Skip to content
SarvaKosh
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)

DevanagariHindipublished1,079 pages

Page 57 of 1079

Read in context
Page 57

यहाँ पृष्ठ का देवनागरी लिप्यन्तरण प्रस्तुत है:

३३ कथासरित्सागर
निवार्य मरणात्तन् दत्त्वा वृत्तिं दयालुना।
गृहीतोऽहं प्रवहणे स्वर्णद्वीपं यियासता ॥८०॥
ततोऽकस्मान्नवहनेनाब्धिमध्येन गच्छताम्।
पञ्चस्वहस्सु यातेषु मेघोऽकस्माद्व्यबुध्यत ॥८१॥
प्रमृष्टे स्थूलधाराभिर्भवेऽस्मिन्मारुतेन तत्।
व्यघूर्णत प्रवहणं मत्तहस्तिशिरो यथा ॥८२॥
क्षणाच्चिमग्न्य भग्नेऽस्मिन्वानपात्रे विधेर्वशात्।
एकं फलकम् प्राप्तस्तत्कालं मज्जता मया ॥८३॥
तदारूढस्ततः शान्ते मेघाटोपे विधेर्वशात्।
इमं प्रदेशं प्राप्यहमुत्तीर्णः साम्प्रतं वने ॥८४॥
वीक्ष्य चेदं धनुश्शास्त्रं प्रविष्टाम्यन्तरं मया।
दृष्टा दृष्टिसुधावृष्टिस्त्वं तापशमनी भुमे ॥८५॥
इत्युक्तवन्तं पर्यङ्के निषद्यैवाश्लिषत्तु तम्।
मोहिता राजवत्ता सा मदेन मदनेन च ॥८६॥
स्त्रीत्वं जीवितमेकान्तः पुंसो कामोऽनियन्त्रणा।
यत्र पञ्चाम्नयस्तत्र वार्ता शीलतृणस्य का ॥८७॥
न चैव क्षमते नारी विचारं मारमोहिता।
यदिदं चकमे राज्ञी तमकाम्यं विपद्गतम् ॥८८॥
तावच्च रत्नाधिपतिः स राजा रत्नकूटकः।
आजगामोत्सुकस्तूर्णं शुपरद्विपवाहनः ॥८९॥
प्रविशदात्र सोऽपश्यत्सादृशेनापि तन ताम्।
पुरुषेण समं भार्यां राजवत्तां रतिस्थिताम् ॥९०॥
दृष्ट्वा निष्कासितमपि क्षितीशः पुरुषं स तम्।
त्रासभीत्यादपतितं ब्रुवाणं कृपणा गिरः ॥९१॥
भार्यां मौढां च मत्तां तां स वीक्ष्यैवमचिन्तयत्।
अद्य मारेङ्मुहृदि प्रसक्ता स्त्री सती कुत ॥९२॥
नियन्तुं चपला नारी रक्षयापि न शक्यते।
किं नामोत्पातवाताली बाहुभ्यां जातु बध्यते ॥९३॥
न श्रुतं गणकोक्तं यत्तन्दि तस्य मे फलम्।
विपाककटुब तस्य भाप्तवाकयावधीरणम् ॥९४॥