Skip to content
SarvaKosh
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)

DevanagariHindipublished1,079 pages

Page 351 of 1079

Read in context
Page 351

३२ कथासरित्सागर

हृष्टरोमा महामायः सिंहदंष्ट्रः प्रकम्पनः।
तन्तुकच्छो दुरारोहः सुमायो वज्रपञ्जरः ॥३८॥
धूमकेतुः प्रमथनो विकटाक्षश्च दानवः।
बहवोऽन्येऽपि चाजग्मुरासप्तमरसातलात् ॥३९॥
कश्चिद्रथानामयुतैः सप्तभिः कश्चिदष्टभिः।
कश्चित्यडभिरिस्त्रिभिः कश्चिद्योधैस्त्वल्पोऽप्युसेमः१॥४०॥
पदातीनां त्रिभिर्लक्षैः कश्चित्सप्तदशेन च।
कश्चित्कश्चित्तु लक्षेण सकार्धेनाघमस्तु यः॥४१॥
एकैकस्य च हस्त्यश्वमागात्तदनुसारतः।
असंख्यमायौ चान्यत् सैन्यं मयसुनीथयोः॥४२॥
सूर्यप्रभस्य चामेयमाजगाम निजं बलम्।
वसुदत्तादिभूपानां सुमेरोश्च तथैव च॥४३॥
ततो मयासुरोऽपृच्छच्चिन्तितोपस्थितं मुनिम्।
तं सुवासकुमाराख्यं सह सूर्यप्रभादिभिः ॥४४॥
विक्षिप्तमेतद् भगवन् सैन्यं मेहोपलक्ष्यते।
तद् ब्रूहि कुत्र विस्तीर्णे युगपद्दृश्यतामिति ॥४५॥
इतो योजनमात्रोऽस्ति कलापग्रामसंज्ञकः।
प्रदेशस्तत्र विस्तीर्णे गत्वैतत्प्रविलोक्त्य ताम् ॥४६॥
इत्युक्ते तेन मुनिना सद्युक्ताः ससुमेरुकाः।
ययुः कलापग्रामं तं सर्वे ते स्वबलैः सह ॥४७॥
तत्रोभयस्थानगता बभूवुस्ते पृथक् पृथक्।
संनिवेश्यासुरोणां च नृपाणां च वरूथिनी ॥४८॥
ततः सुमेरुराह स्म श्रुतधर्मा बलाधिकः।
सन्ति विद्याधराधीशास्तस्य ह्येकोत्तरं शतम् ॥४९॥
तेषां च पृथगेकैको राजां द्वात्रिंशत पतिः।
ततस्तु भित्त्वा कांश्चित्तान्योजयिष्याम्यहं तव ॥५०॥
तन्मात्ररेतद्गच्छामः स्थानं वल्मीकसंज्ञितम्।
फाल्गुनस्यासिता प्रातरष्टमी हि महाविधिः ॥५१॥


१ इतस्ततः प्रसृतम्।