Skip to content
SarvaKosh
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)

DevanagariHindipublished1,079 pages

Page 283 of 1079

Read in context
Page 283

५४ कथासरित्सागरे
अन्येद्युश्च विमानेन सहसूर्यप्रभा ययुः।
चन्द्रप्रभाद्याः सर्वे ते चीनदेशं सपौरखाः ॥१७५॥
तत्राग्रे निर्गतो राजा निजकोट्टं प्रवेश्य तान्।
स सुराहोऽपि दुहितुश्चक्रे वैवाहिकं विधिम् ॥१७६॥
अवाञ्च विद्युन्मालायै तस्यै सूर्यप्रभाय च।
असङ्ख्यहयहस्त्यश्वरत्नचीनांशुकादिकम् ॥१७७॥
तस्थुश्च तत्र त तैस्तद्भोर्गैश्चन्द्रप्रभादयः।
दिनानि कतिचित्सर्वे सुरोहाभ्यर्चितास्तदा ॥१७८॥
आसीत् सूर्यप्रमश्चात्र विलसद्धनयौवनः¹।
प्रावृट्कालो यथा विद्युन्मालया शोभितस्तया ॥१७९॥
एवं स बुभुजे तत्र तत्र श्वशुरवेश्मनि।
तत्तत्कान्तासखः सूर्यप्रभो भोगान्सबान्धवः ॥१८०॥
ततः समन्त्र्य सिद्धार्थप्रमुखैः सचिवैः सह।
ध्रमाङ्गारभटादींस्तानस्वीयसहिता नृपान् ॥१८१॥
विसृज्य निजदेशेषु तं सुरोहमहीपतिम्।
आमन्त्र्य सत्कृतामुक्तः पितृभ्यां सह सानुगः ॥१८२॥
भूशासनविमानं तदारुह्य व्योमवर्त्मना।
स्वं स सूर्यप्रभः प्रायाच्छाकल नगरं कृती ॥१८३॥
क्वचिन्मृदङ्गसङ्घः क्वचिदपि च सङ्गीतकरवैः।
क्वचित् पानक्रीडा क्वचन सुदृशां मण्डनविधिः।
क्वचिदप्याभीष्टस्तुतिमुखरवैतालिकरवः
पुरे सन्निभ्रासीत्प्रमद इति तस्यागमनजः ॥१८४॥
सभार्य्या पितृवेश्मसु स्थितवतीरानाय्य स स्वप्रियाः।
दत्तैस्तत्पितृभिर्गजाश्वनिवहहस्ताभि सहवागतैः।
नानारत्नमपूर्णभारविभवैरूष्ट्रैश्च रोष्यादिगं
लीलानर्त्तितदिग्गजपोत्यविभवञ्चक्रे प्रजाकौतुकम् ॥१८५॥
१ प्रावृट्पक्षे--विलसत् घनानां यौवनं यस्मिन् सूर्य प्रभपक्षे--विलसद् घनं यौवनं यस्य।
२ प्रावृट्पक्षे--विद्युतां मालयापहस्तया, शोभितः सूर्यप्रभपक्षे तन्नाम्न्या वीणाविद्येति
गन्तव्या।
३ अङ्गमेवायनात्।