सामग्री पर जाएँ
सर्वकोश
कौषीतकि ब्राह्मण (शाङ्खायन ब्राह्मण - उदय प्रणीत व्याख्या सहित सटीक)

कौषीतकि ब्राह्मण (शाङ्खायन ब्राह्मण - उदय प्रणीत व्याख्या सहित सटीक)

Kaushitaki Shankhayana Brahmana with Udaya Commentary

महर्षि कौषीतकि (टीकाकार: उदयसूरि) द्वारा

DevanagariSanskritpublished119 पृष्ठ

पृष्ठ 17, कुल 119 में से

संदर्भ में पढ़ें
पृष्ठ 17

[पृष्ठम् १६]

राजानं चन्द्रमसं भक्षयानीति³ मनसा ध्यायन्भक्षीयत् । ९ । तदसौ वै सोमो राजा विचक्षण-
श्चन्द्रमाः । १० । तमेतमपरपक्षं देवा अभिषुण्वन्ति । ११ । तद् यदपरपक्षं दाक्षायणयज्ञस्य
व्रतानि चरति । १२ । देवानामपि सोमपीथोऽसानीति । १३ । अथ यदुपवसथ्येऽग्नीषोमीयमे-
कादशकपालं पुरोळाशं निर्वपति । १४ । य एवासौ सोमस्योपवसथ्येऽग्नीषोमीयः । १५ । तमे-
वास्य⁴ तेनाप्नोति । १६ । अथ यत् प्रातरामावास्येन यजते । १७ । ऐन्द्रं वै सुत्यमहः । १८ ।
तत् सुत्यमहराप्नोति । १९ । अथ यदमावास्याया⁵ उपवसथ ऐन्द्राग्नं द्वादशकपालं पुरोळाशं
निर्वपति । २० । ऐन्द्राग्नं वै सामतस्तृतीयसवनम् । २१ । तत् तृतीयसवनमाप्नोति । २२ । अथ
यन्मैत्रावरुणी पयस्या । २३ । मैत्रावरुणी वा अनूबन्ध्या । २४ । तदनूबन्ध्यामाप्नोति । २५ । स
एष सोमो हविर्यज्ञाननुप्रविष्टः । २६ । तस्माददीक्षितो⁶ दीक्षितव्रतो भवति । २७ । । ४ । ।
¹ L. P. ०यजेनेष्यन्; IO. ०यजेन्नेषल्ल ² L. P. काममापेति; L. (var.) काममापैति ³ L. P.
भक्षयामीति ⁴ L. P. तमेव ⁵ L. P. ०वास्यायां ⁶ IO. तस्माद्दीक्षितो

अथात इळादधस्य¹ । १ । इळादधेनेष्यन्नेतस्यामेव² पौर्णमास्यां प्रयुङ्क्ते तस्या उक्तं
ब्राह्मणम् । २ । स एष पशुकामस्यान्नाद्यकामस्य यज्ञः । ३ । तेन पशुकामोऽन्नाद्यकामो
यजेत । ४ । तत्र तथैव व्रतानि चरति । ५ । दाक्षायणयज्ञस्य हि समासः³ । ६ । अथातः
सार्वसेनेनयज्ञस्य । ७ । सार्वसेनेनयज्ञेनेष्यन्नेतस्यामेव² पौर्णमास्यां प्रयुङ्क्ते तस्या उक्तं ब्राह्मणम्
। ८ । ⁴⁻स एष तुस्तूर्षमाणस्य यज्ञः । ९ । स य इच्छेद् द्विषन्तं भ्रातृव्यं स्तृण्वीयेति । १० ।
⁵⁻स एतेन⁻⁵ यजते स्तृणुते ह⁴⁻ । ११ । अथातः शौनकयज्ञस्य । १२ । शौनकयज्ञेनेष्यन्ने-
तस्यामेवं पौर्णमास्यां प्रयुङ्क्ते तस्या उक्तं ब्राह्मणम् । १३ । ⁶⁻स एष प्रजातिकामस्य
यज्ञः । १४ । तेन प्रजातिकामो यजेत । १५ । तद् यदध्वर्युर्हवींषि प्रजनयति तत् प्रजात्यै
रूपम्⁻⁶ । १६ । । ५ । ।
¹ IO. इळादतस्य ² L. P. ०नैष्य० ³ L. P. Here ends Khaṇḍa 5 ⁴⁻⁴L. P. here
read १४-१६ and Khaṇḍa 6 ends with प्रजात्यै रूपम् ⁵⁻⁵ L. P. सोऽनेन (for स एतेन);
IO. स एनेन ⁶⁻⁶ L. P. here read ९-११ and Khaṇḍa 7 ends with स्तृणुते ह

