कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
Kathasaritsagara Part 2 (Lambaka 6–18)
by महाकवि सोमदेव भट्ट
Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)
Page 69 of 1079
Read in context४८ कथासरित्सागर
स्मरन्दुमादिव स्तम्भादुद्भिन्नं करपल्लवम्।
हा धिक्तस्या गृहीत्वापि नाप्तः पाणिग्रहो मया ॥३१॥
तद्व्रजाम्यन्तिकं तस्याः पुरीं तां पुष्करावतीम्।
प्राणांस्त्यक्ष्यामि दैवं वा साहाय्यं मे करिष्यति ॥३२॥
इति सञ्चिन्तयन् नीत्वा स्मरार्तः सोऽत्र तद्दिनम्।
प्रातिष्ठत ततः प्रातरवलम्ब्योत्तरां दिशम् ॥३३॥
ततः प्रक्रमतस्तस्य क्रमोऽन्ये सहयायिनः।
मिलन्ति स्म वणिक्पुत्रा उत्तरापथगामिनः ॥३४॥
तैः समं समतिक्रमन् पुरग्रामाटवीनदीः।
क्रमादुत्तरदिग्भूमिं प्राप स म्लेच्छभूयसीम् ॥३५॥
तत्र तैरेव सहितः पथि प्राप्यव ताजिकैः।
गीत्वा परस्मै मूल्येन दत्तोऽभूत्ताजिकाय सः ॥३६॥
तेनाऽपि तावद् भृत्यानां हस्ते कोशालिकाकृते।
मुखराभिधानस्य सुहृत्तस्य व्यसृज्यत ॥३७॥
तत्र नीतः स तद्भृत्यैर्युक्तैस्तैरपरैस्त्रिभिः।
मुखरं मृतं बुद्ध्वा तत्पुत्राय न्यवेदयत् ॥३८॥
पितुः कोशालिका ह्येषा मित्रेण प्रेषिता मम।
तत्तस्यैवान्तिकं प्रातः प्राते क्षेप्या इमे मया ॥३९॥
इत्यात्मना चतुर्थं तं तत्पुत्रोऽपि स तां निशाम्।
संयम्य स्थापयामास तुरुष्को निगडैर्दृढम् ॥४०॥
ततोऽत्र बन्धने रात्रौ मरणत्रासकातरान्।
सङ्क्षोभिदक्षयदंस्तस्तान् स जगाद वणिक्सुतान् ॥४१॥
का विषादेन वः सिद्धिर्धैर्यमारुह्य तिष्ठत।
भीता इव हि धीराणां दूरे यान्ति विपत्तयः ॥४२॥
स्मरतैकां भगवतीं दुर्गामापद्विमोचनीम्।
इति तान् धीरयन् भक्त्या देवीं तुष्टाव सोऽथ ताम् ॥४३॥
'नमस्तेऽस्तु महादेवि पादौ ते यावकाङ्कितौ।
मुदितासुरमन्थास्त्रपङ्काविव नमाम्यहम् ॥४४॥
जितं शक्त्या शिवस्यापि विदवद्वैर्यकृता त्वया।
त्वदनुप्राणितं चेदं भ्रष्टतं भुवनत्रयम् ॥४५॥