कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
Kathasaritsagara Part 2 (Lambaka 6–18)
by महाकवि सोमदेव भट्ट
Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)
Page 73 of 1079
Read in context५२ कथासरित्सागर
इत्युक्तवद्भिस्तैः साकं गत्वा प्राप्य शिवालयम्।
शून्यं निश्चयदस्तत्त्वां रात्रि नेतुं विवेश सः॥६१॥
तत्राङ्गणे विधायाशु भस्मना मण्डलं महत्।
प्रविश्य चान्तरे तस्य प्रज्वाल्याग्निं सहेन्धनैः॥६२॥
धीरो निश्चयदत्त स तं महाव्रतिनस्तथा।
मन्त्रं जपन्तो रक्षार्थं सर्वे एवावतस्थिरे॥६३॥
अथाययौ वादयन्ती दूरात् कङ्कालकिङ्किरीम्।
नृत्यन्ती यक्षिणी तत्र सा शृङ्गोत्पादिनी निशि॥६४॥
एत्य तपु चतुर्ष्वेकं सा महाव्रतिनं प्रति।
वतडुकं समपठन्नृत्त मण्डलाद्बहिः॥६५॥
तेन मन्त्रेण सञ्जातशृङ्गो मोहित उत्थितः।
नृत्यंस्तस्मिन्ज्वलत्यग्नौ स महाव्रतिकोऽभवत्॥६६॥
पतितं सार्धदग्धं तमाकृष्यावाग्निमध्यतः।
सा शृङ्गोत्पादिनी हृष्टा भक्षयामास यक्षिणी॥६७॥
ततो द्वितीये व्रतिनि न्यस्तदृष्टिस्तथैव सा।
तं शृङ्गोत्पादनं मन्त्रं पपाठ च ननर्त च॥६८॥
सोऽपि द्वितीयस्तन्मन्त्रजातशृङ्गः प्रनर्तितः।
पतितोऽग्नौ तयाकृष्य पश्यत्स्वन्येष्वभक्ष्यत॥६९॥
एवं क्रमेण संमोह्य तान् महाव्रतिनो निशि।
समाभक्ष्यन्त यक्षिण्या चत्वारोऽपि सशृङ्गकाः॥७०॥
चतुर्थं भक्षयन्त्या च तया मांसासृङ्मत्तया।
स्वयं किङ्करिकातोद्यं दैवाद् भूमौ न्यधीयत॥७१॥
तावच्च क्षिप्रमुत्थाय तद्गृहीत्वैव वादयन्।
धीरो निश्चयदत्तोऽपि प्रनृत्यन् विहसन् भ्रमन्॥७२॥
तं शृङ्गोत्पावनं मन्त्रमसकृच्छ्रुतशिक्षितम्।
पापठ्यते स्म यक्षिण्यास्तस्या मस्तकेऽक्षणो भुजे॥७३॥
तत्प्रयोगप्रभावण विवशा मुग्धुङ्कुणी।
उत्पातुकामशृङ्गी सा प्रह्ला तं प्राह यक्षिणी॥७४॥
१ सार्धं दग्धं = बधिरं, ताभ्यां मत्यया।