Skip to content
SarvaKosh
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)

DevanagariHindipublished1,079 pages

Page 185 of 1079

Read in context
Page 185

१६ कथासरित्सागर
त्वं न दृष्टा मया देवाद् गुटिका चात्र मे गता।
प्रसीद तद्भगवति क्षमस्व स्खलितं मम ॥१२॥
तच्छ्रुत्वा नास्ति मे पुत्र कोप इत्यभिधाय च।
तापसी सा जितक्रोधा तमाशीर्भिरसान्त्वयत् ॥१३॥
ततश्च वशिनीं मत्वा प्रबुद्धो सत्यतापसीम्।
नरवाहनदत्तस्तां पप्रच्छ विनयेन सः ॥१४॥
कैषा कर्पूरिका नाम भगवत्युदिता त्वया।
एतदादिश तुष्टासि मयि चेत्कौतुकं हि मे ॥१५॥
इत्युक्तवन्तं प्रणतं तापसी तं जगाद सा।
अस्ति पारेऽम्बुधि परं नाम्ना कर्पूरसम्भवम् ॥१६॥
अन्वर्थसंज्ञस्तत्र राजास्ति कर्पूरक इति श्रुतः।
तस्य कर्पूरिका नाम सुतास्ति वरकन्यका ॥१७॥
एकां विलोक्य कमलां निर्मथ्यापहृतां सुरैः।
या द्वितीयेव निक्षिप्य तत्र गोपायिताम्बुना ॥१८॥
पुरुषद्वेषिणी सा च विवाहे नाभिवाञ्छति।
त्वमुपेत्य यदि परं भविष्यति त्वद्वशिनी ॥१९॥
तत्तत्र गच्छ पुत्र त्वं तां च प्राप्स्यसि सुन्दरीम्।
गच्छतश्चात्र वोऽटव्यां महाक्लेशो भविष्यति ॥२० ॥
मोहस्तत्र न कार्यस्ते सर्वं स्वन्तं हि भावि सत्।
इत्युक्त्वैव समुत्पत्य तापसी सा तिरोदधे ॥२१॥
नरवाहनदत्तोऽथ तद्वाणीमदनाज्ञया।
आकृष्टः स समाहूय स्म गोमुखं पार्श्ववर्तिनम् ॥२२॥
एहि कर्पूरिकार्थं पुरं कर्पूरसम्भवम्।
गच्छावस्तामदृष्ट्वा हि न क्षणं स्थातुमुत्सहे ॥२३॥
तच्छ्रुत्वा गोमुखोऽब्रवीत् न्वार्य साहसेन त।
क्व त्वं क्वास्य पुरं तत् क्व क्व सोढ्या वन्यवाघव मा ॥२४॥
नाम्नि श्रुते विनेष्यारी त्यक्तदिव्याङ्गनाजनः।
निरभिप्रायसन्दिग्धामभिधावसि मानुषीम् ॥२५॥
एवं स गोमुखेनोक्तो वत्सराजसुतस्तदा।
अब्रवीन् मिष्ठतागम्या न तस्या वचनं मृषा ॥२६॥