Skip to content
SarvaKosh
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)

DevanagariHindipublished1,079 pages

Page 363 of 1079

Read in context
Page 363

३३२ कथासरित्सागर

चक्रवर्त्तिविमानं ते सिद्धमेतदमूष्य च।
पुरेष्वन्तःपुराख्येषु सर्वेषु स्थापयिष्यसि ॥१२५॥
येन तान्यप्रधृष्याणि भविष्यन्ति भवद्विषाम्।
इत्यन्तरिक्षाद्गीर् समुवाचाथ सरस्वती ॥१२६॥
ततः स याज्ञवल्क्यं स गुरुं प्रह्वो व्यजिज्ञपत्।
आदिश्यतां प्रयच्छामि कीदृशीं दक्षिणामिति ॥१२७॥
निजाभिषेककाले मां स्मरेरेषैव दक्षिणा।
गच्छ तावत् स्वकं सैन्यमिति तं सोऽब्रवीन्मुनिः ॥१२८॥
मत्वा ततस्तं स मुनिं विमानं चाधिरुह्य तत्।
तत्सुमेरुनिवासस्थं सैन्यं सूर्यप्रभो ययौ ॥१२९॥
तत्राख्यातस्ववृत्तान्तं ससुनीथसुमेरवः।
सिद्धविद्याविमानं तमभ्यनन्दन् मयादयः ॥१३०॥
ततः सुनीथः सस्मार तं सुवासकुमारकम्।
स चागत्य मयादींस्ताञ्जगादैव सरात्रकान् ॥१३१॥
सिद्धं विमानं विद्याश्च सर्वाः सूर्यप्रभस्य तत्।
उदासीनाः किमद्यापि स्थिताः स्थ रिपुनिर्जये ॥१३२॥
तच्छ्रुत्वा स मयोऽवादीद्युक्तं भगवतोदितम्।
किन्तु प्राक्प्रेष्यतां दूतो नीतिस्तावत् प्रयुज्यताम् ॥१३३॥
एवं मयासुरेणोक्ते सोऽब्रवीन् मुनिपुत्रकः।
अस्मद्देवं का क्षतिस्तर्हि प्रहस्तः प्रेष्यतामयम् ॥१३४॥
एष सप्रतिभो वाग्मी गतिज्ञः कार्यकाक्षयोः।
कर्मक्षमश्च सहिष्णुश्च सर्वदूतगुणान्वितः ॥१३५॥
इति तद्वचनं सर्वे श्रद्धाय व्यसृजंस्ततः।
प्रहस्तं दत्तसन्देशं वीराय श्रुतशर्मणे ॥१३६॥
तस्मिन् गतेऽब्रवीत् सूर्यप्रभस्तान्निखिलाभिजान्।
श्रूयतां यन्मया दृष्टमपूर्वं स्वप्नकौतुकम् ॥१३७॥
'जानेऽद्य क्षीयमाणायां पश्यामि रजनावहम्।
यावन्महाजलौघेन वयं सर्वे ह्रियामहे ॥१३८॥
ह्रियमाणाश्च नृत्यामो न मज्जामः कथञ्चन।
अथाद्य स परावृत्तः प्रतिकूलेन वायुना ॥१३९॥