Skip to content
SarvaKosh
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)

DevanagariHindipublished1,079 pages

Page 447 of 1079

Read in context
Page 447

४१२ कथासरित्सागर
एतत्पुत्रस्तु यात्वेष पुत्रो भार्यैव बध्यते।
मा भूद्भवचनं मोघमित्युक्त्वेन्द्रः शमं ययौ॥१९४॥
अतः पित्राहमानीय निजमातुलवेश्मनि।
उज्जयिन्यां विनिक्षिप्तो भवितव्यं हि यस्य यत् ॥१९५॥
तत्राजायत सख्यं मे राजाश्रत्येन दैवतः।
ततोऽत्र मम यद्वृत्तं तत्सर्वं शृणु वच्मि ते ॥१९६॥
इत्युक्त्वामूर्त्ववृत्तान्तं यदशोकवतीप्रसम् ।
यच्च राज्ञा कृतं तस्य मुदान्तं तदवर्णयत् ॥१९७॥
पुनश्चोवाच स ब्रह्मन्नित्थमस्मि पलायितः।
देशान्तरं व्रजन्मार्गे भवन्तमिह दृष्टवान् ॥१९८॥
श्रुत्वैतद्ब्राह्मणस्तं स गुणशर्माणमभ्यधात्।
तर्हि धन्योऽस्मि संवृत्तस्त्वदभ्यागमनात्प्रभो ॥१९९॥
तदेहि मे गृहं तावदग्निदत्तं च विद्धि माम्।
नाम्ना मवप्रहारश्च ग्रामोऽयं निर्वृतो भव ॥२००॥
इत्युक्त्वा सोऽग्निदसस्तं गृहं प्रावेशयद्द्विजम्।
ऋद्धिमद्गुणशर्माणं बहुगोमहिषीहयम् ॥२०१॥
तत्र स्नानाङ्गरागाभ्यां वस्त्रैराभरणैश्च तम्।
अतिथिं मानयामास भोजनैर्विविधैश्च सः ॥२०२॥
अदर्शयच्च तस्मै स्वां काम्यरूपां सुरैरपि।
लक्षणावेक्षणमिपात्सुन्दरीं नाम कन्यकाम् ॥२०३॥
गुणशर्मापि सोऽन्यत्समरूपां विलोक्य ताम्।
सपत्न्योऽस्या भविष्यन्तीत्यन्निदत्तमुवाष तम् ॥२०४॥
नासायां तिलकोऽस्त्यस्यास्तत्सम्बन्धो भविष्यहम्।
उरस्यस्ति द्वितीयोऽपि तयोश्चैतत्फलं विदुः ॥२०५॥
एवं तेनोक्ति सम्प्रा भ्रात्रा पितुरनुज्ञया।
उद्घाटयत्युरो यावत्तावत्तिलकमदक्षत ॥२०६॥
ततोऽग्निदत्तः साश्चर्यो गुणशर्माणमभ्यधात्।
सर्वज्ञस्त्वमिमो स्वस्यास्तिसको नानुमप्रभो ॥२०७॥
गपरम्यो हि भवन्तीह प्रायः धीमति भर्तरि।
दरिद्रो विमुयादेशमपि कष्टं शुना यह ॥२०८॥