Skip to content
SarvaKosh
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)

DevanagariHindipublished1,079 pages

Page 207 of 1079

Read in context
Page 207

१७८ कथासरित्सागर
विमाने वीरमारोप्य सोऽनिच्छासेनमग्रभाक्।
प्रहिणोदन्तिकं पित्रोः स्वोदन्तावेदनाय तम् ॥१४६॥
सोऽपि गत्वा विमानेन तन क्षिप्राद्विहायसा।
पुरीमनिच्छासेनस्तां पितुः प्रापदैरावतीम् ॥१४७॥
तत्र तौ नन्दयामास पितरौ दर्शनेन स।
तीव्रोत्तातपक्लान्तौ चकोराविव चन्द्रमाः ॥१४८॥
उपेत्य चाङ्घ्रिपतितः पर्यायालिङ्गितस्तयोः।
निरास पृच्छतोः शङ्कां भ्रातृकल्याणवार्तया ॥१४९॥
शशंस स च वृत्तान्तमेतयोः पुरतोऽखिलम्।
आपातदुस्तं सोऽप्यन्तं मातुरानन एव च ॥१५०॥
शुश्राव चात्र विहितं तादृशं पापया तया।
द्वेषेणापरमात्रा सदारमनाशाय कैतवम् ॥१५१॥
ततः पित्रोत्सववता युक्तो मात्रा च निर्वृतः।
तस्थावनिच्छासेनोऽत्र पूज्यमानो जनेन सः ॥१५२॥
याते कतिपयाहे च दृष्ट दुःस्वप्नशङ्कितः।
भ्रातरं प्रति सोत्कण्ठः पितरं स व्यजिज्ञपत् ॥१५३॥
गच्छामि युष्मदुत्कण्ठामभिधायानयाम्यहम्।
आर्यन्वीरसेनं तमनुजानीहि तात माम् ॥१५४॥
तच्छ्रुत्वानुमतस्तेन पित्रा पुत्रोत्सुकेन सः।
जनन्या च विमानं स्वं तदेवारुह्य सत्वरः ॥१५५॥
प्रायादनिच्छासेनस्तद्व्योम्ना शैलपुरं पुरम्।
प्राप्यश्च तत्र प्राविक्षत्स्वभ्रातुस्तस्य मन्दिरम् ॥१५६॥
ददर्श तत्र निस्संज्ञं पतितस्थितमग्रजम्।
रुदत्योरन्तिके खड्गदंष्ट्रामदनदंष्ट्रयोः ॥१५७॥
किमेतदिति सम्भ्रान्तं पृच्छन्तं तमधोमुखी।
जगाद खड्गदंष्ट्रा सा निन्दितापरया तया ॥१५८॥
स्वय्यस्थिरे मयि स्नातुं गतायामेकदाऽनया।
त्वद्भात्राय महारस्तं रहो मदनदंष्ट्रया ॥१५९॥
क्षणात्स्नात्वागता चाहं साक्षादेनं तथा स्थितम्।
एतया मुक्तमद्राक्षं वाचा च निरभर्त्सयम् ॥१६०॥