कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
Kathasaritsagara Part 2 (Lambaka 6–18)
by महाकवि सोमदेव भट्ट
Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)
Page 485 of 1079
Read in context४४८ कथासरित्सागरं
तावद् गौरीसहितो भगवानथाययौ पुरारातिः।
देवासुरविद्याधरनृपतिमहर्षिप्रणम्यमानाङ्घ्रिः ॥२०४॥
सर्वेषु सेषु सुरदानवेश्वरेषु ।
पुण्याहघोषमुखरेष्वखिलेर्जलेस्तैः ॥
सूर्यप्रभं तमृपयो धुचराधिराज्ये।
सिंहासने समुपवेशितमम्यपिञ्चन् ॥२०५॥
बबन्ध पट्टं मुकुटं च तस्य स प्रत्यूष्य विज्ञानमयो मयासुरः।
ननाद तूर्यैः सह देवदुन्दुभिर्वराप्सरोनृत्तपुरःसरो दिवि ॥२०६॥
तां च महर्षिसमूहः स कामचूडामणि समभिषिच्य।
सूर्यप्रभस्य विदधे तस्य समुचितां महादेवीम् ॥२०७॥
ततो गतेषु त्रिदशासुरेषु सूर्यप्रभो बन्धुसुहृद्वयस्यः।
सहात्र विद्याधरचक्रवर्ती महाभिषेकोत्सवमाततान ॥२०८॥
विन्देश्च वेधश्चक्रमूत्तरं तद्दत्वा हरोक्ते श्रुतशर्मणे सः।
अथाः प्रियाः प्राप्य समं वयस्यैर्भेजे चिरं खेचरराज्यलक्ष्मीम् ॥२०९॥
एवं हरप्रसादप्रभावात् प्रापि मानुषेणापि।
सूर्यप्रभेण पूर्वं विद्याधरचक्रवर्तित्वम् ॥२१ ॥
इति विद्याधरधुर्यो व्याख्याय कथां स वत्सराजाग्रे।
वज्रप्रभः प्रणम्य च नरवाहनदत्तमुद्ययौ गगनम् ॥२११॥
तस्मिन्गते च नरवाहनदत्तदेवो दृष्ट्वा स्वभा भवनमम्बुकन्या समेतः।
वत्सेश्वरस्य पितुरास्त गृहे स धीरो विद्याधरेन्द्रपदलाभमुदीक्षमाणः ॥२१२॥
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे सूर्यप्रभलम्बके
सप्तमस्तरङ्गः।
समाप्तश्चायं सूर्यप्रभलम्बकोऽष्टमः।