सामग्री पर जाएँ
सर्वकोश
कौषीतकि ब्राह्मण (शाङ्खायन ब्राह्मण - उदय प्रणीत व्याख्या सहित सटीक)

कौषीतकि ब्राह्मण (शाङ्खायन ब्राह्मण - उदय प्रणीत व्याख्या सहित सटीक)

Kaushitaki Shankhayana Brahmana with Udaya Commentary

महर्षि कौषीतकि (टीकाकार: उदयसूरि) द्वारा

DevanagariSanskritpublished119 पृष्ठ

पृष्ठ 18, कुल 119 में से

संदर्भ में पढ़ें
पृष्ठ 18

[पृष्ठम् १८]

IV, 9, १-10, १३ कौषीतकिब्राह्मणे इष्टयः 18

अथ वसन्त आगते पकेषु वेणुयवेषु । १। वेणुयवानुद्धर्तवं^1 आह । २। तस्या एतदेव पर्ववत्
तन्त्रमेषा देवतैषा दक्षिणैतद् ब्राह्मणम् । ३। तां हैक आग्नेयीं वा वारुणीं वा प्राजापत्यां
वा कुर्वन्त्येतत्तन्नामवैतद्ब्राह्मणम्^2 । ४। अथ व्रीहिसस्ये वा यवसस्ये वागते । ५। आग्रय-
णीयानुद्धर्तवं^1 आह । ६। तस्या एतदेव पर्ववत् तन्त्रम् । ७। अथ यदैन्द्राग्नो द्वादशकपालः
। ८। इन्द्राग्नी वै देवानां मुखम् । ९। मुखत एव तद् देवान् प्रीणाति । १०। अथ यद् वैश्वदे-
वश्चरुः । ११। एते वै सर्वे देवा यद् विश्वेदेवाः । १२। सर्वेषामेव देवानां प्रीत्यै । १३। अथ
यद् द्यावापृथिवीय एककपालः । १४। द्यावापृथिवी वै सस्यस्य साधयित्र्यौ । १५। प्रतिष्ठा-
पृथिव्योद्यनासावनुवेद^3 । १६। तद् यदेता देवता यजति । १७। एताभिर्देवताभिः शान्त-
मन्नमत्स्यामीति । १८ ॥ ९॥

^1 L. P. °नुद्धर्तवां ^2 L. P. Here ends Khaṇḍa 13 ^3 L. P. °सामनु°; L. (var.) °सावनु°

अथ यत् प्रथमजं गां ददाति । १। प्रथमकर्म ह्येतत् । २। यद्येतस्यै ग्लायात् । ३। पौर्णमासं
वामावास्यं वा हविष्कुर्वीत नवानामुभयस्यात्यै । ४। अपि वा पौर्णमासे वामावास्ये वा
हवींष्यनुवर्तयेद् देवतानामपरिहाणाय । ५। अपि वा यवाग्वैव सायंप्रातरग्निहोत्रं जुहुयान्न-
वानामुभयस्यात्यै । ६। अपि वा स्थालीपाकमेव गार्हपत्ये श्रपयित्वा नवानामेताभ्य आग्र-
यणदेवताभ्य आहवनीये जुहुयात् स्विष्टकृच्चतुर्थीभ्योऽमुष्यै^1 स्वाहामुष्यै स्वाहेति देवता-
नामपरिहाणाय । ७। अपि वाग्निहोत्रीमेव नवानादापयित्वा तस्यै दुग्धेन सायंप्रातरग्निहोत्रं
जुहुयादुभयस्यात्यै । ८। एत एतावन्तः पाताः । ९। तेषां येन कामयेत तेन यजेत । १०।
त्रिहविस्तु स्थिता । ११। त्रयो वा इमे लोकाः । १२। इमानेव तल्लोकानाप्नोतीमानेव
तल्लोकानाप्नोति^2 । १३ ॥ १०॥

^1 L. (var.) °कृत्तचतु° ^2 L. P. Here ends Khaṇḍa 14

इति प्रथमदशके चतुर्थोऽध्यायः


[पृष्ठम् १९]

