Skip to content
SarvaKosh
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)

DevanagariHindipublished1,079 pages

Page 821 of 1079

Read in context
Page 821

३७४ कथासरित्सागर
इत्युक्त्वाऽथ दमनको गच्छ क्षमतोऽसि चेदिति।
गदितस्तेन सिंहेन स ययौ यमुनातटम्॥६३॥
तत्र शब्दानुसारेण यावत्त्वरं स गच्छति।
तावत्तृणानि खादन्तं वृषभं तं ददर्श सः ॥६४॥
उपेत्य चान्तिकं तस्य कृत्वा तेन च संविदम्।
गत्वा तस्मै स सिंहाय यथावस्तु शशंस तत्॥६५॥
महोक्षः स त्वया दृष्टः संस्तवश्च कृतो यदि।
तदिहानय तं भुक्त्वा तावत्पश्यामि कीदृशः ॥६६॥
इत्युक्त्वा स प्रहृष्टस्तं सिंहः पिङ्गलकस्ततः।
वृषस्य प्राहिणोत्तस्य पार्श्वं दमनकं पुनः॥६७॥
एह्याह्वयति तुष्टस्त्वामस्मत्स्वामी मृगाधिपः।
इति गत्वा दमनकेनोक्तः स वृषभो भयात् ॥६८॥
यदा न प्रतिपेदे तत्सदा गत्वा पुनर्वनम्।
तं निजस्वामिनं सिंहं तस्याभयमदापयत्॥६९॥
एत्याभयेन चाश्वास्य ततः सञ्जीवकं स तम्।
वृषभं तं दमनकोऽनयीत् केसरिणोऽन्तिकम् ॥७०॥
स चागतं तं प्रणतं दृष्ट्वा सिंहः कृतादरः।
उवाच हैव तिष्ठ त्वं मत्पार्श्वे निर्भयोऽधुना॥७१॥
तथेति तेन तत्रस्थेनाहृतः स तथा क्रमात्।
उक्त्या यथान्यविमुखस्तद्गतोऽभूत्स केसरी ॥७२॥
ततो दमनकोऽवादीत्खिन्नः करटकं रहः।
पश्य सञ्जीवकवृतः स्वामी नावामवेक्षते ॥७३॥
एक एवामिषं भुङ्क्ते न भागं नौ प्रयच्छति।
मूढबुद्धिः प्रभुश्चायमुख्यानेनाथ शिक्ष्यते ॥७४॥
कृतो मयैव दोषोऽस्य यदेवं वृषमानयम्।
तत्पाहं करिष्यामि यथोक्षाय विस्रक्ष्यति॥७५॥
मस्यान्मव्यसनाच्चायं निवर्त्स्यति यथा प्रभुः।
एतद्दमनकाच्छ्रुत्वा वचः करटकोऽथ सः॥७६॥
सखे न कर्तुमधुना शक्यमेतद्भवताऽपि।
ततो दमनकोऽवादीच्छक्ष्यामि प्रज्ञया ध्रुवम् ॥७७॥