Skip to content
SarvaKosh
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)

DevanagariHindipublished1,079 pages

Page 61 of 1079

Read in context
Page 61

४० कथासरित्सागर
दत्तराज्यश्च नभसा स गमिष्यंस्तपोवनम्।
आनाययञ्श्वेतरश्मिं पौराणां साधु पश्यताम् ॥११०॥
आनीतमात्रं स करी शरीरं प्रविमुच्य तत्।
पुरुषो दिव्यरूपोऽभूद्धारकेयूरराजितः ॥१११॥
श्वेतरश्मिकथितः पूर्वजन्मवृत्तान्तः
को भवान्किमिदं चेति पृष्टो राज्ञा जगाद सः।
गन्धर्वौ भ्रातरावावामुभौ मलयवासिनौ ॥११२॥
अह सोमप्रभो नाम ज्येष्ठो देवप्रभश्च सः।
तस्य चैकैव मद्भातुरभार्या सा चातिवल्लभा ॥११३॥
स तां राजवतीं नाम कृतवोत्सङ्गं परिभ्रमन्।
एकदा सिद्धवासस्य स्थानं प्रायानया सह ॥११४॥
केशवायतने तत्र वयमभ्यर्चिताच्युताः।
प्रावर्त्तामहि सर्वेऽपि गातुं भगवतः पुरः ॥११५॥
तावदागत्य तत्रैकः सिद्धस्तां श्रव्यगायिनीम्।
दृष्ट्वा राजवतीं पश्यन्नतिष्ठदनिमेषया ॥११६॥
सिद्धोऽपि सानिलाषः किं परनारीं निरीक्षसे।
इति रोष्यात्स मद्भाता क्रुधा सिद्धं तमब्रवीत् ॥११७॥
ततः स सिद्धः कुपितः शप्तुमेव तमभ्यधात्।
गीताश्चर्यान्मया मूढ वीक्षितेयं न कामतः ॥११८॥
तन्मर्त्ययोनावीर्ष्यालुः पत त्वमनया सह।
पश्येतामेव भार्यां त्वं साक्षात्तत्रान्यसङ्गताम् ॥११९॥
इत्युचिवान् मया सोऽथ बाल्यात्तच्छापकोपतः।
हस्तस्थेनाहृतः क्रीडामुग्ध्येन श्वेतहस्तिना ॥१२०॥
ततः स मां समशपद्येनाहं भवताहृतः।
तादृक्श्वेतो गजो भूमौ भवानुत्पद्यतामिति ॥१२१॥
अथानुनीतो मद्भात्रा तेन देवप्रभेण सः।
सिद्धः कृपालुः शापान्तमेवमस्माकमब्रवीत् ॥१२२॥
हरेः प्रसादान्मर्त्योऽपि भूत्वा द्वीपेश्र्वरो भवान्।
गजीभूतमिमं प्राप्स्यत्यनुजं दिव्यवाहनम् ॥१२३॥
मन्तपुरसहस्राणि त्वमशीतिमवाप्स्यसि।
तैषां वेत्स्यसि दौःशील्पं सर्वेषां जनसन्निधौ ॥१२४॥