कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
Kathasaritsagara Part 2 (Lambaka 6–18)
by महाकवि सोमदेव भट्ट
Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)
Page 759 of 1079
Read in context७१२ कथासरित्सागर
पितुश्च क्षपितार्थं किं वक्ष्यस यास्यसि क्व वा।
तदितोऽद्यापि निर्याहि कल्याणे चेन्मतिस्तव ॥११६॥
एतत्तस्य वचः सख्यूर्र्वधीर्यं वणिग्युवा।
मासेनाप्यव्ययीचक्रे तत्र कोटित्रयं स तत् ॥११७॥
ततो हृतस्वो दत्तार्धचन्द्रः सुन्दरीगृहात्।
तया मकरदंष्ट्राख्य कुट्टन्या निरकाश्यत ॥११८॥
अर्थदत्तादयस्तं च गत्वा स्वनगरं द्रुतम्।
तत्पित्रे तत्समाचख्युर्यथावृत्तमशेषतः ॥११९॥
स तत्पिता रत्नवर्मा तद्बुद्ध्वा दुःखितो भृशम्।
कुट्टनीं यमजिह्वां तां गत्वावोचद्वणिग्पतिः ॥१२०॥
गृहीत्वा मूल्यमीदृक् त्वया मे शिक्षितः सुतः।
हृत मकरदंष्ट्रा यत्सर्वस्वं तस्य हर्म्यया ॥१२१॥
इत्युक्त्वा पुत्रवृत्तान्तं तस्यै स समवर्णयत्।
ततः सा यमजिह्वां तं वृद्धकुट्टन्यभाषत ॥१२२॥
आनाययेह पुत्रं ते करिष्यामि तथा यथा।
सम्या मकरदंष्ट्रास्तत्सर्वस्वं स हरिष्यति ॥१२३॥
एवं तया प्रतिज्ञाते कुट्टन्या यमजिह्वया।
तदद्य शीघ्र मन्विष्य भूय्या गानपुरःसरम् ॥१२४॥
रत्नवर्मा ततस्तस्य पुत्रस्यानयनाय च।
तन्मित्रमर्थदत्तं च प्रजिघाय हितैषिणम् ॥१२५॥
अर्थदत्त स गत्वा च तत्काञ्चनपुरं पुरम्।
तस्मै शं शंस सन्देशं शसदेवरवर्मणः ॥१२६॥
पुनरत्र धात्रवीमित्र माकार्षीस्त्वं बथा हि मे।
तदद्य वेदषामद्भावो दृष्ट प्रत्यक्षासत्प्रथया ॥१२७॥
अथधन्तस्खया प्राप्ता दृष्ट्वा ततोऽपिऽऽवदम्।
कः प्राज्ञा बाञ्छतिरतन् वश्यासु गिरसासु च ॥१२८॥
विमुच्यते वा भवता वग्गुपमौन्यमीदृशः।
तावद्विगन्धो धीरदप नरो भागी शुभस्य च ॥१२९॥
यावन्नमति नेत्राण रामाविभ्रमभूमिषु।
तदागच्छ पितुः पार्श्वं मय्यूप्रतिश्रोति कुरु ॥१३०॥