कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
Kathasaritsagara Part 2 (Lambaka 6–18)
by महाकवि सोमदेव भट्ट
Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)
Page 237 of 1079
Read in context२०८ कथासरित्सागर
तत्रैकं रुचिरं वेश्म वृद्धयाधिष्ठितं स्त्रिया।
स विवेश निवासाय नम्रयानुमतस्तया ॥१४०॥
युक्तिं जिज्ञासमानश्च क्षणात्पप्रच्छ तां स्त्रियम्।
आर्ये किमभिधानोऽत्र राजापत्यं च तस्य किम् ॥१४१॥
रूपं च तस्य नः शंस यतो वैदेशिका वयम्।
इत्युक्ता तेन वृद्धा सा तं विलोक्योत्तमाकृतिम् ॥१४२॥
प्रत्युवाच महाभाग शृणु सर्वं वदामि ते।
इह कर्पूरको नाम राजा कर्पूरसम्भवे ॥१४३॥
स धानपत्यः सन्तानहेतोद्दिश्य शङ्करम्।
बुद्धिकार्या समं देव्या निराहारोऽकरोत् तपः ॥१४४॥
त्रिरात्रोपोषितं वर्षो हरः स्वप्ने तमादिशत्।
उत्तिष्ठ पुत्राभ्यधिका सा ते कन्या जनिष्यते ॥१४५॥
विद्याधराणां साम्राज्यं यस्याः पतिरवाप्स्यति।
इत्यादिष्टो हरेणासौ प्रातः प्रबुध्य भूपतिः ॥१४६॥
निवेद्य बुद्धिकार्ये च देव्यै स्वप्नं तदोत्थितः।
प्रहृष्टोऽथ तया सार्धं चकार व्रतपारणम् ॥१४७॥
ततस्तस्याधिराद्वाज्ञी राज्ञी गर्भमग्रहीत् सा।
काले चासूत सम्पूर्णे कन्यां सर्वाङ्गसुन्दरीम् ॥१४८॥
यया प्रभामितास्तत्र जातवेश्मनि दीपकाः।
कज्जलोद्गारमिषतो निःश्वासानमुचन्निव ॥१४९॥
कर्पूरिकेति तस्याश्च निजं नाम ततः पिता।
एष कर्पूरको राजा व्यधत्त विहितोत्सवः ॥१५०॥
क्रमाच्च वृद्धिं प्राप्ता सा लोकलोचनचन्द्रिका।
कर्पूरिका राजपुत्री यौवनस्याद्य वर्तते ॥१५१॥
पिता चेह नृपस्तस्या विवाह मभिवाञ्छति।
पुरुषद्वेषिणी सा तु न मञ्छति मनस्विनी ॥१५२॥
कन्याजन्मफलं कस्माद्विवाहं सखि नेच्छसि।
इति मत्सुतया सा च सख्या पृष्टेदमब्रवीत् ॥१५३॥
सखि जातिस्मराया मे प्राग्वृत्तं शृणु कारणम्।
अस्ति तीरे महाम्भोघेर्महाश्चन्दनपादपः ॥१५४॥