Skip to content
SarvaKosh
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)

DevanagariHindipublished1,079 pages

Page 453 of 1079

Read in context
Page 453

१८ कथासरित्सागरं
महेश्वरादग्निकुण्डाद्वने शरवणादपि।
कृत्तिकाभ्यश्च शंसन्ति विचित्रं यस्य सम्भवम्॥२३९॥
जातेनैव जगत्कृत्स्नं क्षुब्धधैर्येण तेजसा।
आनम्य येन निहतो दुर्जयस्तारकासुरः॥२४०॥
तन्मन्त्रमिममावृत्स्व मत्त इत्यभिधाय सः।
अग्निवस्तो ददौ तस्मै मन्त्रं तं गुणशर्मणे॥२४१॥
सेनाराधितवांस्कन्दं गुणशर्मा स भूगृहे।
तयोपचर्यमाणः सन्सुन्दर्या नियतव्रतः॥२४२॥
ततः प्रत्यक्षतामेत्य साक्षादेव स षण्मुखः।
तुष्टोऽस्मि ते वरं पुत्र वृणीष्वेति तमादिशत्॥२४३॥
२४४॥
अक्षीणकोशो भूत्वा च महासेनं विजित्य च।
गत्वाप्रतिहतः पुत्र पृथ्वीराज्यं करिष्यसि॥२४५॥
इति दत्त्वाधिकं तस्मै वरं स्कन्दस्तिरोदधे।
सम्प्राप्ताक्षयकोषश्च गुणशर्मापि सोऽभवत्॥२४६॥
पृष्ट्वा सद्यः स्वमहिमोचितयाग्निवत्त—
विप्रात्मजामनुविनाधिकबद्धभावाम् ॥
मान्मथसिद्धिमिव रूपवतीमुपेतां।
तां सुन्दरीं स सुकृती विधिनोपयेमे॥२४७॥
अक्षीणकोशनिचयप्रभवप्रभावात् ।
सम्भूतभूरिगजबजिपदातिसैन्यः ।
दानप्रसादमिलिताखिलपार्थिवानां ।
रुन्धन्बलेरवनिमुज्जयिनीं जगाम॥२४८॥
प्रख्याप्य तस्यां तदशोकवत्याः प्रजास्वशीलं समरे च भूपम्।
जित्वा महासेनमपास्य राज्यात्पृथ्वीपतित्वं स समाससाद॥२४९॥
अन्याश्च कन्याः परिणीय राज्ञामन्यैस्तटेष्वप्याप्तगजाश्वमुख्यैः।
इष्टान्स भोगान्गुणशर्मसम्राट् चिराय मुद्वस्त स्म ससुन्दरीकः॥२५०॥