कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
Kathasaritsagara Part 2 (Lambaka 6–18)
by महाकवि सोमदेव भट्ट
Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)
Page 281 of 1079
Read in context१५२ कथासरित्सागर
इत्यत्र वाचिते लेखे सिद्धार्थेन तथेति सः।
राजा चन्द्रप्रभो दूतं सञ्चकार जहर्ष च॥१६१॥
आनाययच्च सुभटस्यान्तिकं चन्द्रिकावतीम्।
तत्सुतामपरान्तं तं प्रहस्तं प्रेष्य सत्वरम्॥१६२॥
प्रातश्च जग्मुः सर्वे तं कृत्वा सूर्यप्रभं पुरः।
अपरान्तं विमानेन जनमेजयसंयुताः॥१६३॥
तत्र वान्त्सुभटो राजा दुहितृप्राप्तिनन्दितः।
भृशमानर्च चक्रे च सुतापरिणयोत्सवम्॥१६४॥
ददौ च चन्द्रिकावत्यै सोऽस्यै रत्नादिकं तथा।
यथा वीरभटाद्यास्ते स्वदत्तेन कलञ्जिरे॥१६५॥
ततः सूर्यप्रभे तत्र स्थिते श्वशुरवेश्मनि।
आगात् पौरवसम्बन्धी दूतो श्रावणकादपि॥१६६॥
सोऽपि चन्द्रप्रभमिदं निजस्वामिवचोऽभ्यधात्।
युता सुलोचना नीता धीमत्सूर्यप्रभेण मे॥१६७॥
ततो मे नैव सन्तापस्तद्युक्तं किं तु मद्गृहम्।
आनीयतां स युष्माभिराधारो यद्विदन्महः॥१६८॥
तच्छ्रुत्वैव मुदाम्यर्च्य दूतं चन्द्रप्रभो नृपः।
आनाययत्प्रहस्तेन पितुः पार्श्वं सुलोचनाम्॥१६९॥
रातः स सुभटाः सर्वे सह सूर्यप्रभेण ते॥
श्रावाणकं विमानेन ययुर्व्यामोपगामिना॥१७०॥
तत्रोद्वाहोत्सवं कृत्वा सूर्यप्रभसुलोचने।
रत्नैरापूरयत्सोऽपि पौरवोऽभ्यर्चितराजकः¹॥१७१॥
तेषूपचर्यमाणेषु सुतस्नुषासु तेषु च।
प्रजिघाय सुरोहोऽपि दूतं श्रीमन्नरेश्वरः॥१७२॥
सोऽभ्यन्यदवदूतमुत्सनार्चयामास पार्थिवः।
हृतकन्यस्तया साकं तषामागमनं गृहे॥१७३॥
ततश्चन्द्रप्रभो राजा हृष्टस्तस्यापि तां सुताम्।
विदामासां प्रहस्तेनानाययामास चेतसम्॥१७४॥
१ विवाहविधिनादित्यर्थः। २ सम्बन्धिराजसमूहः।