कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
Kathasaritsagara Part 2 (Lambaka 6–18)
by महाकवि सोमदेव भट्ट
Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)
Page 861 of 1079
Read in context८१० कथासरित्सागर
सा च तस्यान्वहं धेनुं पयःपलशतं ददौ।
कदाचिच्छ्वाश्रवस्तस्य प्रत्यासन्नं विलोक्यकः ॥४५॥
एकवारं ग्रहीष्यामि पयोऽस्याः प्राज्यमुत्सवे।
इति मूढः स नैवैतां मासमात्रं दुदोह गाम् ॥४६॥
प्राप्तोत्सवश्च यावत्तां दोग्धि तावत्पयोऽनिशम्।
स्तत्तस्याच्छिन्नमच्छिन्नं लोकस्य हसितं त्वभूत् ॥४७॥
मूर्खखल्वाटकथा
श्रुतो गोदोहको मूर्खः श्रूयतामपरापिभो।
खलतिस्ताम्रकुम्भाभशिराः कश्चित्पुमानभूत् ॥४८॥
वृक्षमूलोपविष्टं तं सतृणं कश्चिदक्षत्।
आगताञ्च कपित्थानि गृहीत्वा क्षुधितः पथा ॥४९॥
स कपित्थेन तत्तस्य क्रीडयाताडयच्छिरः।
खलतिः सोऽपि तत्सेहे न तस्योवाच किञ्चन ॥५०॥
ततोऽन्यैः क्रमशः सर्वैः स कपित्थैरताडयत्।
शिरस्तस्य स चातिष्ठत्तूष्णीं रक्ते स्रवत्यपि ॥५१॥
स च निष्पन्नतारुण्यकृतक्रीडाविचूर्णितैः।
विना कपित्थैः क्षुत्क्लान्तो ययौ मूर्खयुवा ततः ॥५२॥
कपित्थैः स्वादुभिः किं न सहे घातानिति ब्रुवन्।
स खल्वाटो गलद्रक्तधिरो मूर्खो ययौ गृहम् ॥५३॥
मूर्खसाम्राज्यबण्डेन पट्टेनेव भृतं शिरः।
रक्तेन तस्य तद्दृष्ट्वा हसति स्म न तत्र कः ॥५४॥
एवं देवोपहास्यत्वं लोके गच्छन्त्यबुद्धयः।
लभन्ते कार्यसिद्धिं च पूज्यन्ते तु सुबुद्धयः ॥५५॥
इति गोमुखतः श्रुत्वा मूर्खहासकथा इमाः।
नरवाहनदत्तः समुत्थाय व्यधितार्थिकम् ॥५६॥
निशागमे पुनस्तेन नियुक्तस्त्वथोत्सुकं सः।
गोमुखः कथयामास प्रज्ञानिष्ठामिमां कथाम् ॥५७॥