Skip to content
SarvaKosh
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)

DevanagariHindipublished1,079 pages

Page 191 of 1079

Read in context
Page 191

१६६ कथासरित्सागरः
ताभ्यां समं च सोऽपुत्रो राजा पुत्रार्थमम्बिकाम्।
आराधयन्निराहारो दर्भशायी व्यधातपः॥५६॥
ततः सा तं तपस्तुष्टा स्वप्ने दत्त्वा फलद्वयम्।
दिव्यं समादिशत् साक्षाद् भवानी भक्तवत्सला ॥५७॥
उत्तिष्ठ देहि दारभ्यो मह्यमेतत्फलद्वयम्।
ततो राजन् प्रवीरो ते जनिष्येते सुतावुभौ ॥५८॥
इत्युक्त्वान्तर्दधे गौरी प्रबुद्धः स च भूपतिः।
ननन्द प्रातरुत्थाय हस्ते पश्यञ्छुभे फले ॥५९॥
स्वप्नेन तेन जानन्त्य वर्मिसेन परिग्रहम्।
स्नातो मृडानीमभ्यर्च्य चकार व्रतपारणम् ॥६०॥
नक्तं चोपैत्य तां पूर्वं राज्ञीमधिकसङ्गमाम्।
फलमेकं ददौ तस्यै सा च तत् क्षुभुजे ततः॥६१॥
ततस्तन्मन्दिरे तस्यामुवास स नृपो निशि।
तत्पितुर्मन्त्रिमुरव्यस्य निजस्य किल गौरवात् ॥६२॥
तच्चात्र निषधे सम्प्रत्यात्मशय्याशिरोऽन्तिके।
द्वितीयस्याः कृते देव्याः द्वितीयं कल्पितं फलम् ॥६३॥
सुप्तस्याथ नृपस्याथ राज्ञी साधिकसङ्गमा।
उत्थायात्मन एव द्वाविच्छन्ती सदृशौ सुतौ ॥६४॥
धीरौत्साहाद् भक्षयामास द्वितीयमपि तत्फलम्।
निसर्गसिद्धा नारीणां सपत्नीषु हि मत्सरः॥६५॥
प्रातःश्चोत्थाय चिन्वान तत्फलं सं महीपतिम्।
मयैवं तत्फलं भुक्तं द्वितीयमिति साऽब्रवीत् ॥६६॥
तत श्च राजा विमना निर्गत्यातीत्य वासरम्।
मत्वा तस्या द्वितीयस्या देव्या वासगृहं ययौ ॥६७॥
तत्र तत्पृच्छते तां याजमानां च सोऽब्रवीत्।
भुजस्व म तन्त्यन्तात् सपत्नी ते छलारिति ॥६८॥
ततः सा तनयोत्पत्तिहेतुमप्राप्य तत्फलम्।
बभूव बाष्पसंरुरवा राज्ञी तूष्णीं गुरुश्रिया ॥६९॥
गच्छत्स्वेव दिनेष्वेव राज्ञी गार्भधुरोद्वहा।
गर्भाभूसुताव... का... द्वौ युगलौ सुतौ ॥७०॥