Skip to content
SarvaKosh
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)

DevanagariHindipublished1,079 pages

Page 998 of 1079

Read in context
Page 998

९४४ कथासरित्सागर

ततः स हरमाराध्य तपसा प्राप्तवान् सुतम्।
राजा रजतदंष्ट्राख्यं जीवितादधिकप्रियम् ॥७३॥
स तेन पित्रा बालोऽपि विद्याः स्नेहेन लम्भितः।
वृद्धिं रजतदंष्ट्रोऽथ बन्धुनेत्रोत्सवो ययौ ॥७४॥
एकदा भगिनीं ज्येष्ठां नाम्ना सोमप्रभां च सः।
गौर्या पुरः पिञ्जरकं वादयन्तीमवेक्षत ॥७५॥
देहि पिञ्जरकं मह्यं वादयाम्यहमप्यथ।
इत्ययाचत तां सोऽथ बालत्वादन्वबध्नत ॥७६॥
सा तन्नादात्तदा तस्मै तया धापल्लत' स्वयं।
तस्यास्तत् सोऽपहृत्यैव पक्षीवोदपतन्नभः ॥७७॥
साथ स्वसा तमशपत्तन्मे पिञ्जरक हठात्।
धृत्वोड्डीनोऽसि तत्पक्षी स्वर्णचूलो भविष्यसि ॥७८॥
तच्छ्रुत्वा पादपतितेनेय सा तेन याचिता।
स्वसा रजतदंष्ट्रण तस्य शापान्तमब्रवीत् ॥७९॥
पक्षी भूत्वान्धकूपे त्व यदा मूढ पतिष्यसि।
उद्धरिष्यति कश्चिन्च तदा त्वां करुणापरः ॥८० ॥
तस्य कृत्वोपकारार्थं शापमन्त तरिष्यसि।
इत्युक्तः स तया भ्राता स्वर्णचूलः खगोऽजनि ॥८१॥
स एव स्वर्णचूलोऽह पक्षी भ्रष्टोऽभ्रटे निधि।
इहोद्धृतोऽस्मि भवता तदिदानीं व्रजाम्यहम् ॥८२॥
आपदि त्वं स्मरमां च तव कृत्वा ह्युपक्रियाम्।
शापान् मोक्ष्यद्युमिस्युक्त्वा सोऽपि पक्षी ययौ तत' ॥८३॥
तत स दाधिखस्तेन तन पृष्टा भुजङ्गम।
स्वोदन्त कथयामास तस्मायत्र महारमने ॥८४॥

सर्पस्यात्मकथा

पुरा मुनिकुमाराऽहमभूय कश्यपाथमे।
अभवतय चैको मे वयस्यो मुनिपुत्रकः ॥८५॥
एकदा पावतीजेंऽस्मिन् सट स्नातुं वयस्यके।
तटस्थिताञ्जुमद्राक्ष त्रिकण मपमागतम् ॥८६॥