्यम् ।१। यज्ञो वै भुवनेषु ज्येष्ठः ।२। यज्ञ उ वै
प्रजापतिर्विश्वजित् ।३। अथ यत्¹ षष्ठस्याह्णस्तृतीयसवनं तत् तृतीयसवनम् ।४। प्राजा-
पत्यं वै षष्ठमहः ।५। प्रजापतिर्विश्वजित् ।६। एकाऽहिकी प्रतिपद् ।७। एकाहो वै विश्व-
जित् ।८। प्रतिष्ठा वा एकाहः प्रतिष्ठित्यै एव² ।९। तदाहुरथ कस्माद् विश्वजिति
सर्वपृष्ठ एकाहे तृतीयसवने शिल्पानि शस्यन्ते कस्मादग्निष्टोमे मध्यंदिन³ इति ।१०। ये
वा इमेऽवाञ्चः प्राणास्तानि शिल्पानि⁴ ।११। पुरुषो वै यज्ञः ।१२। तस्य य ऊर्ध्वा
प्राणास्तत् प्रातःसवनम् ।१३। आत्मा मध्यंदिनः ।१४। येऽवाञ्चस्तत् तृतीयसवनं
तानि शिल्पानि ।१५। तस्मात् तृतीयसवने शिल्पानि शस्यन्ते⁵ ।१६। एतद्ध्येषामाय-
तनम् ।१७। अथ यदग्निष्टोमे⁶ सत्रिये⁷ सांवत्सरिके विश्वजिति सर्वपृष्ठे⁸ मध्यंदिने⁹
शिल्पानि शस्यन्ते ।१८। आत्मा वै पृष्ठानि¹⁰ ।१९। प्राणाः शिल्पानि ।२०। न वा
अन्तरेणात्मानं प्राणाः स्थायन्ते ।२१। न प्राणानन्तरेणात्मा ।२२। नो एतन्नाना ।२३।
तस्मादग्निष्टोम एवापि¹¹ मध्यंदिने शिल्पानि शस्यन्ते ।२४। नेत् प्राणेभ्य आत्मानमपा-
दधानीति ।२५ ॥११॥
¹ L. P. यदि ² L. P. add अभि वाननुचरस्तस्योक्तं ब्राह्मणम् ॥११॥ ³ L. P. माध्यंदिन
⁴ ER. पृष्ठानि ⁵ L. P. क्रियन्ते ⁶ L. P. कस्मादग्नि॰ ⁷ L. P. सात्रिके ⁸ L. P. omit
⁹ L. P. माध्यंदिने ¹⁰ P. पृष्ठानि ¹¹ L. P. add विश्वजिति
अथो प्रजापतिर्वै विश्वजित् ।१। सर्वं वै प्रजापतिर्विश्वजित्¹ ।२। तत् सर्वेण सर्वमा-
प्नोति य एवं वेद² ।३। तत्राग्निमारुते रौद्रीं शस्त्वा होतैवैवाममृतं पङ्क्त्यूशंसं शंसति ।४।
पाङ्क्तो वै यज्ञो यज्ञस्यैवाप्त्यै ।५। नेदच्छ्वावाकस्य शिल्पमन्तरयामेति³ ।६। अथो रुद्रो
वै ज्येष्ठश्च श्रेष्ठश्च देवानाम् ।७। अतिच्छन्दाश्छन्दसाम् ।८। विश्वजिदेकाहानाम् ।९।
तदेनत्⁴ स्वेन छन्दसा समर्धयति ।१०। ⁵तस्य तिसृषु न्यूङ्खयति⁵ ।११। न्यूङ्खयितुं