Skip to content
SarvaKosh
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)

DevanagariHindipublished1,079 pages

Page 783 of 1079

Read in context
Page 783

४३६ कथासरित्सागर

तया सह स राज्यं स्वं शासन्नृपतिरेकदा।
निष्कासितोऽभूद्बलिविद्देशात् सम्भूय गोत्रजैः॥११०॥
देवीद्वितीयः प्रच्छन्नं सायुधोऽल्पपरिच्छदः।
स प्रतस्थे ततो राजा मालवं श्वशुरास्पदम्॥१११॥
गच्छन् पथि च सोऽटव्यां सिंहमाधावितं पुरः।
शरैः खड्गप्रहारेण द्विधा चक्रेऽवहेलया॥११२॥
वनद्विपं च गर्जन्तमायान्तं मण्डलाग्रभाक्।
खड्गच्छिन्नकराङ्गुलिकं मुक्ताटटिमपातयत्॥११३॥
एकाकी तस्करचमूर्विदलयन्नवपङ्कजाः।
गमाधारव्यविक्रान्तः करी कमलिनीमिव॥११४॥
एवं मार्गमतिव्रज्य दृष्टारब्धभूतविक्रमाम्।
मालवं प्राप्य देवीं स्वां सोऽब्रवीत् सत्त्वसागरः॥११५॥
न मार्गवृत्तमेतन्मे वाच्यं पितृगृहे त्वया।
लज्जया देवि का श्लाघा क्षत्रियस्य हि विक्रमे॥११६॥
इत्युक्त्वा च तया सार्धं प्राविशत्पितृगेहम् ।
सम्भ्रमात्तेन पृष्टश्च निजं वृत्तान्तमुक्तवान्॥११७॥
सम्भाव्य दत्तहस्त्यश्वस्तत्त्वेन श्वशुरेण सः।
शतानीकाभिधस्यागाद्राज्ञोऽतियशिनोऽन्तिकम् ॥११८॥
देवीं तु कल्याणवतीं भार्यां तां पितृवेश्मनि।
तत्रैव स्थापयामास विपक्षविजयोद्यतः॥११९॥
तस्मिन्प्रयाते मातुस्तु दिवसप्रकटात्र सा।
देवी वातायनाधस्था कञ्चित्पुरुषमददात्॥१२०॥
स दृष्ट एव रूपेण तस्याश्चित्तमपाहरत्।
स्मरणाङ्कुप्यमाणा च तत्क्षणं सा व्यचिन्तयत्॥१२१॥
जानेऽहं नार्यपुत्राद्यत्सुलक्ष्णाङ्गो न शोयपाम्।
धावत्येव तथाप्यस्मिन् पुरुषे यत मे मनः॥१२२॥
तद्यथ भजाम्येनमिति सञ्चिन्त्य सा ततः।
गय्र्यं रहस्यधारिण्यै स्वाभिप्रायं शशंस तम्॥१२३॥
शयनानाय्य भक्तं च बानायनरथेन सा।
अन्त पुरं तं पुरुषं रञ्जलिखं न्यवेशयत्॥१२४॥