अथातो वसिष्ठयज्ञस्य । १ । वसिष्ठयज्ञेनेष्यन्¹ फाल्गुन्याममावास्यायां प्रयुङ्क्ते । २ । ब्रह्म
वै पौर्णमासी । ३ । क्षत्रममावास्या । ४ । क्षत्रमिवैव यज्ञः । ५ । क्षत्रेण शत्रून्त्सहा इति । ६ ।
वसिष्ठोऽकामयत हतपुत्रः प्रजायेय प्रजया पशुभिरभि सौदासान् भवेयमिति । ७ । स एतं


[पृष्ठम् १७]

यज्ञक्रतुमपश्यद् वसिष्ठयज्ञम्² । ८ । तेनेष्ट्वा प्राजायत³ प्रजया पशुभिरभि सौदासानभवत् । ९ ।
तथो एवैतद् यजमानो यद् वसिष्ठयज्ञेन यजते । १० । प्रजायते प्रजया पशुभिरभि द्विषतो
भ्रातृव्यान् भवति⁴ । ११ । अथातः साकंप्रस्थाय्यस्य । १२ । साकंप्रस्थाय्येनेष्यन्नेतस्यामेवा-
मावास्यायां प्रयुङ्क्ते तस्या उक्तं ब्राह्मणम् । १३ । स एष श्रैष्ठ्यकामस्य पौरुषकामस्य
यज्ञः । १४ । तेन श्रैष्ठ्यकामः पौरुषकामो यजेत । १५ । तद् यत् साकं संप्रतिष्ठन्ते । १६ ।
साकं संप्रयजन्ते । १७ । साकं संभक्षयन्ते⁵ । १८ । तस्मात् साकंप्रस्थाय्यः⁶ । १९ । । ६ । ।
¹ L. P. ०नैष्य० ² L. P. IO. add तमाहरत्तेनायजत ³ IO. प्रजायत ⁴ L. P. Here
ends Khaṇḍa 8 ⁵ L. P. भक्षयन्ते ⁶ L. P. Here ends Khaṇḍa 9

अथातो मुन्ययनस्य । १ । मुन्ययनेनेष्यन्नेतस्यामेव¹ पौर्णमास्यां प्रयुङ्क्ते तस्या उक्तं
ब्राह्मणम् । २ । स एष सर्वकामस्य यज्ञः । ३ । तेन सर्वकामो यजेत² । ४ । अथातस्तुरा-
यणस्य । ५ । तुरायणेनेष्यन्नेतस्यामेव³ पौर्णमास्यां प्रयुङ्क्ते तस्या उक्तं ब्राह्मणम् । ६ । स एष
स्वर्गकामस्य यज्ञः । ७ । तेन स्वर्गकामो यजेत । ८ । अथ यत् कृष्णाजिनं प्रतिमुञ्चते । ९ ।
ब्रह्म वै कृष्णाजिनम् । १० । ब्रह्मणैव तदात्मानं⁴ समर्धयति । ११ । तानि वै त्रीणि हवींषि
भवन्ति । १२ । त्रयो वा इमे लोकाः । १३ । इमानेव तल्लोकानाप्नोति⁵ । १४ । । ७ । ।
¹ L. P. ०नेनेष्य० ² L. P. Here ends Khaṇḍa 10 ³ L. P. ०णेनेष्य० ⁴ L. P. तद्यज्ञं
⁵ L. P. Here ends Khaṇḍa 11

अथात आग्रयणस्य । १ । आग्रयणेनान्नाद्यकामो यजेत वर्षास्वागते श्यामाकसस्ये । २ ।
श्यामाकानुद्धर्तव¹ आह । ३ । सा या तस्मिन् कालेऽमावास्योपसंपद्येत । ४ । तयैष्ट्वाथै-
तयेष्ट्या यजेत । ५ । यदि पौर्णमासी । ६ । एतयेष्ट्वाथ पौर्णमासेन यजेत । ७ । यद्यु नक्षत्रमु-
पेप्सेत्² । ८ । पूर्वपक्षे नक्षत्रमुदीक्ष्य यस्मिन् कल्याणे³ नक्षत्रे कामयेत तस्मिन् यजेत । ९ ।
तस्यै सप्तदश सामिधेन्यः सदन्तावाज्यभागौ विराजौ संयाज्ये तस्योक्तं ब्राह्मणम् । १० ।
सौम्यश्चरुः । ११ । सोमो वै राजौषधीनाम् । १२ । तदेनं स्वया दिशा प्रीणाति । १३ । अथ
यन्मधुपर्कं ददाति । १४ । एष ह्यारण्यानां रसः⁴ । १५ । । ८ । ।
¹ L. P. ०नुद्धर्तवा ² IO. ०त्रमपेप्सेत् ³ L. P. omit ⁴ L. P. Here ends Khaṇḍa 12
3