19 कौषीतकिब्राह्मणे चातुर्मास्यानि V, 1, १-3, २

अथातश्चातुर्मास्यानाम् । १। चातुर्मास्यानि प्रयुञ्जानः फाल्गुन्यां पौर्णमास्यां प्रयुङ्क्ते । २।
मुखं वा एतत् संवत्सरस्य यत् फाल्गुनी पौर्णमासी । ३। मुखमुत्तरे फल्गू । ४। पुच्छं पूर्वे । ५।
तद् यथा प्रवृत्तस्यान्तौ समेतौ स्याताम् । ६। एवमेवैतौ संवत्सरस्यान्तौ समेतौ । ७। तद्
यत् फाल्गुन्यां पौर्णमास्यां वैश्वदेवेन यजते । ८। मुखत एव तत् संवत्सरं प्रीणाति । ९।
अथो भेषज्ययज्ञा वा एते यच्चातुर्मास्यानि । १०। तस्मादृतुसंधिषु प्रयुज्यन्ते । ११।
ऋतुसंधिषु हि व्याधिर्जायते । १२। तानि वा अष्टौ हवींषि भवन्ति । १३। अष्टौ वै
चतसृणां पौर्णमासीनां हवींषि भवन्ति । १४। चतसृणां वै पौर्णमासीनां वैश्वदेवं समासः
। १५। अथ यदग्निर्मन्ध्यते । १६। प्रजातिर्वै वैश्वदेवम् । १७। तस्मादेतं देवं गर्भं प्रजनयन्ति^1
। १८। अथ यत् सप्तदश सामिधेन्यः सद्वन्तावाज्यभागौ विराजौ संयाज्ये तस्योक्तं
ब्राह्मणम् । १९। अथ यन्नव प्रयाजा नवानुयाजा अष्टौ हवींषि वाजिनं नवमम् । २०।
तन्नक्षत्रियां विराजमाप्नोति । २१ ॥ १॥

^1 L. P. IO. प्रजनयति

अथ यदग्नीषोमौ प्रथमौ देवतानां यजति । १। दर्शपूर्णमासिके वा एते देवते । २।
तस्मादेनौ प्रथमौ यजति । ३। अथ यत् सवितारं यजति । ४। सविता वै^1 प्रसवानामीशे । ५।
सवितृप्रसूततायै । ६। अथ यत् सरस्वतीं यजति । ७। वाग् वै सरस्वती । ८। वाचमेव तत्
प्रीणाति । ९। अथ यत् पूषणं यजति । १०। असौ वै पूषा योऽसौ तपति । ११। एतमेव तत्
प्रीणाति । १२। अथ यन्मरुतः स्वतवसो यजति । १३। घोरा वै मरुतः स्वतवसः । १४।
भेषज्यमेव तत् कुरुते । १५। अथ यद् वैश्वदेवी पयस्या । १६। एते वै सर्वे देवा यद् विश्वे-
देवाः । १७। सर्वेषामेव देवानां प्रीत्यै । १८। अथ यद् द्यावापृथिवीय एककपालः । १९।
प्रतिष्ठे वै द्यावापृथिवी प्रतिष्ठित्य एव । २०। ^2-अथ यत् प्रथमजं गां ददाति । २१। प्रथमकर्म
ह्येतत्^-2 । २२। अथ यत् पुरस्ताद् वोपरिष्टाद् वा शंयोर्वाकस्यानावाहितान् वाजिनो यजति
। २३। देवाश्चा^3 वै वाजिनः । २४। तानेव तत् प्रीणाति । २५। अत्र देवाः साध्याः
प्रीता भवन्ति । २६। अथो ऋतवो वै वाजिनः । २७। ऋतूनेव तत् प्रीणाति । २८। अथ यत्
परस्तात् पौर्णमासेन यजते । २९। तथा हास्य पूर्वपक्षे वैश्वदेवेनेष्टं भवति । ३० ॥ २॥

^1 L. omits ^2-2 EM. omits ^3 L. (var.) P. देवा अश्वा

वैश्वदेवेन वै प्रजापतिः प्रजा असृजत । १। ताः सृष्टा अप्रसूता वरुणस्य ^1-यवान् जक्षुः^-1