Skip to content
SarvaKosh
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)

DevanagariHindipublished1,079 pages

Page 571 of 1079

Read in context
Page 571

५४ कथासरित्सागर
स्वनामसम स्वकृत स पश्यंस्तत्पुर नृपः।
तेनाययौ पथा यत्र गृहं विजयवर्मणः॥३४६॥
बुद्ध्वा च नृपमायान्तं तद्दर्शनकुतूहलात्।
आरुरोहाथ सानङ्गप्रभा हर्म्यतलं सती॥३४७॥
अनंगप्रभावलप्रभयोः कथा
दृष्ट्वैव सा त राजानं तथाभूतद्वया यथा।
हठाद्राजकरेणुस्थं हस्त्यारोहमभाषत॥३४८॥
भो हस्त्यारूढ नैवाहमारूढा जातु हस्तिनम्।
तदारोहय मामत्र वीक्षे तावत् कियत्सुखम्॥३४९॥
तच्छ्रुत्वाभोरणे तस्मिन् राजाननविलोकिनि।
राजा ददर्श तामिन्दोर्दिवः कान्तिमिव च्युताम्॥३५०॥
पिबंश्च तामतृप्तेन चकोर इव चक्षुषा।
नृपस्तत्राप्तिबद्धाशो हस्त्यारोहमुवाच सः॥३५१॥
नीत्वा करेणु निकटं पूरयास्या मनोरथम्।
आरोपयेन्दुवदनाम ताममत्राविलम्बितम् ॥३५२॥
इति राज्ञोदिते तेन हस्त्यारोहेण ढौकिता।
अधस्तात्तस्य हर्म्यस्य तत्क्षणं सा करेणुका॥३५३॥
दृष्ट्वा तां निकटप्राप्तां राज्ञः सागरवर्मणः।
उत्सङ्गे तस्य सानङ्गप्रभात्मानमपातयत्॥३५४॥
क्वापि न भर्तृविद्वेषः क्वैषा भर्तृव्यतृप्तता।
हा तस्याः पितृशापेन दर्शितोऽतिविपर्ययः॥३५५॥
निपातभीतेव च सा कण्ठे तं नृपमग्रहीत्।
तत्स्पर्शामृतसिक्ताङ्गः सोऽपि प्राप परां मुदम्॥३५६॥
युक्त्या समर्पितात्मानं परिचुम्बन्महारुहाम्।
तां स राजा गृहीत्वैव जगामाशु स्वमन्दिरम्॥३५७॥
तत्र सामुक्तवृत्तान्तां तदैव युवराङ्गनाम्।
स चकार महादेवीं प्रवेश्यान्तःपुरे नृपः॥३५८॥
बुद्ध्वा राजहृतामेतामय क्षत्रमिवाथ सः।
बहिर्विजयवर्मात्र राजभृत्यानयोधयत्॥३५९॥
युद्धे च तत्र तत्याज शरीरमपराङ्मुखः।
न शूरा विषहन्ते हि स्त्रीनिमित्तं पराभवम्॥३६०॥