Skip to content
SarvaKosh
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)

DevanagariHindipublished1,079 pages

Page 721 of 1079

Read in context
Page 721

१७४ कथासरित्सागर

तत्रासीत् प्रेम दम्पत्योर्गौरीशर्वोर्बिकं तयोः।
शर्वस्य गौरी देहार्धं तस्य त्वात्मैव साभवत् ॥२८५॥
कालेन चन्द्रसेनाख्यं दमयन्ती नखात्सुतम्।
प्रसूते स्म तदन्वेकामिन्द्रसेनां च कन्यकाम् ॥२८६॥
तावच्च स कलिश्छिद्रं तस्यामुच्छास्त्रवर्तिनः।
मस्र्स्यासीच्चिरं चिन्वन्प्रतिज्ञातार्थनिश्चितः ॥२८७॥
वर्षेकवानुपास्यैव सन्ध्यामक्षालिताङ्घ्रिकः।
स सुष्वाप नलः पानमदेन मुषितस्मृतिः ॥२८८॥
छिद्रमेतदवाप्यैव दत्तदृष्टिर्दिवानिशम्।
कलिस्तस्य शरीरान्तर्नलस्य प्रविवेश सः ॥२८९॥
तेन देहप्रविष्टेन कलिना स नलो नृपः।
विहाय धर्म्यमाचारमाचचार यथारुचि ॥२९०॥
मक्षैरदीव्यद्दासीभिररस्तासत्यमब्रवीत् ।
असेवत दिवा स्वप्नं स जगागार रात्रिषु ॥२९१॥
अकारात्कारणं कोपमन्यायेमार्थमाददे।
अवमानं सतां चक्रे सम्मानमसतां च सः ॥२९२॥
तद्भावं पुष्करास्मै सथैवोक्तास्तत्सखम्।
छिद्रं प्राप्य शरीरान्तःप्रविष्टो द्वापरो व्यधात् ॥२९३॥
कदाचित्पुष्कराख्यस्य गृहे तस्यानुजस्य सः।
नलो ददर्श दान्ताख्यं सुन्दरं धवलं वृषम् ॥२९४॥
लोभामृग्यमानाय त तस्मै ज्यायसे न सः।
द्वापरप्रस्ततद्बुद्धिः पुष्कराख्यो वृषं ददौ ॥२९५॥
जगाद च यद्यस्ति वाञ्छास्मिन्वृषभे तव।
तद्द्यूतेन विजित्यैनं मस स्वीकुरु मा चिरम् ॥२९६॥
तच्छ्रुत्वा स नलो मोहान् प्रतिपेदे तथेति तत्।
घत प्रवृत्ते द्यूतं तयोर्भ्रात्रोः परस्परम् ॥२९७॥
पुष्कराख्यस्य स वृषो नलस्यैमादय पणः।
जिगाय पुष्कराख्यश्च नलो मुहुर्जीयत ॥२९८॥
न्निदेद्मित्रबले कोष हारितेऽपि दुरोदरात्।
न नलो वार्यमाणोऽपि चचाल कलिबिप्लुतः ॥२९९॥