कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
Kathasaritsagara Part 2 (Lambaka 6–18)
by महाकवि सोमदेव भट्ट
Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)
Page 205 of 1079
Read in context१७६ कथासरित्सागर
प्रवृत्ते च तयोर्युद्धे छिन्नश्छिप्तोऽथ राक्षसः।
तस्येन्दीवरसेनेन मूर्धा मुहुरजायत ॥१३१॥
तां तस्य मायामालोक्य तत्पार्श्वस्थितया तया।
कुमार्या कृतसञ्ज्ञ सन्ददर्शनेनानुरक्तया ॥१३२॥
स राजपुत्रश्छित्त्वैव रक्षसस्तस्य तच्छिरः।
भूयः खड्गप्रहारेण खड्गहस्तो द्विधाकरोत् ॥१३३॥
तयास्य नष्टमायस्य रक्षसः प्रतिमायया।
नाजायत पुनर्मूर्धा तेन रक्षो व्यपादि तत् ॥१३४॥
हत तस्मिन् प्रहृष्टे ते तद्वरस्त्रीकुमारिके।
सानुजो राजपुत्रोऽसावुपविश्याथ पृष्टवान् ॥१३५॥
आसीत् किमीदृशेऽमुष्मिन् पुरे त्रास्यन्नरक्षितः।
राक्षसोऽस्य युवां के च हतऽस्मिन् किं च हृष्यथः ॥१३६॥
एतच्छ्रुत्वा तयोर्मध्यात् कुमारी सा जगाद तम्।
अस्मिञ्छैलपुरे वीरभुजो नामाभवन्नृपः ॥१३७॥
एषा मदनदंष्ट्रेति भार्या तस्य स चामुना।
मायया राक्षसेनेत्य यमदंष्ट्रेण भक्षितः ॥१३८॥
ग्रस्तः परिच्छदश्चास्य सुरूपेति न भक्षिता।
एका मदनदंष्ट्रैषा भार्या च विहितात्मनः ॥१३९॥
ततो विविक्षत रम्येऽस्मिन्पुरे निर्माणकाञ्चनान्।
गृहानेषोऽनया क्रीडन्नास्तापास्तपरिच्छदः ॥१४०॥
अहं च खड्गदंष्ट्राख्या कनीयस्यस्य रक्षसः।
भगिनी कन्यका दृष्टे त्वयि सद्योऽनुरागिणी ॥१४१॥
अतो हतेऽस्मिन्हृष्टेयमस्मिं च तविहाधुना।
उपयच्छस्व मामार्यपुत्र प्रेमसमर्पिताम् ॥१४२॥
एवमुक्तवतीं खड्गदंष्ट्रां स परिणीतवान्।
तामिन्दीवरसेनोऽथ गान्धर्वविधिना तदा ॥१४३॥
तस्थौ चान्नेन नगरे देवी खड्गप्रभावतः।
चिन्तितोपनमद्भोगः कृतदारोऽनुजान्वितः ॥१४४॥
एकदा च कनीयांसं भ्रातरं व्योमगामिनि।
स्वखड्गचिन्तारत्नस्य प्रभावाद्याननिर्मितः ॥१४५॥