कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
Kathasaritsagara Part 2 (Lambaka 6–18)
by महाकवि सोमदेव भट्ट
Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)
Page 845 of 1079
Read in context४१८ कथासरित्सागर
इत्युवाचाथ तान् दुष्टबुद्धी राजाधिकारिणः ।
द्रक्ष्यामस्तर्हि तं प्रातरित्यूचुस्तेऽतिविस्मिताः ॥२२३॥
ततस्तं धर्मबुद्धिश्च दुष्टबुद्धिश्च तावुभौ ।
दत्तप्रतिभुवो मुक्तौ विमिश्रौ जग्मतुर्गृहम् ॥२२४॥
दुष्टबुद्धिस्तु गत्वाथ तत्त्वार्थं पितरं रहः ।
भव मे वृक्षगर्भान्तः स्थित्वा साक्षीत्ययाचत ॥२२५॥
बाढमित्युक्तवन्तं च नीत्वा महति कोटरे ।
निवेश्य च तरोस्तत्र रात्रौ स गृहमाययौ ॥२२६॥
प्रातश्च राजाधिकृतैः सह तौ भ्रातरौ तरुम् ।
गत्वा पप्रच्छतुः कस्तान् दीनारान् नीतवानिति ॥२२७॥
दीनारान् धर्मबुद्धिस्तान् नीतवानिति स स्फुटम् ।
तद्वृक्षकोटरान्तःस्थस्तत्साऽभाषत तत्पिता ॥२२८॥
तदसम्भाव्यमाकर्ण्य निश्चितं दुष्टबुद्धिना ।
अत्रान्तःस्थापितः कोऽपीत्युक्त्वाधिकृताश्च ते ॥२२९॥
तद्गर्भे दधुर्धूमं येनाध्मातः स निर्सरन् ।
निपत्याधोगतः क्ष्मायाँ दुष्टबुद्धिपिता मृतः ॥२३०॥
तद्दृष्ट्वा वस्तु बुद्ध्वा च राजाधिकृतकः स तैः ।
दापितो दुष्टबुद्धिस्तान् दीनारान् धर्मबुद्धये ॥२३१॥
निकृत्तहस्तजिह्वश्च तैः स निर्वासितस्ततः ।
दुष्टबुद्धिर्यथार्हस्यो धर्मबुद्धिश्च मानितः ॥२३२॥
एवमन्याय्यया बुद्ध्या कृतं कर्माशुभावहम् ।
तस्मान्न्याय्यया कुर्याद्बकेनाहेः कृतं यथा ॥२३३॥
बकसर्पयोः कथा
पूर्वं बकस्य कस्यापि जातं जातमभक्षयत् ।
भुजगोऽप्रत्यमागस्य स सन्तेपे ततो बकः ॥२३४॥
तदुपदेशात्तेनाथ बकेन नकुलालयात् ।
आहालाहिबिलं यावन्मत्स्यमांसं व्यकीर्यत ॥२३५॥
निर्गत्य नकुलस्तच्च खादंस्तदनुसारतः ।
दृष्ट्वा बिलं प्रविष्टस्तं सापत्यमवधीदहिम् ॥२३६॥