कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
Kathasaritsagara Part 2 (Lambaka 6–18)
by महाकवि सोमदेव भट्ट
Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)
Page 683 of 1079
Read in context११६ कथासरित्सागर
चन्द्रस्वामिनस्तत्सूनोर्महीपालस्य च कथा
चन्द्रस्वामीत्यभूत् पूर्वं राज्ञः कमलवर्मणः।
नगरे ऽथ कमलपुराख्यं ब्राह्मणोत्तमः ॥४॥
तस्य लक्ष्मीसरस्वत्यास्तृतीया विनयोग्ज्वला।
भार्या देवमतिर्नाम समाना सुमतिरभूत् ॥५॥
तस्यां तस्य च विप्रस्य पत्न्यां जज्ञे सुलक्षणः।
पुत्रः स यस्य जातस्य वागेवमुदगाद्दिवः ॥६॥
चन्द्रस्वामिन् महीपालो नाम्ना कार्यः सुतस्त्वया।
राजा भूत्वा चिरं यस्मात् पालयिष्यत्ययं महीम् ॥७॥
एतद्दिव्यं वचः श्रुत्वा स महीपालमेव तम्।
चन्द्रस्वामिसुतं नाम्ना चकार रचितोत्सवः ॥८॥
क्रमाच्च स महीपाले विवृद्धौ ग्राहितोऽभवत्।
शस्त्रास्त्रवेदविद्यासु समं सर्वासु शिक्षितः ॥९॥
तावच्च सुषुवे तस्य सा चन्द्रस्वामिनः पुनः।
भार्या देवमतिः कन्यां सर्वावयवसुन्दरीम् ॥१०॥
सा च चन्द्रवती नाम महीपालः स च क्रमात्।
भ्रातरौ ववृधाते तौ स्वपितुस्तस्य वेश्मनि ॥११॥
अथार्वृष्टिकृतस्तत्र देशे दुर्भिक्षविप्लवः।
उदपद्यत दग्धेषु सस्येषु रविरश्मिभिः ॥१२॥
क्षुधोपन्नं च राजान्नं प्रारेभे तस्करायितुम्।
अधर्मेण प्रजाभ्योऽर्थमाकृष्य मुक्तसत्पथः ॥१३॥
ततोऽवसीदत्यत्यर्थं देशे तस्मिन्नुवाच सा।
भार्या देवमतिर्विप्रं चन्द्रस्वामिनमत्र तम् ॥१४॥
आगच्छ मत्पितृगृहं व्रजामो नगरादितः।
एते ह्यपत्ये नश्येतामावयोरिह जातुचित् ॥१५॥
तच्छ्रुत्वा तां गदति स्म चन्द्रस्वामी स्वगेहिनीम्।
भय पापं महद्गङ्गासद्दुर्भिक्षे हि पलायनम् ॥१६॥
तदहं बालचावतीं नीत्वा स्वपितुर्वेश्मनि।
स्थापयामि त्वमास्वेह शीघ्रं यास्याम्यहं पुनः ॥१७॥