Skip to content
SarvaKosh
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)

DevanagariHindipublished1,079 pages

Page 431 of 1079

Read in context
Page 431

१२६ कथासरित्सागर
इत्याश्वास्य नृपं दत्त्वा सोऽन्तर्धानाञ्जनं दृशोः।
रात्रौ विक्रमशक्तेस्तददृश्यः कटकं ययौ ॥७४॥
प्रविश्य चान्तिकं तस्य सुप्तं च प्रतिबोध्य तम्।
जगाद विद्धि मां राजन्देवदूतमुपागतम् ॥७५॥
सन्धिं कृत्वा महासेनेनृपेणापसर द्रुतम्।
अन्यथा ते ससैन्यस्य नाशः स्यादिह निश्चितम् ॥७६॥
प्रेक्षिषे च त्वया दूते स सन्धिं तदनुमन्यत।
इति वक्तुं भगवता विष्णुना प्रहितोऽस्मि ते ॥७७॥
भक्तस्त्वं च स भक्तानां योगक्षेममवेक्षते।
सन्नुक्त्वा चिन्तितं तेन राज्ञा विक्रमशक्तिना ॥७८॥
निश्चितं सत्यमेवैतद्दुष्प्रवेशेऽन्यथा कथम्।
इह यः प्रविशेत्कश्चित्सैषा मर्त्योचिताकृतिः ॥७९॥
इत्यालोच्य स तं प्राह राजा धन्योऽस्मि यस्य मे।
देवः समादिशत्येवं यथाविष्टं करोमि तत् ॥८०॥
इति वादिन एवास्य राज्ञः प्रत्ययमादधत्।
अञ्जनान्तर्हितो भूत्वा गुणशर्मा ततो ययौ ॥८१॥
गत्वा यथाकृतं तच्च महासेनाय सोऽभ्यधात्।
सोऽप्यभ्यनन्दत्कण्ठे तं गृहीत्वा प्राणराज्यदम् ॥८२॥
प्रातर्विक्रमशक्तिश्च स दूतं प्रेष्य भूपतिः।
महासेनेन सन्धाय ससैन्यः प्रययौ ततः ॥८३॥
महासेनोऽपि जित्वा तं सोमकं प्राप्य हस्तिनः।
अश्वांश्चोज्जयिनीमागात्प्रभावाद् गुणशर्मणः ॥८४॥
तत्रस्थं च नवीनाने प्राहाङ्गुकपने च तम्।
सर्पवंशविषाद् भूपं गुणशर्मा ररक्ष सः ॥८५॥
गतेष्वथ दिनेष्वाप्तबलो राजा स वैरिणम्।
महासेनोऽभियोक्तुं तं ययौ विक्रमशक्तिकम् ॥८६॥
सोऽपि बुद्ध्वैव तस्याग्रे नृपो युद्धाय निर्ययौ।
ततः प्रवृत्ते तत्र , संग्रामोऽप्रतिमहास्तयोः ॥८७॥
क्रमाच्च द्वन्द्वयुद्धेन मिलितौ तावुभावपि।
राजानौ सहसाभूतामन्योन्यं विरथीकृतौ ॥८८॥