Skip to content
SarvaKosh
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)

DevanagariHindipublished1,079 pages

Page 277 of 1079

Read in context
Page 277

२४८ कथासरित्सागर
चक्रे च वाद्यनृत्तैकमयं लोकमहोत्सवम्।
पूजितब्राह्मणवरं मानिताखिलराजकम् ॥१३३॥
तावच्चाशङ्कितं तत्र नभः पिञ्जरतां ययौ।
रक्ताश्मत्वमसम्पूर्णभावि शसदिवात्मनः ॥१३४॥
तुमुलाकुलशब्दाश्च बभूवुः सहसा दिशः।
भीता इवागतं दृष्ट्वा परसैन्यं विहायसा ॥१३५॥
तावच्च तत्क्षणं वातुं प्रवृत्तोऽभून्महानिलः।
सपरैः सह युद्धाय भूचरानुत्क्षिपन्निव ॥१३६॥
क्षणाच्च ददृशे व्योम्नि विद्याधरबलं महत्।
दीप्तिद्योतितविश्वचक्रमुद्यद्भाद महाजवम् ॥१३७॥
तन्मध्ये भातिशुभगं विद्याधरकुमारकम्।
एकं सूर्यप्रभाद्यास्ते पश्यन्ति स्म सुविस्मिताः ॥१३८॥
'आषाढेश्वरतनयो दामोदर एष जयति युवराजः।
रे मर्त्य धरणिगोचर सूर्यप्रभ निपत पादयोरस्य ॥१३९॥
प्रणम च रे जनमेजय भवता दत्ता सुता किमस्मैव।
आराधय तमिमं तद्देव नैषोऽन्यथा क्षमते' ॥१४०॥
इति तस्मिन्क्षणे विद्याधरबन्दी ततोऽम्बरात्।
तस्य दामोदरस्याज्ञाव्यावजहारोच्चया गिरा ॥१४१॥
तच्छ्रुत्वा दृष्टतत्सैन्यो गृहीत्वा खड्गचर्मणी।
सूर्यप्रभो नभः क्रोधादुत्पपात स्वविद्यया ॥१४२॥
अनूत्पेतुश्च सचिवास्तस्य सर्वे धृतायुधाः।
प्रहस्तश्च प्रभासश्च भासः सिद्धार्थ एव च ॥१४३॥
प्रज्ञाढ्यः सर्वदमनो वीतभीतिः शुभङ्करः।
विद्याधराणां तैः साकं प्रावर्तत महाहवः ॥१४४॥
सूर्यप्रभश्चाभ्यधावत्ततो दामोदरस्ततः।
खड्गेनाच्छन् रिपून् गुह्यैस्तच्छस्त्राणि स्वचर्मणा ॥१४५॥
तं जनाः कति सख्ये च शतसहस्रा नभश्चराः।
समत्वमेव विविद्युद्युध्यमानाः परस्परम् ॥१४६॥
बभु राङ्गलसत्पाशाः साङ्कुशा रुधिराग्णाः।
पतन्त्यः शूरचापेभ्यः कृतान्तस्येव दृष्टयः ॥१४७॥