Skip to content
SarvaKosh
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)

DevanagariHindipublished1,079 pages

Page 717 of 1079

Read in context
Page 717

१७० कथासरित्सागर
इत्युक्त्वा तेन मुक्तः स हंसो गत्वा शशंस तत् ।
दमयन्त्यै यथावस्तु यथाकामं जगाम च ॥२५५॥
दमयन्ती च सोत्कण्ठा युक्त्या मातर्मुखेन सा।
पितुः स्वात्प्रार्थयामास नलप्राप्त्यै स्वयंवरम् ॥२५६॥
अनुमेने स तस्याश्च स्वयंवरकृते पिता।
भीमः पृथिव्यां सर्वेषां राज्ञां दूतान्विसृष्टवान् ॥२५७॥
प्राप्तदूताश्च निश्चिक्यू विदर्भान्प्रति भूमिपाः।
व्रजन्ति स्म नलोऽप्युत्को रथास्तम्भनचारु सः ॥२५८॥
ततश्च दमयन्त्यास्तो नलप्रेमस्वयम्बरौ।
इन्द्रादयो लोकपालाः शुश्रुवुर्नारदाम्मुनेः ॥२५९॥
तपा च भसमिद्धायुर्यमाग्निवरुणास्ततः।
सम्मन्त्र्य दमयन्त्युक्त्वा नलस्याभ्यान्तिकं ययुः ॥२६०॥
ऊचुश्च प्राप्य तं प्रह्वं विदर्भान्प्रस्थितं पथि।
गत्वास्मद्वचनाद् ब्रूहि दमयन्तीमिदं नृप ॥२६१॥
पञ्चानां वरयैकं नः किं मर्त्येन नलेन ते।
मर्त्या मरणधर्माणस्त्रिदशास्त्वमरा इति ॥२६२॥
अस्मत्प्रभावाच्च तत्पार्श्वमदृष्टोऽन्यैः प्रवेक्ष्यसि।
तथेत्येतां च वशाज्ञां प्रतिपदे नलोऽथ सः ॥२६३॥
गत्वा चान्तःपुरं तस्याः प्रविष्ट्यावृष्ट एव च।
दमयन्त्या शशंसेच देवादेशं तथैव तम् ॥२६४॥
सा तं श्रुत्वाब्रवीत्साध्वी देवास्ते सन्तु तादृशाः।
तथापि मे नलो भर्त्ता न कार्यं त्रिदशैर्मम ॥२६५॥
इति सम्यग्वचस्तस्याः श्रुत्वात्मानं प्रकाश्य च।
नलो गत्वा तथैवैतदिन्द्रादिभ्यः शशंस सः ॥२६६॥
वश्या वयमिदानीं ते स्मृतमात्रोपगामिनः।
तथ्यवादित्विति च ते तुष्टास्तस्मै ददुर्वरान् ॥२६७॥
ततो हृष्टे नले याते विदर्भान्बिम्बसत्सुभिः।
दमयन्त्याः सुरेशाद्यैर्नलरूपमकारि तैः ॥२६८॥
गत्वा च भीमस्य सभां मर्त्यधर्मानुपाश्रिताः।
स्वयम्बरे प्रस्तुते ते नलसान्तिक उपाविशन् ॥२६९॥